摩诃婆罗多 · 章 12.157
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.157.1
अनर्थानामधिष्ठानमुक्तो लोभः पितामह ।
अज्ञानमपि कौरव्य श्रोतुमिच्छामि तत्त्वतः ॥ १२.१५७.१ ॥
祖父啊,您说贪婪是一切灾祸的根源。俱卢后裔啊,我也想如实听闻无明之事。
12.157.2
करोति पापं योऽज्ञानान्नात्मनो वेत्ति च क्षमम् ।
द्विषते साधुवृत्तांश्च स लोकस्यैति वाच्यताम् ॥ १२.१५७.२ ॥
因无明而作恶、不知自己所宜、憎恶善行之人者,在世间便会遭受非议。
12.157.3
अज्ञानान्निरयं याति तथा ज्ञानेन दुर्गतिम् ।
अज्ञानात्क्लेशमाप्नोति तथाऽऽपत्सु निमज्जति ॥ १२.१५७.३ ॥
因无明而堕入地狱,同样因知识也会陷入恶道。因无明而遭受苦恼,并沉溺于灾难之中。
12.157.4
प्रजानामप्रवृत्तिं च ज्ञानवृद्धिक्षयोदयान् ।
मूलं स्थानं गतिं कालं कारणं हेतुमेव च ॥ १२.१५७.४ ॥
众生不作为之事,知识的增长、衰减与生起,以及它们的根源、所在、归趣、时节、因由与缘故。
12.157.5
श्रोतुमिच्छामि तत्त्वेन यथावदिह पार्थिव ।
अज्ञानप्रसवं हीदं यद्दुःखमुपलभ्यते ॥ १२.१५७.५ ॥
国王啊,我想如实地、依其本来面目听闻此事:所见的这份苦,实由无明而生。
12.157.6
रागो द्वेषस्तथा मोहो हर्षः शोकोऽभिमानिता ।
कामः क्रोधश्च दर्पश्च तन्द्री चालस्यमेव च ॥ १२.१५७.६ ॥
贪爱与嫌恶,以及愚痴、喜悦、忧愁、我慢、欲望、愤怒、骄傲、昏沉与懈怠。
12.157.7
इच्छा द्वेषस्तथा तापः परवृद्ध्युपतापिता ।
अज्ञानमेन्निर्दिष्टं पापानां चैव याः क्रियाः ॥ १२.१५७.७ ॥
渴望、憎恶、烦恼,以及因他人昌盛而生的痛苦——这被称为无知,那些罪恶的行为也由此而生。
12.157.8
एतस्य वा प्रवृत्तेश्च वृद्ध्यादीन्यांश्च पृच्छसि ।
विस्तरेण महाराज शृणु तच्च विशेषतः ॥ १२.१५७.८ ॥
大王,你问它的生起、增长等事,请详细而特别地听来。
12.157.9
उभावेतौ समफलौ समदोषौ च भारत ।
अज्ञानं चातिलोभश्चाप्येवं जानीहि पार्थिव ॥ १२.१५७.९ ॥
婆罗多之子啊,这两者有相同的果报,也有相同的过失:无知与过度的贪婪。国王啊,应当这样知道。
12.157.10
लोभप्रभवमज्ञानं वृद्धं भूयः प्रवर्धते ।
स्थाने स्थानं क्षयेत्क्षीणमुपैति विविधां गतिम् ॥ १२.१५७.१० ॥
由贪婪所生的无知,一旦增长,便越来越增长;原处的某种状态衰败、消减,便走向种种不同的归宿。
12.157.11
मूलं लोभस्य मोहो वै कालात्मगतिरेव च ।
छिन्ने भिन्ने तथा लोभे कारणं काल एव च ॥ १२.१५७.११ ॥
迷惑确实是贪婪的根源,而时间之自我的运行也是如此。贪婪即使被斩断或打破,其原因仍是时间。
12.157.12
तस्याज्ञानाद्धि लोभो हि कामात्मा गतिरेव च ।
सर्वे दोषास्तथा लोभात्तस्माल्लोभं विवर्जयेत् ॥ १२.१५७.१२ ॥
贪婪确实从它的无知而生,它的运行也以欲望为自性。一切过失都由贪婪而起,因此应当远离贪婪。
12.157.13
जनको युवनाश्वश्च पृषदश्वः प्रसेनजित् ।
लोभक्षयाद्दिवं प्राप्तास्तथैवान्ये नराधिपाः।
छिन्ने छिन्ने तथा लोभे दिवं प्राप्ता जनाधिपाः ॥ १२.१५७.१३ ॥
遮那迦、瑜伐那濕婆、普利沙达濕婆、普罗森那吉特,以及其他人主,因贪欲的消灭而升天。贪欲一一被斩断时,诸人主升天。
12.157.14
प्रत्यक्षं तु कुरुश्रेष्ठ त्यज लोभमिहात्मना ।
त्यक्त्वा लोभं सुखी लोके प्रेत्य चेह च मोदते ॥ १२.१५७.१४ ॥
显然,俱卢中最优者,你应自己在此舍弃贪欲。舍弃贪欲的人在世间快乐;死后以及此生,他都欢喜。