摩诃婆罗多 · 章 12.110
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.110.1
क्लिश्यमानेषु भूतेषु तैस्तैर्भावैः पृथक्पृथक् ।
दुर्गाण्यतितरेद्येन तन्मे ब्रूहि पितामह ॥ १२.११०.१ ॥
众生因种种境遇而各自受苦之时,人借何道才能度过险难?祖父啊,请告诉我。
12.110.2
आश्रमेषु यथोक्तेषु यथोक्तं ये द्विजातयः ।
वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते ॥ १२.११०.२ ॥
那些依照经典所规定而在各个生活阶段行事、心神克制的再生者,能度过险难。
12.110.3
ये दम्भान्नाचरन्ति स्म येषां वृत्तिश्च संयता ।
विषयांश्च निगृह्णन्ति दुर्गाण्यतितरन्ति ते ॥ १२.११०.३ ॥
不以伪善行事、生活有节制、并克制诸根所对之境的人,能度过险难。
12.110.4
प्रत्याहुर्नोच्यमाना ये न हिंसन्ति च हिंसिताः ।
प्रयच्छन्ति न याचन्ते दुर्गाण्यतितरन्ति ते ॥ १२.११०.४ ॥
被恶言相加而不还口、被伤害而不伤害他人、施舍而不乞求的人,能度过险难。
12.110.5
वासयन्त्यतिथीन्नित्यं नित्यं ये चानसूयकाः ।
नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते ॥ १२.११०.५ ॥
常常接待宾客、常无嫉妒、常专心自修诵习的人,能度过险难。
12.110.6
मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः ।
वर्जयन्ति दिवास्वप्नं दुर्गाण्यतितरन्ति ते ॥ १२.११०.६ ॥
精通法的人,尽心侍奉父母,戒除白日昏睡,便能度过险难。
12.110.7
ये वा पापं न कुर्वन्ति कर्मणा मनसा गिरा ।
निक्षिप्तदण्डा भूतेषु दुर्गाण्यतितरन्ति ते ॥ १२.११०.७ ॥
凡不以身、心、言造作恶业,对众生放下刑杖者,便能渡过困厄。
12.110.8
ये न लोभान्नयन्त्यर्थान्राजानो रजसाऽन्विताः ।
विषयान्परिरक्षन्ति दुर्गाण्यतितरन्ति ते ॥ १२.११०.८ ॥
诸王虽有激情,却不因贪婪夺取财物,而守护其所统之境,便能渡过困厄。
12.110.9
स्वेषु दारेषु वर्तन्ते न्यायलब्धेष्वृतावृतौ ।
अग्निहोत्रपराः सन्तो दुर्गाण्यतितरन्ति ते ॥ १२.११०.९ ॥
善人与所合法娶得之妻,依四时而行,专心于火祭,便能渡过困厄。
12.110.10
आहवेषु च ये शूरास्त्यक्त्वा मृत्युकृतं भयम् ।
धर्मेण जयमिच्छन्ति दुर्गाण्यतितरन्ति ते ॥ १२.११०.१० ॥
勇士于战阵中舍弃死亡所生之恐惧,以法求胜,便能渡过困厄。
12.110.11
ये वदन्तीह सत्यानि प्राणत्यागेऽप्युपस्थिते ।
प्रमाणभूता भूतानां दुर्गाण्यतितरन्ति ते ॥ १२.११०.११ ॥
即使临终之时,仍在此处说真话、为众生所信赖者,便能渡过困厄。
12.110.12
कर्माण्यकुत्सनार्थानि येषां वाचश्च सूनृताः ।
येषामर्थाश्च साध्वर्था दुर्गाण्यतितरन्ति ते। ॥ १२.११०.१२ ॥
其行为以无可非议为目的,其言语甘美而真实,其志向亦皆善良者,便能渡过困厄。
12.110.13
अनध्यायेषु ये विप्राः स्वाध्यायं नैव कुर्वते ।
तपोनिष्ठाः सुतपसो दुर्गाण्यतितरन्ति ते ॥ १२.११०.१३ ॥
那些在禁止诵习的日子不诵吠陀、坚守苦行、修行殊胜的婆罗门,能够越过重重困难。
12.110.14
ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः ।
विद्या वेदव्रतस्नाता दुर्गाण्यतितरन्ति ते ॥ १२.११०.१४ ॥
自幼守持梵行、修习苦行,沐浴于智慧与吠陀誓愿中的人,能够越过困难。
12.110.15
ये च संशान्तरजसः संशान्ततमसश्च ये ।
सत्वे स्थिता महाभागा दुर्गाण्यतितरन्ति ते ॥ १२.११०.१५ ॥
激情与黑暗皆已全然平息、安住于善性的大福德者,能够越过困难。
12.110.16
येषां न कश्चित्रसति न त्रसन्ति हि कस्यचित् ।
येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते ॥ १२.११०.१६ ॥
无人惧怕他们,他们也不惧怕任何人;对他们而言整个世界如同自身——他们能够越过困难。
12.110.17
परश्रिया न तप्यन्ति ये सन्तः पुरुषर्षभाः ।
ग्राम्यादन्नान्निवृत्ताश्च दुर्गाण्यतितरन्ति ते ॥ १२.११०.१७ ॥
那些不因他人之盛而烦恼、远离乡间享乐与饮食的善士,人中之牛,能够越过困难。
12.110.18
सर्वान्देवान्नमस्यन्ति सर्वधर्मांश्च शृण्वते ।
ये श्रद्दधानाः शान्ताश्च दुर्गाण्यतितरन्ति ते ॥ १२.११०.१८ ॥
向一切神灵致敬、聆听一切法义、怀有信心且内心平静者,能够越过困难。
12.110.19
ये न मानित्वमिच्छन्ति मानयन्ति च ये परान् ।
मान्यमानान्नमस्यन्ति दुर्गाण्यतितरन्ति ते ॥ १२.११०.१९ ॥
不求尊荣而尊敬他人、礼敬受尊敬者的人,能度过险难。
12.110.20
ये च श्राद्धानि कुर्वन्ति तिथ्यांतिथ्यां प्रजार्थिनः ।
सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते ॥ १२.११०.२० ॥
为求子嗣,在每个太阴日以极纯净之心行祭祖(śrāddha)的人,能度过险难。
12.110.21
ये क्रोधं संनियच्छन्ति क्रुद्धान्संशमयन्ति च ।
न च रुष्यन्ति भृत्यानां दुर्गाण्यतितरन्ति ते ॥ १२.११०.२१ ॥
能完全克制愤怒、平息他人怒气、不对仆从发怒的人,能度过险难。
12.110.22
मधु मांसं स्त्रियो नित्यं वर्जयन्तीह मानवाः ।
जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते ॥ १२.११०.२२ ॥
在世间始终戒绝蜂蜜、肉食与女色,自生下来便戒酒的人,能度过险难。
12.110.23
यात्रार्थं भोजनं येषां संतानार्थं च मैथुनम् ।
वाक् सत्यवचनार्थं च दुर्गाण्यतितरन्ति ते ॥ १२.११०.२३ ॥
饮食只为维持身体之行,交合只为子嗣,言语只为说真话的人,能度过险难。
12.110.24
ईश्वरं सर्वभूतानां जगतः प्रभवाप्ययम् ।
भक्ता नारायणं देवं दुर्गाण्यतितरन्ति ते ॥ १२.११०.२४ ॥
虔信那罗延天(Nārāyaṇa)的人——他是一切众生之主,世界生灭之源——能度过险难。
12.110.25
य एष पझरक्ताक्षः पीतवासा महाभुजः ।
सुहृद्धाता च मित्रं च संबन्धी च तवाच्युत ॥ १२.११०.२५ ॥
这位眼如红莲、身着黄衣、双臂宏大者,便是你的益友、兄弟、朋友与亲属阿周那的不朽者(阿持优多)。
12.110.26
य इमान्सकलाँल्लोकांश्चर्मवत्परिवेष्टयेत् ।
इच्छन्प्रभुरचिन्त्यात्मा गोविन्दः पुरुषोत्तमः ॥ १२.११०.२६ ॥
能将这一切世界如皮革般卷起的,由意愿即可主宰、其自性不可思议者,乃是至上人戈文达。
12.110.27
स्थितः प्रियहिते नित्यं स एष पुरुषोत्तमः ।
राजंस्तव यदुश्रेष्ठो वैकुण्ठः पुरुषर्षभः ॥ १२.११०.२७ ॥
常住于所爱者之利益之中的,便是这位至上人。大王,你的那位雅度族之最,即毗湿奴(吠轮陀),乃人中之牛。
12.110.28
य एनं संश्रयन्तीह भक्त्या नारायणं हरिम् ।
ते तरन्तीह दुर्गाणि न चात्रास्ति विचारणा ॥ १२.११०.२८ ॥
凡于此世以虔敬投靠这位那罗衍那(哈里)者,便能在此世超越艰难,此中无疑。
12.110.29
अस्मिन्नर्पितकर्माणः सर्वभावेन भारत ।
कृष्णे कमलपत्राक्षे दुर्गाण्यतितरन्ति ते। ॥ १२.११०.२९ ॥
婆罗多之后,凡以全部身心将自己的行为奉献给这位莲花瓣眼的克里希那者,便能超越艰难。
12.110.30
लोकरक्षार्थमुत्पन्नमदित्यां कश्यपात्मजम् ।
देवमिन्द्रं नमस्यन्ति दुर्गाण्यतितरन्ति ते ॥ १२.११०.३० ॥
凡礼敬为护持世界而由阿底提所生、作为迦叶波之子的天神因陀罗者,便能超越艰难。
12.110.31
ब्रह्माणं लोककर्तारं ये नमस्यन्ति सत्पतिम् ।
यष्टव्यं क्रतुभिर्देवं दुर्गाण्यतितरन्ति ते ॥ १२.११०.३१ ॥
敬拜世界创造者、善人之主梵天,并敬拜应以祭祀供奉的神的人,能够度过困厄。
12.110.32
यं विष्णुरिन्द्रः शंभुश्च ब्रह्मा लोकपितामहः ।
स्तुवन्ति विविधैः स्तोत्रैर्देवदेवं महेश्वरम्।
समर्चयन्ति ये शश्वद्दुर्गाण्यतितरन्ति ते ॥ १२.११०.३२ ॥
始终虔诚礼拜众神之神大自在天(摩醯首罗)的人——毗湿奴、因陀罗、湿婆与世界祖父梵天以种种颂歌赞美他——能够度过困厄。
12.110.33
दुर्गातितरणं ये च पठन्ति श्रावयन्ति च ।
कथयन्ति च विप्रेभ्यो दुर्गाण्यतितरन्ति ते ॥ १२.११०.३३ ॥
诵读度过困厄之法、使他人听闻并向婆罗门讲述的人,能够度过自己的困厄。
12.110.34
इति कृत्यसमुद्देशः कीर्तितस्ते मयाऽनघ ।
तरते येन दुर्गाणि परत्रेह च मानवः ॥ १२.११०.३४ ॥
无罪者啊,我已为你宣说了此仪轨的要义,人借此可在今世与来世度过困厄。