Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.175

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.175.1

धनिनश्चाधना ये च वर्तयन्ति स्वतन्त्रिणः ।
सुखदुःखागमस्तेषां कः कथं वा पितामह ॥ १२.१७५.१ ॥

富人、穷人,以及自主生活的人,他们的苦乐是如何、因何而来的呢?祖父啊。

12.175.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
शम्याकेन विमुक्तेन गीतं शान्तिगतेन च ॥ १२.१७५.२ ॥

关于此事,人们也引用这段古老的传说,那是已解脱并得享寂静的沙米耶迦所唱。

12.175.3

अब्रवीन्मां पुरा कश्चिद्ब्राह्मणस्त्यागमाश्रितः ।
क्लिश्यमानः कुदारेण कुचेलेन बुभुक्षया ॥ १२.१७५.३ ॥

从前,一位依靠弃世的婆罗门对我说话,他衣衫褴褛,饱受饥饿的煎熬。

12.175.4

उत्पन्नमिह लोके वै जन्मप्रभृति मानवम् ।
विविधान्युपवर्तन्ते दुःखानि च सुखानि च ॥ १२.१७५.४ ॥

生于此世的人,从出生起便会遭遇种种苦与乐。

12.175.5

तयोरेकतरो मार्गो यदेनमुपसन्नयेत् ।
न सुखं प्राप्य संहृष्येन्नासुखं प्राप्य संज्वरेत् ॥ १२.१७५.५ ॥

两条路中,无论哪一条引他前行,得乐时不应欢喜,得苦时不应忧伤。

12.175.6

न वै चरसि यच्छ्रेय आत्मनो वा न रंस्यसे ।
अकामात्माऽपि हि सदा धुरमुद्यम्य चैव ह ॥ १२.१७५.६ ॥

你并不行那于自己有益的道路,也不从中得乐;虽无贪欲,你却始终挑起重担。

12.175.7

अकिञ्चनः परिपतन्सुखमास्वादयिष्यसि ।
अकिञ्चनः सुखं शेते समुत्तिष्ठति चैव ह ॥ १२.१७५.७ ॥

你若作为一无所有者四处漫游,便将尝到快乐。一无所有者安然入睡,安然醒来。

12.175.8

आकिञ्चन्यं सुखं लोके पथ्यं शिवमनामयम् ।
अनमित्रपथो ह्येष दुर्लभः सुलभः सताम् ॥ १२.१७५.८ ॥

在世间,一无所有的境界是幸福、有益、吉祥且无病的。这是无敌之道,对善人而言既难得又容易。

12.175.9

अकिञ्चनस्य शुद्धस्य उपपन्नस्य सर्वतः ।
अवेक्षमाणस्त्रील्लोँकान्न तुल्यमिह लक्षये ॥ १२.१७५.९ ॥

环顾三界,我看不到任何能与一无所有、清净且在各方面圆满之人相比的事物。

12.175.10

आकिञ्चन्यं च राज्यं च तुलया समतोलयम् ।
अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम् ॥ १२.१७५.१० ॥

我以天平等量比较一无所有与王权,贫穷超过了王权,其功德甚至胜于王权。

12.175.11

आकिञ्चन्ये च राज्ये च विशेषः सुमहानयम् ।
नित्योद्विग्नो हि धनवान्मृत्योरास्यगतो यथा ॥ १२.१७५.११ ॥

一无所有与王权之间有此大别:富人常怀忧惧,仿佛已落入死亡之口。

12.175.12

नैवास्याग्निर्न चादित्यो न मृत्युर्न च दस्यवः ।
प्रभवन्ति धनं हर्तुमितरे स्युः कुतः पुनः ॥ १२.१७५.१२ ॥

火、太阳、死亡、盗贼都无法夺取他的财富,何况他人?

12.175.13

तं वै सदा कामचरमनुपस्तीर्णशायिनम् ।
बाहूपधानं शाम्यन्तं प्रशंसन्ति दिवौकसः ॥ १२.१७५.१३ ॥

常随意而行、卧于未铺之地、以臂为枕而寂静安住者,天界之人都赞叹他。

12.175.14

धनवान्क्रोधलोभाभ्यामाविष्टो नष्टचेतनः ।
तिर्यग्दृष्टिः शुष्कमुखः पापको भ्रुकुटीमुखः ॥ १२.१७५.१४ ॥

富人被愤怒与贪欲所缠,失去了理智,斜视,面容枯槁,邪恶,皱眉沉面。

12.175.15

निर्दशन्नधरोष्ठं च क्रुद्धो दारुणभाषिता ।
कस्तमिच्छेत्परिद्रष्टुं दातुमिच्छति चेन्महीम् ॥ १२.१७५.१५ ॥

咬着下唇,愤怒而出言狠毒,谁愿意近前看他?即使他想施舍大地?

12.175.16

श्रिया ह्यभीक्ष्णं संवासो मोहयत्यविचक्षणम् ।
सा तस्य चित्तं हरति शारदाभ्रमिवानिलः ॥ १२.१७५.१६ ॥

与财富长久相处,会迷惑无知之人;它夺走他的心,犹如风吹散秋日的云。

12.175.17

अथैनं रूपमानश्च धनमानश्च विन्दति ।
अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः।
इत्येभिः कारणैस्तस्य त्रिभिश्चित्तं प्रमाद्यति ॥ १२.१७५.१७ ॥

于是美貌之傲与财富之傲攫住了他。他想:“我出身高贵,我已成就,我不只是凡人。”由于这三种缘故,他的心变得放逸。

12.175.18

संप्रसक्तमना भोगान्विसृज्य पितृसंचितान् ।
परिक्षीणः परस्वानामादानं साधु मन्यते ॥ १२.१७५.१८ ॥

心中执着的他抛弃了祖先积累的享受,日渐衰败,并认为夺取他人的财富是好事。

12.175.19

तमतिक्रान्तमर्यादमाददानं ततस्ततः ।
प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः ॥ १२.१७५.१९ ॥

越过界限、到处攫取之人,贪婪的国王以箭射止,如射鹿一般。

12.175.20

एवमेतानि दुःखानि तानि तानीह मानवम् ।
विविधान्युपवर्तन्ते गात्रसंस्पर्शजान्यपि ॥ १२.१७५.२० ॥

如此,这些多样的苦难,甚至由身体接触而生者,在此降临于人。

12.175.21

तेषां परमदुःखानां बुद्ध्या भैषज्यमाचरेत् ।
लोकधर्मं समाज्ञाय ध्रुवाणामध्रुवैः सह ॥ १२.१७५.२१ ॥

对于这些极大的苦难,应以智慧作为药方,透彻理解世间之法:恒常者与无常者同在。

12.175.22

नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम् ।
नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भवेत् ॥ १२.१७५.२२ ॥

不舍弃者不得安乐,不舍弃者不得至上,不舍弃者不能无畏而眠;舍弃一切者方得安乐。

12.175.23

इत्येतद्धास्तिनपुरे ब्राह्मणेनोपवर्णितम् ।
शम्याकेन पुरा मह्यं तस्मात्त्यागः परो मतः ॥ १२.१७५.२३ ॥

此事从前在象城由一位名为沙米亚卡的婆罗门向我讲述;因此舍弃被认为是至上的。