摩诃婆罗多 · 章 12.127
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.127.1
ततस्तेषां समेतानामृषीणामृषिसत्तमः ।
ऋषभो नाम विप्रर्षिर्विस्मयन्निदमब्रवीत् ॥ १२.१२७.१ ॥
于是,聚集在那里的诸仙中最优秀的仙人、婆罗门仙人名为Ṛṣabha,惊叹地说道:
12.127.2
पुराऽहं राजशार्दूल तीर्थान्यनुचरन्प्रभो ।
समासादितवान्दिव्यं नरनारायणाश्रमम् ॥ १२.१२७.२ ॥
往昔,王中之虎啊,主上,我巡访圣地时,抵达了那神圣的那罗与那罗延仙居。
12.127.3
यत्र सा बदरी रम्या सरो वैहायसं तथा ।
यत्र चाश्वशिरा राजन्वेदान्पठति शाश्वतान् ॥ १२.१२७.३ ॥
那里有可爱的菩提园(Badarī)与Vaihāyasa湖;王啊,阿湿婆尸罗在那里诵读永恒的吠陀。
12.127.4
तस्मिन्सरसि कृत्वाऽहं विधिवत्तर्पणं पुरा ।
पितृणां देवतानां च ततोश्रममियां तदा ॥ १२.१२७.४ ॥
往昔我在那湖中依礼为祖先与诸神行了祭水之仪,然后便前往仙居。
12.127.5
रमाते यत्र तौ नित्यं नरनारायणावृषी ।
अदूरादाश्रमात्किंचिद्वासार्थमगमं तदा ॥ १२.१२७.५ ॥
离那罗与那罗延二仙常常欢娱的仙居不远,我当时便稍稍走开,去那里暂住。
12.127.6
अत्र चीराजिनधरं कृशमुच्चमतीव च ।
अद्राक्षमृषिमायान्तं तनुं नाम तपोनिधिम् ॥ १२.१२७.६ ॥
这里我看到一位仙人走来,身披树皮与鹿皮,极其消瘦而高大,名叫坦努,是苦行的宝藏。
12.127.7
अन्यैर्नरैर्महाबाहो वपुषाऽप्रतिमं तदा ।
कृशता चापि राजर्षे न दृष्टा तादृशी मया ॥ १२.१२७.७ ॥
大臂者啊,那时我从未在其他人身上见过如此无与伦比的身躯消瘦,王中仙人啊。
12.127.8
शरीरमपि राजेन्द्र तनु कानिष्ठिकासमम् ।
ग्रीवा बाहू तथा पादौ केशाश्चाद्भुतदर्शनाः ॥ १२.१२७.८ ॥
王中之王啊,他的身躯也细如小指;颈项、双臂、双脚和头发都令人惊异。
12.127.9
शिरः कायानुरूपं च कर्णौ नेत्रे तथैव च ।
तस्य वाक्चैव चेष्टा च सामान्ये राजसत्तम ॥ १२.१२७.९ ॥
他的头与身躯相称,耳目也是如此;他的言语与举止都很平常,王中之最。
12.127.10
दृष्ट्वाऽहं तं कृशं विप्रं भीतः परमदुर्मनाः ।
पादौ तस्याभिवाद्याथ स्थितः प्राञ्जलिरग्रतः ॥ १२.१२७.१० ॥
看到那位消瘦的婆罗门,我既恐惧又心中极为烦乱;向他的双足恭敬行礼后,我合掌站在他面前。
12.127.11
निवेद्य नामगोत्रे च तथा कार्यं नरर्षभ ।
प्रदिष्टे चासने तेन शनैरहमुपाविशम् ॥ १२.१२७.११ ॥
我报上姓名与家族,也陈述了来意,人中之牛啊;当他为我安排座位时,我慢慢坐了下来。
12.127.12
ततः स कथयामास धर्मार्थसहिताः कथाः ।
ऋषिमध्ये महाराज तत्र धर्मभृतां वरः ॥ १२.१२७.१२ ॥
于是,那位最优秀的持法者,在众仙人之中讲述了充满法与利的故事,大王啊。
12.127.13
त…स्तु कथयत्येव राजा राजीवलोचनः ।
उपयाज्जवनैरश्वैः सबलः सावरोधनः ॥ १२.१२७.१३ ॥
…莲花眼的国王说道。他乘着疾马,携军队与后宫出发。
12.127.14
स्मरम्पुत्रमरण्ये वै नष्टं परमदुर्मनाः ।
भूविद्युम्नपिता श्रीमान्वीरद्युम्नो महायशाः ॥ १२.१२७.१४ ॥
他追念在森林中失去的儿子,深感悲痛:维罗底尤姆纳,布维底尤姆纳之父,光荣而大名远扬。
12.127.15
इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति भारत ।
एवमाशाकृशो राजा चरन्वनमिदं पुरा ॥ १२.१२७.१५ ॥
“我将在此见到那个儿子,就在此见到。”婆罗多啊。如此,被希望消磨的国王曾在这片森林中徘徊。
12.127.16
दुर्लभः स मया द्रष्टुं भूय एव च धार्मिक ।
एकः पुत्रो महारण्ये नष्ट इत्यसकृत्तदा ॥ १२.१२७.१६ ॥
“我再见到他已很难,有德之人啊。我唯一的儿子在大森林中失踪了。”他当时一再这样说。
12.127.17
न स शक्यो मया द्रष्टुमाशा च महती मम ।
तया परीतगात्रोऽहं मुमूर्षुर्नात्र संशयः ॥ १२.१२७.१७ ॥
“我无法见到他,而我的希望很大。我的身体被它包围,渴望死去;此事毫无疑问。”
12.127.18
एतच्छ्रुत्वा तु भगवांस्तनुर्मुनिवरोत्तमः ।
अवाक्शिरा ध्यानपरो मुहूर्तमिव तस्थिवान् ॥ १२.१२७.१८ ॥
闻此言,尊贵的坦努,众多贤者中最卓越者,低下头沉入禅定,片刻之间仿佛静立不动。
12.127.19
तमनुध्यान्तमालक्ष्य राजा परमदुर्मनाः ।
उवाच वाक्यं दीनात्मा मन्दमन्दमिवासकृत् ॥ १२.१२७.१९ ॥
国王见他沉浸于冥想之中,心中极为烦乱,意志低沉,缓缓地一再说出了这些话。
12.127.20
दुर्लभं किंनु देवर्षे आशायाश्चैव किं महत् ।
ब्रवीतु भगवानेतद्यदि गुह्यं न चेत्तदा ॥ १२.१२७.२० ॥
神圣的仙人啊,什么是难以得到的?什么比希望更大?如果这不是秘密,请尊者告诉我们。
12.127.21
महर्षिर्भगवांस्तेन पूर्वमासीद्विमानितः ।
बालिशां बुद्धिमास्थाय मन्दभाग्यतयाऽऽत्मनः।
अर्थयन्कुशलं राजन्काञ्चनं वल्कलानि च ॥ १२.१२७.२१ ॥
从前,他曾轻慢那位尊贵的大仙人。国王啊,因他自己的厄运,他以愚蠢的心智,求取福祉、黄金和树皮衣。
12.127.22
अवज्ञापूर्वकेनापि न संपादितवांस्ततः ।
निर्विण्णः स तु विप्रर्षिर्निराशः समपद्यत ॥ १२.१२७.२२ ॥
他虽以轻慢之心去做,却未能完成。于是那位婆罗门中的仙人心生厌倦,陷入绝望。
12.127.23
एवमुक्तोऽभिवाद्याथ तमृषिं लोकपूजितम् ।
श्रान्तोऽवसीदद्धर्मात्मा यथा त्वं नरसत्तम ॥ १२.१२७.२३ ॥
他听了这些话,向那位受世间尊崇的仙人行礼,然后因疲惫而心神低落,这位心地正直之人,人中之杰啊,就像你现在这样。
12.127.24
अर्ध्यं ततः समानीय पाद्यं चैव महायशाः ।
आरण्येनैव विधिना राज्ञे सर्वं न्यवेदयत् ॥ १२.१२७.२४ ॥
随后,这位大名望者取来敬奉之物与洗足之水,依照林中仪轨,将一切禀告国王。
12.127.25
ततस्तमृषयः सर्वे परिवार्य नरर्षभम् ।
उपाविशन्पुरस्कृत्य सप्तर्षय इव ध्रुवम् ॥ १२.१२७.२५ ॥
于是众仙人围绕这位人中雄牛,将他安置在前,坐下,如同七仙环绕北极星德鲁瓦。
12.127.26
अपृच्छंश्चैव तत्रैनं राजानमपराजितम् ।
प्रयोजनमिदं सर्वमाश्रमस्य प्रवेशने ॥ १२.१२७.२६ ॥
他们在那里询问这位无敌的国王,他进入隐修处的全部目的是什么。