摩诃婆罗多 · 章 12.159
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.159.1
सर्वमेतत्तपोमूलं कवयः परिचक्षते ।
न ह्यतप्ततपा मूढः क्रियाफलमवाप्नुते ॥ १२.१५९.१ ॥
智者说,一切皆以苦行为根本。未曾苦行的愚人,不能获得行为的果报。
12.159.2
प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः ।
तथैव वेदानृषयस्तपसा प्रतिपेदिरे ॥ १२.१५९.२ ॥
主宰众生的世尊唯以苦行创造了这一切;同样,诸仙人也以苦行获得了吠陀。
12.159.4
तपसैव ससर्जान्नं फलमूलानि यानि च ।
त्रीँल्लोकांस्तपसा सिद्धाः पश्यन्ति सुसमाहिताः
औषधान्यगदादीनि तिस्त्रो विद्याश्च संस्कृताः ।
तपसैव हि सिद्ध्यन्ति तपोमूलं हि साधनम् ॥ १२.१५९.४ ॥
唯以苦行,他创造了食物、果实与根茎;成就者以极度专注,借苦行得见三界。药草、解毒之物等,以及三种修习过的学问,唯有借苦行方能成就,因为苦行是一切手段的根本。
12.159.5
यद्दुरापं दुराराध्यं दुराधर्षं दुरुत्सहम् ।
तत्सर्वं तपसा शक्यं तपो हि दुरतिक्रमम्।
ऐश्वर्यमृषयः प्राप्तास्तपसैव न संशयः ॥ १२.१५९.५ ॥
凡难以获得、难以取悦、难以抵挡、难以忍受之物,皆可借苦行成就,因为苦行难以超越。诸仙人唯以苦行获得主宰之权,此事无疑。
12.159.6
सुरापोऽसंमतादायी भ्रूणहा गुरुतल्पगः ।
तपसैव सुतप्तेन नरः पापात्प्रमुच्यते ॥ १२.१५९.६ ॥
饮酒者、取不予之物者、杀害胎儿者、染指师母者——即使如此之人,也唯有经过善行的苦行,方能脱离罪过。
12.159.7
तपसो बहुरूपस्य तैस्तैर्द्वारैः प्रवर्ततः ।
निवृत्त्या वर्तमानस्य तपो नानशनात्परम् ॥ १२.१५९.७ ॥
对于形式多样、循各种途径而行、安住于出离之人而言,苦行中没有比断食更高的了。
12.159.8
अहिंसा सत्यवचनं दानमिन्द्रियनिग्रहः ।
एतेभ्यो हि महाराज तपो नानशनात्परम् ॥ १२.१५९.८ ॥
不杀生、说真话、布施、克制诸根——大王啊,除此之外没有更高的苦行,也没有高过禁食的。
12.159.9
न दुष्करतरं दानान्नाति मातरमाश्रमः ।
त्रैविद्येभ्यः परं नास्ति संन्यासान्नापरं तपः ॥ १२.१५९.९ ॥
没有比布施更难的事,也没有像母亲般的修行次第;没有高过三明的,除了出家以外没有别的苦行。
12.159.10
इन्द्रियाणीह रक्षन्ति विप्रर्षिपितृदेवताः ।
तस्मादर्थे च धर्मे च तपो नानशनात्परम् ॥ १२.१५९.१० ॥
在此世间,正是诸根护持婆罗门、仙人、祖先与天神;因此,无论为利益还是为法,都没有比断食更高的苦行。
12.159.11
ऋषयः पितरो देवा मनुष्या मृगपक्षिणः ।
यानि चान्यानि भूतानि स्यावराणि चराणि च ॥ १२.१५९.११ ॥
诸仙、祖先、天神、人类、走兽与飞禽,以及其他一切众生,无论静止的还是移动的。
12.159.12
तपः परायणाः सर्वे सिध्यन्ति तपसा च ते ।
इत्येवं तपसा देवा महत्त्वं प्रतिपेदिरे ॥ १२.१५९.१२ ॥
凡专心于苦行者,皆借苦行而成就;诸天神也正是这样,凭苦行而获得了伟大。
12.159.13
इमानीष्टविभागानि फलानि तपसः सदा ।
तपसा शक्यते प्राप्नुं देवत्वमपि निश्चयः ॥ १२.१५९.१३ ॥
苦行之果,种种可欲的福报,永远存在;借苦行甚至可以获得天神的地位——这是确定的。