摩诃婆罗多 · 章 12.136
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.136.1
अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः ।
येन मार्गेण राजानः कोशं संजनयन्त्युत ॥ १२.१३६.१ ॥
此处古代的知者吟诵梵歌,即关于君王积聚府库之道的伽陀。
12.136.2
न धनं यज्ञशीलानां हार्यं देवस्वमेव च ।
दस्यूनां निष्क्रियाणां च क्षत्रियो हर्तुमर्हति ॥ १२.१३६.२ ॥
奉行祭祀者的财富与神明的财产不可夺取;刹帝利只可夺取强盗与懈怠者的财富。
12.136.3
इमाः प्रजाः क्षत्रियाणां रक्ष्या हन्याश्च भारत ।
थनं हि क्षत्रियस्येह द्वितीयस्य न विद्यते ॥ १२.१३६.३ ॥
婆罗多啊,这些臣民应由刹帝利保护,必要时加以惩罚;因为在此世间,刹帝利别无其他财富。
12.136.4
तदस्य स्याद्बलार्थं वा धनं यज्ञार्थमेव वा ।
अभोज्याश्चौषधीश्छित्त्वा भोज्या एव पचन्त्युत ॥ १२.१३६.४ ॥
那财富应用于他的力量或祭祀;正如割去不可食的草药,人们只烹煮可食之物。
12.136.5
यो वै न देवान्न पितृन्न मर्त्यान्हविषाऽर्चति ।
अनर्थकं धनं तत्र प्राहुर्धमेविदो जनाः ॥ १२.१३६.५ ॥
若有人不以供物敬奉诸神、祖先与众人,其财富便是无用的,知法者如是说。
12.136.6
हरेत्तद्द्रविणं राजन्धार्मिकः पृथिवीतिः ।
न हि न प्रीणयेल्लोकान्न लोके गर्हते नृपम् ॥ १२.१३६.६ ॥
君王啊,正法之地主可夺取那财富;不使世界欢悦的君王,并不会在世间受到非难。
12.136.7
असाधुभ्योऽर्थमादाय साधुभ्यो यः प्रयच्छति ।
आत्मानं संक्रमं कृत्वा मन्ये धर्मविदेव सः ॥ १२.१३६.७ ॥
取不善者之财而施予善者,以自身为转化之津梁,我认为他确是知法者。
12.136.8
तथातथा जयेल्लोकाञ्शक्त्या चैव यथायथा ।
औद्भिदा जन्तवो यद्वच्छ्रुत्वा वाजो यथातथा ॥ १२.१३६.८ ॥
人以何种方式、何种力量征服世界,地中生长的众生也如此,如谷物一般(结出果实)。
12.136.9
अनिमित्तात्संभवन्ति तथा यज्ञः प्रजायते ।
यथैव दंशमशकं यथा कीटपिपीलिकम् ॥ १२.१३६.९ ॥
众生无因而生,祭祀也如此产生。如蚊与虻,如虫与蚁(生起)。
12.136.10
सैव वृत्तिर्हि यज्ञेषु यथा धर्मो विधीयते ॥ १२.१३६.१० ॥
祭祀中的行止正是如此,如法之所规定。
12.136.11
यथा ह्यकस्माद्भवति भूमौ पांसुस्तृणोलपम् ।
तथैवेह भवेद्धर्मः सूक्ष्मः सूक्ष्मतरः स्मृतः ॥ १२.१३६.११ ॥
如尘土与草屑忽然聚于地上,此处之法亦被视为微妙,更为微妙。