Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.131

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.131.1

क्षीणस्य दीर्घसूत्रस्य सानुक्रोशस्य बन्धुषु ।
परिशङ्कितमुख्यस्य दुष्टमन्त्रस्य भारत ॥ १२.१३१.१ ॥

婆罗多啊,对于衰弱、拖延政事、怜悯亲族、重臣受猜疑且谋略不善之人——

12.131.2

विरक्तराज्यपौरस्य निर्द्रव्यनिचयस्य च ।
असंभावितमित्रस्य भिन्नामात्यस्य सर्वतः ॥ १२.१३१.२ ॥

国土与臣民都已离心、财库空虚、朋友不可信赖、大臣四分五裂之人——

12.131.3

परचक्राभियातस्य दुर्बलस्य बलीयसा ।
आपन्नचेतसो ब्रूहि किं कार्यमवशिष्यते ॥ १२.१३१.३ ॥

请告诉我:被敌军攻击、被强者削弱、心陷于困厄之人,还有什么可做的。

12.131.4

बाह्यश्चेद्विजिगीषुः स्याद्धर्मार्थकुशलः शुचिः ।
जवेन सन्धिं कुर्वीत पूर्वं पूर्वं विमोक्षयेत् ॥ १२.१३१.४ ॥

若外来的求胜者精通法与利、且行为清净,则应迅速议和,并先释放先前被扣押之人。

12.131.5

योऽधर्मविजिगीषुः स्याद्बलवान्पापनिश्चयः ।
आत्मनः सन्निरोधेन सन्धिं तेनापि रोचयेत् ॥ १२.१३१.५ ॥

即便对方以不义求胜、强大且决意作恶,也应克制自己,倾向于议和。

12.131.6

अपास्य राजधानीं वा तरेदन्येन वाऽऽपदम् ।
तद्भावभावो द्रव्याणि जीवन्पुनरुपार्जयेत् ॥ १२.१३१.६ ॥

或舍弃王都,或以他法渡过危难;在那种境况中存活下来,便可再次聚集财富。

12.131.7

यास्तु कोशबलत्यागाच्छक्यास्तरितुमापदः ।
कस्तत्राधिकमात्मानं संत्यजेदर्थधर्मवित् ॥ १२.१३१.७ ॥

凡可以舍弃库藏与军队而度过的灾难,懂得财利与法者,谁会比这更多地舍弃自身呢?

12.131.8

अपराधाज्जुगुप्सेत का सपत्नधने दया ।
न त्वेवात्मा प्रदातव्यः शक्ये सति कथंचन ॥ १२.१३१.८ ॥

因过失而应厌恶之;对敌人的财富何须怜悯?但在可能时,绝不可以任何方式献出自身。

12.131.9

आभ्यन्तरे च कुपिते बाह्ये चोपनिपीडिते ।
क्षीणे कोशे श्रुते मन्त्रे किं कार्यमवशिष्यते ॥ १२.१३१.९ ॥

内有愤怒,外受逼迫,府库已竭,谋略已泄,那还有什么可做的呢?

12.131.10

क्षिप्रं वा सन्धिकामः स्यात्क्षिप्रं वा तीक्ष्णविक्रम ।
यदाऽपनयनं क्षिप्रमेतद्वै सांपरायिकम् ॥ १२.१३१.१० ॥

应迅速求和,或者,猛勇者啊,迅速除去之;迅速除去,便是通往结局的道路。

12.131.11

अनुरक्तेन पुष्टेन हृष्टेन जगतीपतिः ।
अल्पेनापि स्वसैन्येन भूमिं जयति भूमिपः ॥ १२.१३१.११ ॥

即使自己的军队很少,但若忠诚、饱足、欢欣,地上之主便能征服大地。

12.131.12

हतो वा दिवमारोहेद्धत्वा च सुखमावहेत् ।
युद्धे हि संत्यजन्प्राणाञ्शक्रस्यैति सलोकताम् ॥ १२.१३१.१२ ॥

战死则升天,获胜则得安乐;因为在战斗中舍弃生命者,会到达因陀罗的世界。

12.131.13

सर्वलोकागसं कृत्वा मृदुत्वं गन्तुमेव च ।
विश्वासाद्विनयं कुर्यात्संजह्याद्वाऽप्युपानहौ ॥ १२.१३१.१३ ॥

即使得罪了所有的人,也应当采取温和的态度;凭借诚信应表现谦恭,或者甚至脱去两只鞋。

12.131.14

अपचिक्रमिषुः क्षिप्रं सेनां स्वां परिसान्त्वयन् ।
विलङ्घयित्वा सत्रेण ततः स्वयमुपक्रमेत् ॥ १२.१३१.१४ ॥

想要迅速撤退的人,应当好好安抚自己的军队,用计策越过障碍,然后自己再前进。