摩诃婆罗多 · 章 12.150
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.150.1
एवमुक्तः प्रत्युवाच तं मुनिं जनमेजयः ।
गर्ह्यं भवान्गर्हयते निन्द्यं निन्दति मां पुनः ॥ १२.१५०.१ ॥
被这样质问后,阇那梅阇耶回答那位仙人说:“您又责备了该受责备的人,又斥责了我这可受斥责的人。”
12.150.2
धिक्कार्यं मां धिक्कुरुते तस्मात्त्वाऽहं प्रसादये ।
सर्वं हीदं स्वकृतं मे ज्वलाम्यग्नाविवाहितम् ॥ १२.१५०.२ ॥
“您斥责那应当受斥责的人,因此我要使您平息。这一切都是我自己所作的;我如同在火中焚烧一般。”
12.150.3
स्वकर्माण्यभिसंधाय नाभिनन्दति मे मनः ।
प्राप्तं घोरं भयं नूनं मया वैवस्वतादपि ॥ १२.१५०.३ ॥
“我思量自己的所作,心中并不欢喜。的确,即使是来自毗婆娑之子阎摩,可怕的恐惧也已降临于我。”
12.150.4
तत्तु शल्यमनिर्हृत्य कथं शक्ष्यामि जीवितुम् ।
सर्वं मन्युं विनीय त्वमभि मां वद शौनक ॥ १२.१५०.४ ॥
“若不拔出那根刺,我怎能活下去?shaunaka 啊,请你消除所有悲伤,对我说吧。”
12.150.5
महानासं ब्राह्मणानां भूयो वक्ष्यामि सांप्रतम् ।
गन्ता गतिं ब्राह्मणानां भविष्याम्यर्थवान्पुनः।
अस्तु शेषं कुलस्यास्य मा पराभूदिदं कुलम् ॥ १२.१५०.५ ॥
“婆罗门曾有极大的愤怒;现在我将再次说。达到婆罗门之道的我,将再次变得幸运。愿这一家族留下些许余脉,愿这一家族不致灭绝。”
12.150.6
न हि नो ब्रह्मशप्तानां शेषं भवितुमर्हति ।
स्तुतीरलभमानानां संविदं वेद निश्चयात् ॥ १२.१५०.६ ॥
“我们遭婆罗门诅咒,不应当还有余脉存留。对于我们这些得不到赞颂的人,我确知这一点。”
12.150.7
निन्दमानः स्वमात्मानं भूयो वक्ष्यामि सांप्रतम् ।
भूयश्चैवाभिमज्जन्ति निर्धर्मा निर्जला इव ॥ १२.१५०.७ ॥
我自责之余,现在将再次说明:失去法者如同在干涸之地,再次沉没。
12.150.8
न ह्ययज्ञा अमुं लोकं प्राप्नुवन्ति कथंचन ।
अवाक्च प्रपतिष्यन्ति पुलिन्दशवरा इव ॥ १२.१५०.८ ॥
不行祭祀者绝不能到达那个世界;他们将如补利陀与舍跋罗一般向下坠落。
12.150.9
अविज्ञायैव मे प्रज्ञां बालस्येव स पण्डितः ।
ब्रह्मन्पितेव पुत्रस्य प्रीतिमान्भव शौनक ॥ १२.१५०.९ ॥
甚至不了解我的智慧,那位学者就像孩童。婆罗门啊,要充满慈爱,如父亲对儿子,舍那迦啊。
12.150.10
किमाश्चर्यं यतः प्राज्ञो बहुकुर्यादसांप्रतम् ।
इति वै पण्डितो भूत्वा भूतानां को नु तप्यते ॥ १२.१५०.१० ॥
有什么可惊奇的呢?智者也可能做许多不当之事。既然如此为学者,又有谁会为众生而悲伤呢?
12.150.11
प्रज्ञाप्रासादमारुह्य अशोच्यः शोचते जनान् ।
जगतीस्थानिवाद्रिस्थः प्रज्ञया प्रतिपत्स्यति ॥ १२.१५०.११ ॥
登上智慧的殿堂,本不应悲伤的人却为众人悲伤;他如站在山上一般,将以智慧理解那些站在大地上的人。
12.150.12
न चोपलभते कश्चिन्न चाश्चर्याणि पश्यति ।
निर्विण्णात्मा परोक्षो वा धिक्कृतः सर्वसाधुषु ॥ १२.१५०.१२ ॥
无人察觉他,他也不见奇迹;心意倦怠者、隐遁者,或为一切善人所斥责者。
12.150.13
विदित्वा भवतो वीर्यं माहात्म्यं चैव चागमे ।
कुरुष्वेह यथाशान्ति ब्रह्मा शरणमस्तु ते ॥ १२.१५०.१३ ॥
依照传统知晓你的勇力与威德,请在此做有利于平安之事;愿梵天成为你的庇护。
12.150.14
तद्वै वारित्रकं तात ब्राह्मणानामकुप्यताम् ।
अथवा तप्यसे पापे धर्मं चेदनुपश्यसि ॥ १२.१५०.१४ ॥
孩子,对于不愤怒的婆罗门,这确实是障碍;或者,罪人啊,若你看见法,你便会悔恨。
12.150.15
अनुतप्ये च पापेन न चाधर्मं चराम्यहम् ।
बुभूषेद्भजमानं च प्रीतिमान्भव शौनक ॥ १२.१५०.१५ ॥
我为罪过而悔恨,也不行不义;对侍奉你的人要心怀慈爱,憍那迦啊。
12.150.16
छित्त्वा दम्भं च मानं च प्रीतिमिच्छामि ते नृप ।
सर्वभूतहिते तिष्ठ धर्मं चैव प्रतिस्मरन् ॥ १२.१५०.१६ ॥
大王,断除虚伪与傲慢,我希望得到你的爱;常存于利益一切众生之中,并时时忆念法。
12.150.17
न भयान्न च कार्पण्यान्न लोभात्त्वामुपाह्वये ।
तां मे दैवीं गिरं सत्यां शृणु त्वं ब्राह्मणैः सह ॥ १२.१५०.१७ ॥
我呼唤你,不是出于恐惧,也不是出于怜悯或贪婪;请与婆罗门一同聆听我这神圣而真实的话语。
12.150.18
सोऽहं न केनचिच्चार्थी त्वां च धर्मादुपाह्वये ।
क्रोशतां सर्वभूतानां हाहाधिगिति जल्पताम् ॥ १२.१५०.१८ ॥
我呼唤你并非为了自己的任何目的,而是为了法;当一切众生哀叫说:「唉,可耻!」
12.150.19
वक्ष्यन्ति मामधर्मज्ञं त्यक्ष्यन्ति सुहृदो जनाः ।
ता वाचः सुहृदः श्रुत्वा संज्वरिष्यन्ति मे भृशं ॥ १२.१५०.१९ ॥
世人会说我不知法,朋友们会抛弃我。朋友们听到那些话,会为我深感忧痛。
12.150.20
केचिदेव महाप्राज्ञाः प्रतिज्ञास्यन्ति कार्यताम् ।
जानीहि मत्कृतं तात ब्राह्मणान्प्रति भारत ॥ १२.१५०.२० ॥
确实会有一些大智者承诺去完成此事。亲爱的婆罗多,请知道我为婆罗门所做之事。
12.150.21
यथा ते सत्कृताः क्षेमं लभेरंस्त्वं तथा कुरु ।
प्रतिजानीहि चाद्रोहं ब्राह्मणानां नराधिप ॥ १२.१५०.२१ ॥
你要这样做,使那些受你尊敬的人得到安乐。人主啊,请发誓不对婆罗门加以背叛。
12.150.22
नैव वाचा न मनसा पुनर्जातु न कर्मणा ।
द्रोग्धाऽस्मि ब्राह्मणान्विप्र चरणावेव ते स्पृशे ॥ १२.१५०.२२ ॥
无论言语、心念还是行为,我都绝不会背叛婆罗门。婆罗门啊,我触碰的正是您的双足。