Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.170

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.170.1

ततः स विदितो राज्ञः प्रविश्य गृहमुत्तमम् ।
पूजितो राक्षसेन्द्रेण निषसादासनोत्तमे ॥ १२.१७०.१ ॥

于是,他为国王所熟识,进入那座上好的宫殿,受到罗刹之主的礼遇,坐在上等的座位上。

12.170.2

पृष्टश्च गोत्रचरणं स्वाध्यायं ब्रह्मचारिकम् ।
न तत्र व्याजहारान्यद्गोत्रमात्रादृते द्विजः ॥ १२.१७०.२ ॥

当被问及他的种姓、吠陀支派、诵读吠陀和梵行生活时,这位再生者除了种姓之外,在那里什么也没说。

12.170.3

ब्रह्मवर्चसहीनस्य स्वाध्यायविरतस्य च ।
गोत्रमात्रविदो राजा निवासं समपृच्छत ॥ १२.१७०.३ ॥

国王询问那位缺乏梵之光辉、已停止诵读吠陀、只知其种姓的再生者的住处。

12.170.4

क्व ते निवासः कल्याण किङ्गोत्रा ब्राह्मणी च ते ।
तत्त्वं ब्रूहि न भीः कार्या विश्रमस्व यथासुखम् ॥ १२.१७०.४ ॥

善人,你住在哪里?你的婆罗门妻子出身哪个种姓?请如实告诉我,不必害怕。请安心休息吧。

12.170.5

मध्यदेशप्रसूतोऽहं वासो मे शबरालये ।
शूद्रा पुनर्भूर्भार्या मे सत्यमेतद्ब्रवीमि ते ॥ १२.१७०.५ ॥

我出生于中原,但我的住处在一个跋罗人的村落中。我的妻子是首陀罗女子,是再嫁之人。这是我对你说的真话。

12.170.6

ततो राजा विममृशे कथं कार्यमिदं भवेत् ।
कथं वा सुकृतं मे स्यादिति बुद्ध्यान्वचिन्तयत् ॥ १२.१७०.६ ॥

于是国王思忖:'此事该如何办?或如何才能成为我的功德?'他便以智慧进一步思量。

12.170.7

अयं वै जननाद्विप्रः सुहृत्तस्य महात्मनः ।
सम्प्रेषितश्च तेनायं काश्यपेन ममान्तिकम् ॥ १२.१७०.७ ॥

此婆罗门自出生起便是那位大德之人的朋友,而那位迦叶派他来到我这里。

12.170.8

तस्य प्रियं करिष्यामि स हि मामाश्रितः सदा ।
भ्राता मे बान्धवश्चासौ सखा च हृदयङ्गमः ॥ १२.१७०.८ ॥

我将做他喜爱的事,因为他始终依托于我。他是我的兄弟、亲属,也是我心中珍爱的朋友。

12.170.9

कार्त्तिक्यामद्य भोक्तारः सहस्रं मे द्विजोत्तमाः ।
तत्रायमपि भोक्ता वै देयमस्मै च मे धनम् ॥ १२.१७०.९ ॥

今日卡尔提迦月圆之日,我家将有一千位最优秀的再生者用餐。他也将在此用餐,并且应当把我的财物也给他。

12.170.10

ततः सहस्रं विप्राणां विदुषां समलङ्कृतम् ।
स्नातानामनुसम्प्राप्तमहतक्षौमवाससाम् ॥ १२.१७०.१० ॥

于是,一千位学识渊博的婆罗门依次到来,他们装饰整齐,沐浴过,穿着崭新的丝绸衣服。

12.170.11

तानागतान्द्विजश्रेष्ठान्विरूपाक्षो विशां पते ।
यथार्हं प्रतिजग्राह विधिदृष्टेन कर्मणा ॥ १२.१७०.११ ॥

人主啊,毗卢波刹依照规定的仪轨,恰当地接待了那些前来的最优秀的再生者。

12.170.12

बृस्यस्तेषां तु संन्यस्ता राक्षसेन्द्रस्य शासनात् ।
भूमौ वरकुथास्तीर्णाः प्रेष्यैर्भरतसत्तम ॥ १२.१७०.१२ ॥

依罗刹王之命,为他们设置了座位;婆罗多中最优秀的人啊,仆人们在地上铺上了上好的毯子。

12.170.13

तासु ते पूजिता राज्ञा निषण्णा द्विजसत्तमाः ।
व्यराजन्त महाराज नक्षत्रपतयो यथा ॥ १२.१७०.१३ ॥

大王啊,受国王尊敬的诸位再生族中的俊杰坐于其上,光辉如诸星宿之主。

12.170.14

ततो जाम्बूनदाः पात्रीर्वज्राङ्का विमलाः शुभाः ।
वरान्नपूर्णा विप्रेभ्यः प्रादान्मधुघृताप्लुताः ॥ १२.१७०.१४ ॥

随后,他将饰有金刚标记、洁净而吉祥的金器赠予婆罗门,器中盛满上好的食物,并浸以蜂蜜与酥油。

12.170.15

तस्य नित्यं तथाषाढ्यां माघ्यां च बहवो द्विजाः ।
ईप्सितं भोजनवरं लभन्ते सत्कृतं सदा ॥ १२.१७०.१५ ॥

每日,以及在阿沙陀与摩伽月的日子里,众多婆罗门都会受到尊敬,获得他们所希望的上好餐食。

12.170.16

विशेषतस्तु कार्त्तिक्यां द्विजेभ्यः सम्प्रयच्छति ।
शरद्व्यपाये रत्नानि पौर्णमास्यामिति श्रुतिः ॥ १२.१७०.१६ ॥

尤其在迦尔底迦月,他赠予婆罗门布施;秋末的满月之日,他赠送宝石,此乃传说所闻。

12.170.17

सुवर्णं रजतं चैव मणीनथ च मौक्तिकम् ।
वज्रान्महाधनांश्चैव वैडूर्याजिनराङ्कवान् ॥ १२.१७०.१७ ॥

金与银,宝石与珍珠,价值巨大的金刚石,青金石,以及鹿皮和榮柯鹿皮。

12.170.18

रत्नराशीन्विनिक्षिप्य दक्षिणार्थे स भारत ।
ततः प्राह द्विजश्रेष्ठान्विरूपाक्षो महायशाः ॥ १२.१७०.१८ ॥

婆罗多之裔啊,他将堆积如山的宝石作为布施陈列之后,大名的毗卢叉便对诸位再生族中的俊杰说道。

12.170.19

गृह्णीत रत्नान्येतानि यथोत्साहं यथेष्टतः ।
येषु येषु च भाण्डेषु भुक्तं वो द्विजसत्तमाः ॥ १२.१७०.१९ ॥

按照你们的热情和意愿取这些宝物吧,还有你们用餐过的器皿,诸位再生者中的最优秀者。

12.170.20

इत्युक्तवचने तस्मिन्राक्षसेन्द्रे महात्मनि ।
यथेष्टं तानि रत्नानि जगृहुर्ब्राह्मणर्षभाः ॥ १२.१७०.२० ॥

当那位伟大的罗刹王说完这些话,婆罗门中的雄牛们便依自己的意愿取走了那些宝物。

12.170.21

ततो महार्हैस्ते सर्वे रत्नैरभ्यर्चिताः शुभैः ।
ब्राह्मणा मृष्टवसनाः सुप्रीताः स्म तदाभवन् ॥ १२.१७०.२१ ॥

于是,所有婆罗门都以贵重吉祥的宝物受到礼敬,穿上洁净的衣服,当时都非常欢喜。

12.170.22

ततस्तान्राक्षसेन्द्रश्च द्विजानाह पुनर्वचः ।
नानादिगागतान्राजन्राक्षसान्प्रतिषिध्य वै ॥ १२.१७०.२२ ॥

于是罗刹王又对那些再生者说了这些话,国王啊,他已阻止了从各方而来的罗刹。

12.170.23

अध्यैकदिवसं विप्रा न वोऽस्तीह भयं क्वचित् ।
राक्षसेभ्यः प्रमोदध्वमिष्टतो यात माचिरम् ॥ १२.१७०.२३ ॥

诸位婆罗门,今天一日,你们在此不必害怕罗刹。尽情欢乐,随意离去,不要久留。

12.170.24

ततः प्रदुद्रुवुः सर्वे विप्रसङ्घाः समन्ततः ।
गौतमोऽपि सुवर्णस्य भारमादाय सत्वरः ॥ १२.१७०.२४ ॥

于是所有婆罗门群体四散奔逃,乔达摩也背起一担黄金,急忙逃走了。

12.170.25

कृच्छ्रात्समुद्वहन्वीर न्यग्रोधं समुपागमत् ।
न्यषीदच्च परिश्रान्तः क्लान्तश्च क्षुधितश्च ह ॥ १२.१७०.२५ ॥

英雄啊,他艰难地扛着它,来到一棵榕树下,因疲惫不堪、精疲力竭又饥饿,便坐了下来。

12.170.26

ततस्तमभ्यगाद्राजन्राजधर्मा खगोत्तमः ।
स्वागतेनाभ्यनन्दच्च गौतमं मित्रवत्सलः ॥ १२.१७०.२६ ॥

国王啊,那时精通王法的鸟中之王来到他身边,像对待朋友一样亲切地以“欢迎”迎接了乔达摩。

12.170.27

तस्य पक्षाग्रविक्षेपैः क्लमं व्यपनयत्खगः ।
पूजां चाप्यकरोद्धीमान्भोजनं चाप्यकल्पयत् ॥ १२.१७०.२७ ॥

这只鸟用翅膀的尖端扇去了他的疲惫,那位智慧的鸟还向他致敬并为他准备了食物。

12.170.28

स भुक्तवान्सुविश्रान्तो गौतमोऽचिन्तयत्तदा ।
हाटकस्याभिरूपस्य भारोऽयं सुमहान्मया ॥ १२.१७०.२८ ॥

进食并充分休息后,乔达摩那时心想:“我所背负的这份美丽黄金的重担实在太大了。”

12.170.29

न चास्ति पथि भोक्तव्यं प्राणसन्धारणं मम ।
किं कृत्वा धारयेयं वै प्राणानित्यभ्यचिन्तयत् ॥ १२.१७०.२९ ॥

“路上没有任何可以让我吃的东西来维持生命。我该怎么做才能保住性命呢?”他开始这样思索。

12.170.30

ततः स पथि भोक्तव्यं प्रेक्षमाणो न किञ्चन ।
कृतघ्नः पुरुषव्याघ्र मनसेदमचिन्तयत् ॥ १२.१७०.३० ॥

于是,他在路上看不到可吃的东西,人中之虎啊,他变得忘恩负义,心中这样想道。

12.170.35

अयं बकपतिः पार्श्वे मांसराशिः स्थितो मम ।
इमं हत्वा गृहीत्वा च यास्येऽहं समभिद्रुतम् ॥ १२.१७०.३५ ॥

这里,鹤王,一堆肉,就躺在我身旁。杀死并抓住它之后,我将奔向那一个。