摩诃婆罗多 · 章 12.146
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.146.1
ततः स लुब्धकः पश्यन्क्षुधयाऽपि परिप्लुतः ।
कपोतमग्निपतितं वाक्यं पुनरुवाच ह ॥ १२.१४६.१ ॥
此时猎人虽饥饿难忍,见鸽子落入火中,又说出了这些话。
12.146.2
किमीदृशं नृशंसेन मया कृतमबुद्धिना ।
भविष्यति हि मे नित्यं पातकं भुवि जीवतः।
स विनिन्दंस्तथाऽऽत्मानं पुनः पुनरुवाच ह ॥ १२.१४६.२ ॥
“我这残忍愚蠢之人,究竟做了什么?只要我活在世上,这罪孽便会永远伴随我。”他如此自责,一再地说。
12.146.3
धिङ्भामस्तु सुदुर्बुद्धिं सदा निकृतिनिश्चयम् ।
शुभं कर्म परित्यज्य सोऽहं शकुनिलुब्धकः ॥ १२.१४६.३ ॥
我真可耻!心术如此卑劣,总是存心欺诈!舍弃善行,我竟成了捕鸟的猎人。
12.146.4
नृशंसस्य ममाद्यायं प्रत्यादेशो न संशयः ।
दत्तः स्वमांसं दहता कपोतेन महात्मना ॥ १२.१४६.४ ॥
今日对我这残忍之人,这无疑便是责备。这责备是那位高尚的鸽子给我的,它在火中焚烧了自己的血肉。
12.146.5
सोहं त्यक्ष्ये प्रियान्प्राणान्पुत्रान्दारान्विसृज्य च ।
उपदिष्टो हि मे धर्मः कपोतेनात्र धर्मिणा ॥ १२.१४६.५ ॥
因此,我将舍弃我珍爱的生命、儿子和妻子。此处那位正义的鸽子教导了我法。
12.146.6
अद्यप्रभुति देहं स्वं सर्वभोगैर्विवर्जितम् ।
यथा स्वल्पं सरो ग्रीष्मे शोषयिष्याम्महं तथा ॥ १२.१४६.६ ॥
从今日起,我将使自己的身体远离一切享乐,并使它枯竭,正如小湖在夏季干涸一般。
12.146.7
क्षुत्पिपासातपसहः कृशो ध्रमनिसन्ततः ।
उपवासैर्बहुविधैश्चरिष्ये पारलौकिकम् ॥ १२.१४६.७ ॥
我忍受饥渴与炎热,身形消瘦,全身血脉凸显,将以种种斋戒修持来求取来世之果。
12.146.8
अहो देहप्रदानेन दर्शिताऽतिथिपूजना ।
तस्माद्धर्मं चरिष्यामि धर्मो हि परमा गतिः ॥ १२.१४६.८ ॥
啊!以舍身之举,显示了礼敬客人的典范。因此我将奉行法,因为法是至高的归宿。
12.146.9
दृष्टो धर्मो हि धर्मिष्ठे यादृशो विहगोत्तमे ।
एवमुक्त्वा विनिश्चित्य रौद्रकर्मा स लुब्धकः ॥ १२.१४६.९ ॥
在这至善至正的上等鸟身上所见的法,便是如此。说完这话并下定决心后,那位行事残忍的猎人——
12.146.10
महाप्रस्थानमाश्रित्य प्रययौ संशितव्रतः ॥ १२.१४६.१० ॥
他以大行为依归,持坚定誓愿者便启程了。
12.146.11
ततो यष्टिं शलाकां च धारकं पञ्जरं तथा ।
तां च बद्धां कपोतीं स प्रमुच्य विससर्ज ह ॥ १२.१४६.११ ॥
于是他抛下棍棒、竹条、支架以及笼子,解开被缚的雌鸽,将它放飞。