マハーバーラタ · 章 12.187
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.187.1
ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम ।
वैश्यः शूद्रश्च विप्रर्षे तद्ब्रूहि वदतां वर ॥ १२.१८७.१ ॥
再生族の最上の人よ、バラモンの中の聖仙よ、語る者の中で最も優れた人よ、人は何によってバラモン、クシャトリヤ、ヴァイシャ、あるいはシュードラとなるのか。それを語れ。
12.187.2
जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः ।
वेदाध्ययनसंपन्नः षट्सु कर्मस्ववस्थितः ॥ १२.१८७.२ ॥
誕生儀礼をはじめとする諸浄化の儀式によって清められ、清浄で、ヴェーダの学習を成就し、六つの務めに確立した者。
12.187.3
शौचाचारस्थितः सम्यग्विघसाशी गुरुप्रियः ।
नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते ॥ १२.१८७.३ ॥
清浄な行いにしっかりと立ち、食後の残りを食べ、師に愛され、常に誓戒を守り、真実に専心する者、その人こそバラモンと呼ばれる。
12.187.4
सत्यं दानमथाद्रोह आनृशंस्यं क्षमा धृणा ।
तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः ॥ १२.१८७.४ ॥
真実、布施、非害、慈悲、忍耐、哀れみ、苦行が見られる者、その人がバラモンとして記憶される。
12.187.5
क्षत्रजं सेवते कर्म देवाध्ययनसंगतः ।
दानादानरतिर्यस्तु स वै क्षत्रिय उच्यते ॥ १२.१८७.५ ॥
戦士の務めを行い、諸神の学びに携わり、与えることと受けることを喜ぶ者、その人こそクシャトリヤと呼ばれる。
12.187.6
कृपिगोरक्षवाणिज्यं यो विशत्यनिशं शुचिः ।
वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः ॥ १२.१८७.६ ॥
農耕、牧畜、商業に絶えず従事し、清浄でヴェーダの学習を成就した者、その人はヴァイシャと名づけられる。
12.187.7
सर्वभक्षरतिर्नित्यं सर्वकर्मकरोऽशुचिः ।
त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः ॥ १२.१८७.७ ॥
常にあらゆるものを食べることを喜び、あらゆる仕事をし、不浄で、ヴェーダを捨て、品行の正しくない者――その者こそ首陀羅と見なされる。
12.187.8
शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते ।
न वै शूद्रो भवेच्छ्रद्रो ब्राह्मणो न च ब्राह्मणः ॥ १२.१८७.८ ॥
この徴は首陀羅にはあるかもしれないが、再生族にはない。首陀羅は実に信仰ある首陀羅とはならず、婆羅門もまた婆羅門ではなくなる。
12.187.9
सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः ।
एतत्पवित्रं ज्ञातव्यं तथा चैवात्मसंयमः ॥ १२.१८७.९ ॥
あらゆる手段によって貪欲と怒りを抑えるべきである。これこそ清浄として知るべきであり、また自己抑制もそうである。
12.187.10
वार्यौ सर्वात्मना तौ हि श्रेयोघातार्थमुच्छ्रितौ ॥ १२.१८७.१० ॥
その二つは完全に抑制されるべきである。なぜなら、それらは幸福を破壊するために立ち上がるからである。
12.187.11
नित्यं क्रोधाच्छ्रियं रक्षेत्तपो रक्षेच्च मत्सरात् ।
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ॥ १२.१८७.११ ॥
常に怒りから富を守り、嫉妬から苦行を守るべきである。名誉と不名誉から学問を、怠慢から自らを守るべきである。
12.187.12
यस्य सर्वे समारम्भा निराशाबन्धना द्विज ।
त्यागे यस्य हुतं सर्वं स त्यागी च स बुद्धिमान् ॥ १२.१८७.१२ ॥
再生族よ、その行いのすべてが希望の束縛から自由であり、放棄においてすべてを供物として捧げた者――その者こそ放棄者であり、その者こそ賢者である。
12.187.13
अहिंस्रः सर्वभूतानां मैत्रायणगतिश्चरेत् ।
परिग्रहान्परित्यज्य भवेद्बुद्ध्या जितेन्द्रियः।
अचलं स्थानमातिष्ठेदिह चामुत्र चोभयोः ॥ १२.१८७.१३ ॥
あらゆる生き物を害さず、慈しみの道を歩むべきである。所有を捨て、智慧によって感官を制する者となれ。この世でもあの世でも、動かぬ境地に身を置くべきである。
12.187.14
तपोनित्येन दान्तेन मुनिना संयतात्मना ।
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ॥ १२.१८७.१४ ॥
常に苦行に励み、自己を制し、心を抑えた聖者は、征服されていないものを征服しようと願い、執着の中にあって執着しない者であるべきである。
12.187.15
इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः ।
अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ॥ १२.१८७.१५ ॥
感官によって捉えられるものは顕現したものであるというのが確立した見解である。不顕現のものは、徴によって把握され、感官を超えたものと知るべきである。
12.187.16
अविस्रम्भे न गन्तव्यं विस्रम्भे धारयेन्मनः ।
मनः प्राणे निगृह्णीयात्प्राणं ब्रह्मणि धारयेत् ॥ १२.१८७.१६ ॥
信頼のない所へ行くべきではない。信頼のある所では心を保つべきである。心を気息において制し、気息をブラフマンにとどめるべきである。
12.187.17
निर्वेदादेव निर्वायान्न च किंचिद्विचिन्तयेत् ।
सुखं वै ब्राह्मणो ब्रह्म स वै तेनाधिगच्छति ॥ १२.१८७.१७ ॥
ただ厭離によって解脱を得るべきであり、何も考えてはならない。ブラーフマナは至福であるブラフマンを知り、まさにそれによってそれを得るのである。
12.187.18
शौचेन सततं युक्तः सदाचारसमन्वितः ।
सानुक्रोशश्च भूतेषु तद्द्विजातिषु लक्षणम् ॥ १२.१८७.१८ ॥
常に清浄を保ち、善い行いを備え、生きとし生けるものに慈悲を満たす——これこそ再生族の特徴である。