摩诃婆罗多 · 章 12.171
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.171.1
अथ तत्र महार्चिष्माननलो वातसारथिः ।
तस्याविदूरे रक्षार्थं खगेन्द्रेण कृतोऽभवत् ॥ १२.१७१.१ ॥
此时,在他不远处,以风为御者、火焰巨大的火神,已被鸟王安置在那里以作守护。
12.171.2
स चापि पार्श्वे सुष्वाप विश्वस्तो बकराट् तदा ।
कृतघ्नस्तु स दुष्टात्मा तं जिघांसुरजागरीत् ॥ १२.१७१.२ ॥
鹭鸶之王也信任地在他身旁睡去。然而那忘恩负义、心地邪恶的家伙却醒着,想要杀害他。
12.171.3
ततोऽलातेन दीप्तेन स सुप्तं निजघान तम् ।
निहत्य च मुदा युक्तः सोऽनुबन्धं न दृष्टवान् ॥ १२.१७१.३ ॥
于是他用燃烧的火把击杀了熟睡的他。杀死他后,他满心喜悦,却没有看到随之而来的后果。
12.171.4
स तं विपक्षरोमाणं कृत्वाऽग्नावपचत्तदा ।
तं गृहीत्वा सुवर्णं च ययौ द्रुततरं द्विजः ॥ १२.१७१.४ ॥
他拔去它的羽毛,在火上烹煮。然后他带着它和黄金,这位再生者飞快地离去了。
12.171.5
ततो दाक्षायणीपुत्रं नागतं तं तु भारत ।
विरूपाक्षश्चिन्तयन्वै हृदयेन विदूयता ॥ १२.१७१.५ ॥
于是,婆罗多啊,达刹耶尼之子未能归来,毗樓波叉思索着,心中忧伤。
12.171.6
ततोऽन्यस्मिन्गते चाह्नि विरूपाक्षोऽब्रवीत्सुतम् ।
न प्रेक्षे राजधर्माणमद्य पुत्र खगोत्तमम्। ॥ १२.१७१.६ ॥
又过了一天,毗樓波叉对儿子说:'孩子,今天我没有看见鸟中之最、守护王道之人。'
12.171.7
स पूर्वसन्ध्यां ब्रह्माणं वन्दितुं याति सर्वदा ।
मां चादृष्ट्वा कदाचित्स न गच्छति गृहं खगः ॥ १२.१७१.७ ॥
他总是在晨曦时分去礼拜梵天;但若未见到我,那只鸟从不回家。
12.171.8
द्विरात्रमुभयोः सन्ध्योर्नाभ्यगच्छन्ममालयम् ।
तस्मान्न शुद्ध्यते भावो मम स ज्ञायतां सुहृत् ॥ १२.१७१.८ ॥
两夜以来,两个黄昏他都没有来到我的住所;因此我的心不得清净。请去打听他的消息,他是我的朋友。
12.171.9
स्वाध्यायेन वियुक्तो हि ब्रह्मवर्चसवर्जितः ।
स गतस्तत्र मे शङ्का हन्यात्तं स द्विजाधमः ॥ १२.१७१.९ ॥
他已远离吠陀学习,缺乏婆罗门的光辉。他去了那里,因此我心生疑虑;愿那个最卑劣的再生者杀了他。
12.171.10
दुराचारः स दुर्बुद्धिरिङ्गितैर्लक्षितो मया ।
निष्कृपो दारुणाकारो दुष्टो दस्युरिवाधमः।
गौतमः स गतस्तत्र तेनोद्विग्नं मनो मम ॥ १२.१७१.१० ॥
他品行恶劣,心术邪恶;我从他的举止中察觉了。那个无情、面目凶狠、如盗贼般卑劣邪恶的乔达摩去了那里,我的心因此不安。
12.171.11
पुत्र शीघ्रमितो गत्वा राजधर्मनिवेशनम् ।
ज्ञायतां स विशुद्धात्मा यदि जीवति वा चिरम् ॥ १२.१७१.११ ॥
孩子,请从此快速前往王法的居所,打听那位心地纯净的人是否还活着,或者早已死去。
12.171.12
स एवमुक्तस्त्वरितो रक्षोभिः सहितो ययौ ।
न्यग्रोधे राजधर्माणमपश्यन्निहतं ततः ॥ १२.१७१.१२ ॥
如此吩咐之后,他便与罗刹们急忙前往;随后在榕树下,他看见王法的持守者已被杀死。
12.171.13
रुदित्वा बहुशस्तस्मै विलप्य च स राक्षसः ।
गतो रोषसमाविष्टो गौतमग्रहणाय वै ॥ १२.१७१.१३ ॥
那罗刹为他多次哭泣哀悼之后,怒火填胸,前去捉拿憍答摩。
12.171.14
गृहीतो गौतमः पापो रक्षोभिः क्रोधमूर्च्छितैः ।
राजधर्मशरीरस्य कङ्कालश्चाप्यथो धृतः ॥ १२.१७१.१४ ॥
罪人憍答摩被愤怒昏厥的罗刹们抓住,王法之身的骸骨也被留置在那里。
12.171.15
मनुव्रजं तु नगरं यातुधानास्ततो गताः ।
क्रोधरक्तेक्षणा घोरा गौतमस्य वधे धृताः ॥ १२.१७१.१५ ॥
于是,那些眼睛因愤怒而通红、面目可怖的夜叉们前往摩奴婆罗城,决意杀死憍答摩。
12.171.16
पार्थिवस्वाग्रतो न्यस्तः कङ्कालो राजधर्मणः ।
तं दृष्ट्वा विमना राजा सामात्यः सगणोऽभवत् ॥ १२.१७१.१६ ॥
王法之身的骸骨被置于国王面前;国王见之心中沮丧,与大臣及随从一同悲伤。
12.171.17
आर्तरावो महानासीद्गृहे तस्य महात्मनः ।
समुत्थितः स्रीसङ्घस्य निहते काश्यपात्मजे ॥ १२.१७१.१७ ॥
在那位大德之人的家中,响起了巨大的哀号;迦叶波之子被杀后,妇女们纷纷哭号起身。
12.171.18
राजा चैवाब्रवीत्पुत्रं पापोऽयं वध्यतामिति ॥ १२.१७१.१८ ॥
国王对儿子说:“此罪人应当处死。”
12.171.19
अस्य मांसं वयं सर्वे खादिष्यामः समागताः ।
पापकृत्पापकर्मा च पापात्मा पापमास्थितः।
हन्तव्य एव पापात्मा कृतघ्नो नात्र संशयः ॥ १२.१७१.१९ ॥
我们众人聚集于此,将食此人之肉。此罪人,作恶之徒,心怀邪恶,安住于罪中,忘恩负义,必定应当被杀,这毫无疑问。
12.171.20
कृतघ्नं पापकर्माणां न भक्षयितुमुत्सहे ।
दासेभ्यो दीयतामेप मित्रध्रुक्पुरुपाधमः ॥ १२.१७१.२० ॥
我不愿食此忘恩负义、作恶之徒。此背叛朋友的卑劣之人,应交给仆役。
12.171.21
दासाः सर्वे समाहूता यातुधानास्तथा परे ।
नेच्छन्ति स्म कृतघ्नं तं खादितुं पुरुषोत्तम ॥ १२.१७१.२१ ॥
所有被召来的仆役及其他夜叉罗刹,都不愿食用那忘恩负义之人,啊,人中最上者。
12.171.22
शिरोभिश्चागता भूमिं महाराज ततो बलात् ।
मानार्थं जातु निर्बन्धं किल्विषं दातुमर्हसि ॥ १२.१७१.२२ ॥
大王啊,于是他们低头伏地而来,以力恳求。你不应为求荣誉而执意犯下此罪。
12.171.23
यातुधाना नृपेणोक्ताः पापकर्मा विशस्यताम् ।
दह्यतां त्यज्यतां वाऽयं दर्शनादपनीयताम् ॥ १२.१७१.२३ ॥
国王对夜叉罗刹们说:“此作恶的罪人,或杀之,或焚之,或弃之,或使其离开视线。”
12.171.24
ततस्ते रुपिता दासाः शूलपट्टसपाणयः ।
खण्डशो विकृतं हत्वा क्रव्याद्भ्यो ह्यददुस्तदा ॥ १२.१७१.२४ ॥
于是那些愤怒的仆役手持长矛与利剑,将那残缺之人寸断杀死,并把他交给了食肉者。
12.171.25
क्रव्यादास्त्वपि राजेन्द्र नेच्छन्ति पिशिताशनाः ।
मृतानपि हि क्रव्यादाः कृतघ्नान्नोपभुञ्जते ॥ १२.१७१.२५ ॥
王中之王啊,即使食肉之物也不渴望肉。食肉者甚至不吃死去的忘恩负义之人。
12.171.26
ब्रह्मस्वहरणे चोरे ब्रह्मघ्ने गुरुतल्पगे ।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ १२.१७१.२६ ॥
对于窃取婆罗门财物的盗贼、杀害婆罗门者以及玷污师尊床榻的人,善人规定了赎罪之法;但对于忘恩负义者,则没有赎罪之法。
12.171.27
मित्रद्रुहं कृतघ्नं च नृशंसं च नराधमम् ।
क्रव्यादाः किमयश्चैव नोपभुञ्जन्ति वै सदा ॥ १२.१७१.२७ ॥
背叛朋友者、忘恩负义者、残暴者以及卑劣之人,食肉之物与铁器(兵器)都从不吞食他们。