摩诃婆罗多 · 章 12.155
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.155.1
एवमुक्त्वा तु राजेन्द्र शाल्मलिं ब्रह्मवित्तमः ।
नारदः पवने सर्वं शाल्मलेर्वाक्यमब्रवीत् ॥ १२.१५५.१ ॥
君王之主啊,如此说罢,知梵最胜的那罗陀对沙尔玛利树说话,并把沙尔玛利的话全部告诉了风。
12.155.2
हिमवत्पृष्ठजः कश्चिच्छाल्मलिः परिवारवान् ।
बृहन्मूलो बृहच्छायः स त्वां वायोऽवमन्यते ॥ १२.१५५.२ ॥
有一棵生长在喜马拉雅山坡上的沙尔玛利树,拥有众多随从、粗大的根和广阔的树荫,它轻视你,啊风。
12.155.3
बहुव्याक्षेपयुक्तानि त्वामाह वचनानि सः ।
न युक्तानि मया वायो तानि वक्तुं तवाग्रतः ॥ १२.१५५.३ ॥
它对你说了许多侮辱之言;啊风,我不适合在你面前重复那些话。
12.155.4
जानामि त्वामहं वायो सर्वप्राणभृतां वरम् ।
वरिष्ठं च गरिष्ठं च सर्वलोकेश्वरं प्रभुम् ॥ १२.१५५.४ ॥
啊风,我知道你是一切有生命者中最优秀的,最卓越、最尊贵的,是一切世界的主宰与君王。
12.155.5
एतत्तु वचनं श्रुत्वा नारदस्य समीरणः ।
शाल्मलिं तमुपागम्य क्रुद्धो वचनमब्रवीत् ॥ १२.१५५.५ ॥
风听了那罗陀的这些话,便走到那棵沙尔玛利树前,怒气冲冲地说道。
12.155.6
शाल्मले नारदो गच्छंस्त्वयोक्तो मद्विगर्हणम् ।
अहं वायुः प्रभावं ते दर्शयाम्यात्मनो बलम् ॥ १२.१५५.६ ॥
啊沙尔玛利树,那罗陀离去时,你曾斥责我;我是风,我将向你展示我的力量。
12.155.7
नाहं त्वां नाभिजानामि विदितश्चासि मे द्रुम ।
पितामहः प्रजासर्गे त्वयि विश्रान्तवान्प्रभुः ॥ १२.१५५.७ ॥
树啊,我不认识你,但你于我有所知。在造化众生之时,主祖父曾在你之中歇息。
12.155.8
तस्य विश्रमणादेव प्रसादौ मत्कृतस्तव ।
अभूत्तस्य प्रसादात्त्वां न भज्यामि द्रुमाधम ॥ १२.१५५.८ ॥
因他的歇息,我才对你施恩;因他的恩典,我不会折断你,卑劣的树啊。
12.155.9
यन्मां त्वमवजानीषे यथाऽन्यं प्राकृतं तथा ।
दर्शयाम्येष चात्मानं यथा मां नावमन्यसे ॥ १२.१५५.९ ॥
你轻视我,视我如寻常之物,因此我要向你显示我自己的形相,使你不再轻慢我。
12.155.10
एवमुक्तस्ततः प्राह शाल्मलिः प्रहसन्निव ।
पवन त्वं वने क्रुद्धो दर्शयात्मानमात्मना ॥ १२.१५५.१० ॥
如此被说之后,舍尔摩利仿佛笑着说道:“风啊,你在林中发怒了;就以你自己的本相显现吧。”
12.155.11
मयि वै मुच्यतां क्रोधः किं मे क्रुद्धः करिष्यसि ।
न ते बिभेमि पवन यद्यपि त्वं स्वयं प्रभुः।
बलाधिकोऽहं त्वत्तश्च न भीः कार्या मया तव ॥ १२.१५५.११ ॥
请把你的怒气发在我身上吧;你动怒又能奈我何?风啊,即使你自己是主宰,我也不怕你;我比你更强,你不必畏惧我。
12.155.12
ये तु बुद्ध्या हि बलिनस्ते भवन्ति बलीयसः ।
प्राणमात्रबला ये वै नैव ते बलिनो मताः ॥ १२.१५५.१२ ॥
凭智慧而强者,才真正更为强大;唯有气息之力者,并不被视为真正的强者。
12.155.13
इत्येवमुक्तः पवनः श्व इत्येवाब्रवीद्वचः ।
दर्शयिष्यामि ते तेजस्ततो रात्रिरुपागमत् ॥ १२.१५५.१३ ॥
风神听后说道:“明天我将向你展示我的威力。”于是夜幕降临。
12.155.14
अथ निश्चित्य मनसा शाल्मलिर्वैरधारणम् ।
पश्यमानस्तदात्मानमसमं मातरिश्वना ॥ १२.१५५.१४ ॥
于是,木棉树在心中决定怀着敌意,看到自己与风相比并不相称。
12.155.15
नारदे यन्मया प्रोक्तं वचनं प्रति तन्मृषा ।
असमर्थो ह्यहं वायोर्बलेन बलवान्हि सः ॥ १२.१५५.१५ ॥
我对那罗陀所说的话是虚假的;我无法与风的力量相抗,因为他确实更强大。
12.155.16
मारुतो बल्यान्नित्यं यथा वै नारदोऽब्रवीत् ।
अहं तु दुर्बलोऽन्येभ्यो वृक्षेभ्यो नात्र संशयः ॥ १२.१५५.१६ ॥
正如那罗陀所说,风总是更强;而我比其他树木都弱,这一点毫无疑问。
12.155.17
किं तु बुद्ध्या समो नास्ति मम कश्चिद्वनस्पतिः ।
तदहं बुद्धिमास्थाय भयं त्यक्ष्ये समीरणात् ॥ १२.१५५.१७ ॥
但在智慧上,没有树能与我相比;因此,我将依靠智慧,摆脱来自风的恐惧。
12.155.18
यदि तां बुद्धिमास्थाय तिष्ठेयुः पर्णिनो वने ।
अरिष्टाः स्युः सदा क्रुद्धात्पवनान्नात्र संशयः ॥ १२.१५५.१८ ॥
如果森林中的有叶之树依靠这种智慧而立,它们就会始终不受愤怒之风的伤害;这一点毫无疑问。
12.155.19
ते तु बाला न जानन्ति यथा नैतान्समीरणः ।
समीरयेत संक्रुद्धो यथा जानाम्यहं तथा ॥ १२.१५५.१९ ॥
愚人不知愤怒的风如何摇动它们,而我知道。
12.155.20
ततो निश्चित्य मनसा शाल्मलिः क्षुभितस्तदा ।
शाखाः स्कन्धान्प्रशाखाश्च स्वयमेव व्यशातयत् ॥ १२.१५५.२० ॥
于是,它心中已定,那受惊的木棉树便自行折断了自己的枝干和细枝。
12.155.21
स परित्यज्य शाखाश्च पत्राणि कुसुमानि च ।
प्रभाते वायुमायान्तं प्रेक्षते स्म वनस्पतिः ॥ १२.१५५.२१ ॥
这棵树舍弃了枝干、树叶和花朵,望着黎明时到来的风。
12.155.22
ततः क्रुद्धः श्वसन्वायुः पातयन्वै महाद्रुमान् ।
आजगामाथ तं देशमास्ते यत्र स शाल्मलिः ॥ १२.१५५.२२ ॥
于是,愤怒地喘息着、吹倒大树的风,来到了那棵木棉树所在的地方。
12.155.23
तं हीनपर्णं पतिताग्रशाखं ।
निशीर्णपुष्पं प्रसमीक्ष्य वायुः।
उवाच वाक्यं स्ययमान एवं ।
मुदायुतः शाल्मलिं रुग्णशाखम् ॥ १२.१५५.२३ ॥
风看见那棵没有叶子、梢枝已落、花朵凋零的木棉树,便笑着、欢喜地对这棵枝条折断的木棉树说了这些话。
12.155.24
अहमप्येवमेव त्वां कुर्यां वै शाल्मले रुषा ।
आत्मना यत्कृतं कृच्छ्रं शाखानामपकर्षणम् ॥ १२.१५५.२४ ॥
啊,木棉树,我在愤怒中也会对你做同样的事——你自己折断枝干所招致的苦难。
12.155.25
हीनपुष्पाग्रशाखस्त्वं शीर्णाङ्कुरपलाशकः ।
आत्मदुर्मन्त्रितेनेह मद्वीर्यवशगः कृतः ॥ १२.१५५.२५ ॥
你失去了花朵和枝梢,嫩芽与叶子已被折断;因你自己的恶谋,你在此臣服于我的威力之下。
12.155.26
एतच्छ्रुत्वा वचो वायोः शाल्मलिर्व्रीडितस्तदा ।
अतप्यत वचः स्मृत्वा नारदो यत्तदाऽब्रवीत् ॥ १२.१५५.२६ ॥
闻听风神这番话,沙尔玛利当时感到羞愧;回想起那时那罗陀所说的话,他悔恨不已。
12.155.27
एवं हि राजशार्दूल दुर्बलः सन्वलीयसा ।
वैरमासञ्जते बालस्तप्यते शाल्मलिर्यथा ॥ १२.१५५.२७ ॥
如此,王中猛虎啊,弱者若与强者结仇,如愚人一般,便会像沙尔玛利那样受苦。
12.155.28
तस्माद्वैरं न कुर्वीत दुर्बलो बलवत्तरैः ।
शोचेद्धि वैरं कुर्वाणो यथा वै शाल्मलिस्तथा ॥ १२.१५५.२८ ॥
因此,弱者不应与强者结仇;结仇的人会像沙尔玛利一样悲伤。
12.155.29
न हि वैरं महात्मानो विवृण्वन्त्यपकारिषु ।
शनैः शनैर्महाराज दर्शयन्ति स्म ते बलम् ॥ १२.१५५.२९ ॥
大德之人不会向伤害他们的人公开显露仇恨;大王啊,他们会逐渐显示自己的力量。
12.155.30
वैरं न कुर्वीत नरो दुर्बुद्धिर्बुद्धिजीविना ।
बुद्धिर्वुद्धिमतो याति तूलष्विव हुताशनः ॥ १२.१५५.३० ॥
心术不正的人不应与凭智慧生活的人结仇;如同火焰扑向棉絮,智慧也会归于有智之人。
12.155.31
न हि बुद्ध्या समं किंचिद्विद्यते पुरुषे नृप ।
तथा बलेन राजेन्द्र न समोऽस्तीह कश्चन ॥ १२.१५५.३१ ॥
哦,国王啊,人身上没有任何东西能与智慧相比。哦,诸王之主啊,这里没有谁在力量上与之相当。
12.155.32
तस्मात्क्षमेत बालाय जडान्धवधिराय च ।
बलाधिकाय राजेन्द्र तद्दृष्टं त्वयि शत्रुहन् ॥ १२.१५५.३२ ॥
因此,应当宽恕愚笨者、迟钝者、盲人、聋人,以及力量更强者。哦,诸王之主啊,这在你身上可以看到,哦,敌人的杀灭者。
12.155.33
अक्षौहिण्यो दशैका च सप्त चैव महाद्युते ।
बलेन न समा राजन्नर्जुनस्य महात्मनः ॥ १२.१५५.३३ ॥
哦,大光辉者啊,十一个和七个阿刹婆希尼大军,哦,国王啊,都不能与高尚的阿周那的力量相比。
12.155.34
निहताश्चैव भग्नाश्च पाण्डवेन यशस्विना ।
चरता बलमास्थाय पाकशासनिना मृधे ॥ १२.१५५.३४ ॥
他们被著名的般度之子、因陀罗之子所杀,并被击溃。他在战场上依靠力量而往来奔驰。
12.155.35
उक्ताश्च ते राजधर्मा आपद्धर्माश्च भारत ।
विस्तरेण महाराज किं भूयः प्रव्रवीमि ते ॥ १२.१५५.३५ ॥
哦,婆罗多的后裔啊,国王的义务和危难中的义务已经为你详细讲述。哦,大王啊,我还能再对你说什么呢?