摩诃婆罗多 · 章 12.167
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.167.1
विस्तरेणार्थसंबन्धं श्रोतुमिच्छामि तत्त्वतः ।
मित्रद्रोही कृतघ्नश्च यः प्रोक्तस्तं च मे वद ॥ १२.१६७.१ ॥
我想详细而如实地听闻其中的义理关联。请也告诉我那被称为背弃朋友、忘恩负义之人的事。
12.167.2
हन्त ते वर्तयिष्येऽहमितिहासं पुरातनम् ।
उदीच्यां दिशि यद्वृत्तं म्लेच्छेषु मनुजाधिप ॥ १२.१६७.२ ॥
好吧,我将为你讲述一个古老的故事,即北方方向蛮夷之间所发生的事,人主啊。
12.167.3
ब्राह्मणो मध्यदेशीयः कृष्णाङ्गो ब्रह्मवर्जितः ।
ग्रामं दस्युगणाकीर्णं प्राविशद्धनतृष्णया ॥ १२.१६७.३ ॥
一位来自中原的婆罗门,肤色黝黑,不守婆罗门之行,因贪求财富而进入一个布满盗匪群的村庄。
12.167.4
तत्र दस्युर्धनयुतः सर्ववर्णविशेषवित् ।
ब्रह्मण्यः सत्यसन्धश्च दाने च निरतोऽभवत् ॥ १२.१६७.४ ॥
那里有一个盗贼,富有财物,通晓各种姓的分别,敬重婆罗门,在真实中坚定,并勤于布施。
12.167.5
तस्य क्षयमुपागम्य ततो भिक्षामयाचत ।
प्रतिश्रयं च वासार्थं भिक्षां चैवाथ वार्षिकीम् ॥ १२.१६७.५ ॥
待他的财富耗尽之后,他便去乞讨:求一处住所,也求雨季所需的施舍。
12.167.6
प्रादात्तस्मै स विप्राय वस्त्रं च सदशं नवम् ।
नारीं चापि वयोपेतां भर्त्रा विरहितां तथा ॥ १२.१६७.६ ॥
他给了那位婆罗门一件相称的新衣,又给了一位正值青春、丧失丈夫的女子。
12.167.7
एतत्संप्राप्य हृष्टात्मा गौतमोऽथ द्विजस्तथा ।
तस्मिन्गृहवरे राजंस्तया रेमे स गौतमः ॥ १२.१६७.७ ॥
高兴的乔达摩得到这些,那位婆罗门也一样,大王啊,他在那座上好的房屋中与她欢娱。
12.167.8
कुटुस्बार्थं च दस्योश्च साहाय्यं चाप्यथाकरोत् ।
सोऽवसद्वर्षमेकं वै समृद्धे शबरालये ॥ १२.१६७.८ ॥
他为了家人,也帮助了那盗贼;他在那繁荣的猎人住所居住了整整一年。
12.167.9
बाणवेधे परं यत्नमकरोच्चैव गौतमः ।
चक्राङ्गान्स च नित्यं वै सर्वतो वनगोचरान्।
जघान गौतमो राजन्यथा दस्युगणास्तथा ॥ १२.१६७.९ ॥
在射箭上乔达摩极为用心;乔达摩不断地向四面射杀林中游荡的遮克朗伽鸟,大王啊,正如盗贼之群所为。
12.167.10
हिंसापटुर्घृणाहीनः सदा प्राणिवधे रतः ।
गौतमः सन्निकर्षेण दस्युभिः समतामियात् ॥ १२.१६७.१० ॥
精于暴力,毫无怜悯,总是以杀害生灵为乐,乔达摩因亲近往来而与盗贼等同。
12.167.11
तथा तु वसतस्तस्य दस्युग्रामे सुखं तदा ।
अगमन्बहवो मासा निघ्नतः पक्षिणो बहून् ॥ १२.१६७.११ ॥
这样,当他在盗贼的村庄舒适地居住时,许多个月过去了,他杀了许多鸟。
12.167.12
ततः कदाचिदपरो द्विजस्तं देशमागतः ।
जटाचीराजिनधरः स्वाध्यायनिरतः शुचिः ॥ १२.१६७.१२ ॥
之后有一次,另一位再生族来到那个地方,头戴乱发,身着树皮衣,披着鹿皮,专心于诵读,清净。
12.167.13
विनीतो वेदशास्त्रेषु वेदान्तानां च पारगः ।
अदृश्यत ततस्तत्र सखा तस्यैव तु द्विजः।
तं दस्युग्राममगमद्यत्रासौ गौतमोऽभवत् ॥ १२.१६७.१३ ॥
他谦逊,精通吠陀与诸学,又是吠檀多的大师。此时,那位婆罗门——他的朋友——出现在那里,他曾前往那个强盗村,此人在那里成为了乔达摩。
12.167.14
स तु विप्रगृहान्वेपी शूद्रान्नपरिवर्जकः ।
ग्रामे दस्युसमाकीर्णे व्यचरत्सर्वतो द्विजः ॥ १२.१६७.१४ ॥
他寻访婆罗门的家,远离首陀罗的食物,在那满是强盗的村庄里四处游走。
12.167.15
ततः स गौतमगृहं प्रविवेश द्विजोत्तमः ।
गौतमश्चापि संप्राप्तस्तावन्योन्येन संगतौ ॥ १२.१६७.१५ ॥
于是那位最优秀的婆罗门进入了乔达摩的家。乔达摩也到了,两人彼此相遇。
12.167.16
चक्राङ्गभारस्कन्धं तं धनुष्पाणिं धृतायुधम् ।
रुधिरेणावसिक्ताङ्गं गृहद्वारमुपागतम् ॥ १२.१६७.१६ ॥
肩上负着车轮部件的重担,手持弓,携带兵器,身上沾满鲜血,他来到了家门口。
12.167.17
तं दृष्ट्वा पुरुषादाभमपध्वस्तं क्षमागतम् ।
अभिज्ञाय द्विजो व्रीडन्निदं वाक्यमथाब्रवीत् ॥ १२.१६७.१७ ॥
他看到这个形同食人者、堕落而来乞求宽恕的人,婆罗门认出了他,心怀羞愧,说出了这些话。
12.167.18
किमिदं कुरुपे मोहाद्विप्रस्त्वं हि कुलोद्भवः ।
मध्यदेशपरिज्ञातो दस्युभावं गतः कथम् ॥ १२.१६७.१८ ॥
唉,作恶之人!你因迷惑做了什么?你是出身高贵的婆罗门,在中土享有盛名;怎么竟沦落为强盗了?
12.167.19
पूर्वान्स्मर द्विज ज्ञातीन्प्रख्यातान्वेदपारगान् ।
येषां वंशेऽभिजातस्त्वमीदृशः कुलपांसनः ॥ १२.१६७.१९ ॥
啊,再生者,请想起你的祖先和那些著名的吠陀大师亲族。你生于这样的家族,如今却成了败坏门风的人。
12.167.20
अवबुध्यात्मनाऽऽत्मानं सत्वं शीलं श्रुतं दमम् ।
अनुक्रोशं च संस्मृत्य त्यज वासमिमं द्विज ॥ १२.१६७.२० ॥
你应以自己认识自己;想起你的善性、品行、学问、克制与慈悲,离开这个住处吧,再生者。
12.167.21
स एवमुक्तः सुहृदा तेन तत्र हितैपिणा ।
प्रत्युवाच ततो राजन्विनिश्वस्य तदाऽऽर्तबत् ॥ १२.१६७.२१ ॥
在那里,他的好友如此相劝,国王啊,他叹息一声,像一个痛苦的人那样回答。
12.167.22
निर्धनोऽस्मि द्विजश्रेष्ठ नापि वेदविदप्यहम् ।
वित्तार्थमिह संप्राप्तं विद्धि मां द्विजसत्तम ॥ १२.१६७.२२ ॥
啊,再生者中最优秀的人,我贫穷,也不通晓吠陀。啊,再生者中最杰出的人,请知道,我是为求财富而来到这里的。
12.167.23
त्वद्दर्शनात्तु विप्रेन्द्र कृतार्थोऽस्म्यद्य वै द्विज ।
अध्वानं सह यास्यावः श्वो वसस्वाद्य शर्वरीम् ॥ १२.१६७.२३ ॥
啊,婆罗门之主,见到你,我今天真正心愿已成,再生者啊。明天我们一同上路;今夜请在这里留宿。
12.167.24
स तत्र न्यवसद्विप्रो घृणी किंचिदसंस्पृशन् ।
क्षुधितश्छन्द्यमानोऽपि भोजनं नाभ्यनन्दत ॥ १२.१६७.२४ ॥
那位婆罗门住在那里,心怀慈悲又十分谨慎,什么都不触碰。虽然饥饿,虽然被劝促,他却没有接受食物。