Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.137

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.137.1

अनागतविधाता च प्रत्युत्पन्नमतिश्च यः ।
द्वावेतौ सुखमेधेते दीर्घसूत्री विनश्यति ॥ १२.१३७.१ ॥

预先为未来做准备者,和在当下机敏应变者,二者都能安乐兴盛;拖延迟疑者必将败亡。

12.137.2

अत्रैव चेदमव्यग्रं शृण्वाख्यानमनुत्तमम् ।
द्रीर्घसूत्रमुपाश्रित्य कार्याकार्यविनिश्चये ॥ १२.१३७.२ ॥

请在此安心聆听这无与伦比的故事,它讲的是拖延者,用以判断何者应为、何者不应为。

12.137.3

नातिगाधे जलस्थाने सुहृदः कुशलास्त्रयः ।
प्रभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः ॥ १२.१३७.३ ॥

贡蒂之子啊,在水不太深、鱼类繁多的水域中,三位聪明的朋友曾一起生活。

12.137.4

तत्रैकः प्राप्तकालज्ञो दीर्घदर्शी तथाऽपरः ।
दीर्घसूत्रश्च तत्रैकस्त्रयाणां जलचारिणाम् ॥ १२.१३७.४ ॥

这三位水中生物中,一位懂得把握时机,一位目光长远,一位则拖延迟疑。

12.137.5

क्रदाचित्तज्जलस्थानं मत्स्यबन्धाः समन्ततः ।
स्रावयामासुरथो निम्नेषु विविधैर्मुखैः ॥ १२.१३७.५ ॥

有一次,渔夫们从四面八方包围了那片水域,并在低洼处开凿多个口子把水放干。

12.137.6

क्षीयमाणं तद्बुद्ध्वा जलस्थानं भयागमे ।
अब्रवीद्दीर्घदर्शी तु तावुभौ सुहृदौ तदा ॥ १२.१३७.६ ॥

在危险来临时察觉水域正在干涸,那位目光长远者便对那两位朋友说道。

12.137.7

ज्ञयमापत्समुत्पन्ना सर्वेषां सलिलौकसाम् ।
शीघ्रमन्यत्र गच्छामः पन्था यावन्न शुष्यति ॥ १२.१३७.७ ॥

既知灾难降临于所有水中生灵,我们应趁道路尚未干涸,迅速前往别处。

12.137.8

अनागतमनर्थं हि सुनयैर्यः प्रबाधते ।
स न संशयमाप्नोति तथाऽन्यत्र व्रजामहे ॥ १२.१३७.८ ॥

凡以良策预先遏制未来之祸者,不陷于危险;我们也应前往别处。

12.137.9

शीर्घसूत्रस्तु यस्तत्र सोऽब्रवीत्सम्यगुष्यताम् ।
न तु कार्या त्वरा तावदिति मे निश्चिता मतिः ॥ १२.१३७.९ ॥

其中急于行事者说:“好,我们就留在这里。”但眼下不可急躁,这是我坚定的看法。

12.137.10

अथ संप्रतिपत्तिज्ञस्त्वब्रवीद्दीर्घदर्शिनम् ।
प्राप्ते काले न मे किंचिन्न्यायतः परिहास्यते ॥ १२.१३७.१० ॥

于是通晓正道者对远见者说:“时机到来时,我应得之事不会被遗弃。”

12.137.11

एवप्नुक्तो निराक्रामद्दीर्घदर्शी महामतिः ।
अगाम स्रोतसैकेन गम्भीरं सलिलाशयम् ॥ १२.१३७.११ ॥

听罢此言,这位大智而远见的人便离去;沿着一条溪流,他来到了深深的水池。

12.137.12

ततः प्रसृततोयं तं प्रसमीक्ष्य जलाशयम् ।
बबन्धुर्विविधैर्योगैर्मत्स्यान्मत्स्योपजीविनः ॥ १२.१३७.१२ ॥

随后,渔人看见那片水面扩展的池塘,便用各种方法把鱼捆住了。

12.137.13

विलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये ।
अगच्छद्ग्रहणं तत्र दीर्घसूत्रः सहापरै… ॥ १२.१३७.१३ ॥

当那池塘被搅动、水流出去时,名为长线(Dīrghasūtra)的那条鱼与其他鱼一同在那里被捕获。

12.137.14

उद्दानं क्रियमाणं तु मत्स्यानां … ।
प्रविश्यान्तरमन्येषामग्रसत्प्रति… ॥ १२.१३७.१४ ॥

当人们准备网来捞出鱼时,它混入其他鱼中,吞下了……(原文此处残缺)。

12.137.15

ग्रस्तमेव तदुद्दानं गृहीत्वा…सः ।
सर्वानेव च तांस्तत्र ते वि… इति ॥ १२.१३७.१५ ॥

连那张网也吞下了……他……(原文缺失)。他们全部都在那里……如此。

12.137.16

ततः प्रक्षाल्यमानेषु मत्स्येषु विपुले जले ।
त्वक्त्वा रज्जुं प्रमुक्तोसौ शीघ्रं संप्रतिपत्तिमान् ॥ १२.१३७.१६ ॥

随后,当鱼在广阔的水中被冲洗时,他放弃绳索,挣脱而出,迅速做出决断。

12.137.17

दीर्घसूत्रस्तु मन्दात्मा हीनेयुद्धिरचेतनः ।
मरणं प्राप्तवान्मूढो यथैवोपहतेन्द्रियः ॥ १२.१३७.१७ ॥

然而长线(Dīrghasūtra)愚钝迟缓、缺乏智慧、昏然无觉;这个愚痴者死去,仿佛他的感官已被毁坏。

12.137.18

एवं प्राप्ततमं कालं यो मोहान्नावबुध्यते ।
स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः ॥ १२.१३७.१८ ॥

凡因迷惑而不觉察已到来之时机者,迅速毁灭,犹如长线鱼。

12.137.19

आदौ न कुरुते श्रेयः कुशलोऽस्मीति यः पुमान् ।
स हि संशयमाप्नोति यथा संप्रतिपत्तिमान् ॥ १२.१३७.१९ ॥

自以为“我精明”而不在开始时行善之人,必然陷入疑惑,如同已经做出决定的人一样。

12.137.20

अनागतविधाता च प्रत्युत्पन्नमतिश्च यः ।
द्वावेतौ सुखमेधेते दीर्घसूत्री विनश्यति ॥ १२.१३७.२० ॥

能为未来做准备者,以及在当下机敏者——这两种人都能享受幸福地兴旺;拖延者则走向毁灭。

12.137.21

काष्ठा कला मुहूर्ताश्च दिनरात्र्यः क्षणा लवाः ।
मासाः पक्षाः षडृतवः कालः संवत्सराणि च ॥ १२.१३७.२१ ॥

时(kāṣṭhā)、分(kalā)、牟呼栗多(muhūrta)、昼夜、刹那、罗婆(lava)、月、半月、六季、时间与年——这些都是时间。

12.137.22

पृथिवी देश इत्युक्तः स च कालो न दृश्यते ।
अभिप्रेतार्थसिद्ध्यर्थं दूरतो न्यायतस्तथा ॥ १२.१३७.२२ ॥

大地被称为“处所”(deśa),而那个“时”却看不见。为了成就所求之事,应当远远地并依正理考虑处所与时间。

12.137.23

एतौ धर्मार्थशास्त्रेषु मोक्षशास्त्रेषु चर्षिभिः ।
प्रधानाविति निर्दिष्टौ कामे चाभिमतौ नृणाम् ॥ १२.१३७.२३ ॥

诸仙人在法论、利论以及解脱论中都称这两者(处所与时间)为主要因素,它们在人的欲望中也被视为可取之物。

12.137.24

परीक्ष्यकारी युक्तश्च स सम्यगुपपादयेत् ।
देशकालावभिप्रेतौ तोभ्यां फलमवाप्नुयात् ॥ १२.१३७.२४ ॥

凡审慎行事而自律之人,应当妥善促成所欲的处所与时间;借助这两者,他便能获得成果。