Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.189

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.189.1

आचारस्य विधिं तात प्रोच्यमानं त्वयाऽनघ ।
श्रोतुमिच्छामि धर्मज्ञ सर्वज्ञो ह्यसि मे मतः ॥ १२.१८९.१ ॥

亲爱的长者,无垢者,我愿听闻您所宣说的善行之规。通晓法者,在我看来您是全知的。

12.189.2

दुराचारा दुर्विचेष्टा दुष्प्रज्ञाः प्रियसाहसाः ।
असन्तस्त्वभिविख्याताः सन्तश्चाचारलक्षणाः ॥ १२.१८९.२ ॥

行为恶劣、举止邪僻、心智败坏、喜好鲁莽之事的人,是不善之人;而善人则以善行的标志而被认识。

12.189.3

पुरीषं यदि वा मूत्रं ये न कुवन्ति मानवाः ।
राजमार्गे गवां मध्ये धान्यमध्ये शिवालये।
अग्न्यगारे तथा तीरे ये न कुर्वन्ति ते शुभाः ॥ १२.१८९.३ ॥

那些不在大路上、牛群中、谷物中、湿婆庙中、火祠中或河岸上大小便的人,是吉祥的。

12.189.4

शौचमावश्यकं कृत्वा देवतानां च तर्पणम् ।
धर्ममाहुर्मनुष्याणामुपस्पृश्य नदीं तरेत् ॥ १२.१८९.४ ॥

完成必要的净身并向诸神献水之后,人们称之为人类的法;漱口之后,应当渡过河流。

12.189.5

सूर्यं सदोपतिष्ठेन न स्वपेद्भास्करोदये ।
सायंप्रातर्जपेत्सन्ध्यां तिष्ठन्पूर्वां तथेतराम् ॥ १२.१८९.५ ॥

应当常常礼拜太阳,日出时不可睡眠;傍晚与清晨应念诵晨昏之祈祷,前者站立,后者亦然。

12.189.6

पञ्चार्द्रो भोजनं भुञ्ज्यात्प्राद्भुखो मौनमास्थितः ।
न निन्द्यादन्नभक्ष्यांश्च स्वादुस्वादु च भक्षयेत् ॥ १२.१८९.६ ॥

濡湿五处,面向东方,保持沉默而进食;不应非议可食之物,应将美味视为美味而食用。

12.189.7

नार्द्रपाणिः समुत्तिष्ठेन्नार्द्रपादः स्वपेन्निशि ।
देवर्षिर्नारदः प्राह एतदाचारलक्षणम् ॥ १२.१८९.७ ॥

手湿时不应起身,脚湿时不应夜间就寝。天仙圣人那罗陀说,这便是品行的标志。

12.189.8

शोचिष्केशमनड्वाहं देवगोष्ठं चतुष्पथम् ।
ब्राह्मणं धार्मिकं चैव नित्यं कुर्यात्प्रदक्षिणम् ॥ १२.१८९.८ ॥

火、公牛、诸神的牛栏、十字路口、婆罗门和正直之人——应当常常向他们行右绕之礼。

12.189.9

अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च ।
सामात्यं भोजनं भृत्यैः पुरुषस्य प्रशस्यते ॥ १२.१८९.९ ॥

人与宾客、所有仆役、自家亲属、大臣及侍从一同用餐,是值得称赞的。

12.189.10

सायंप्रातर्मनुष्याणामशनं वेदनिर्मितम् ।
नान्तरा भोजनं दृष्टमुपवासी तथा भवेत् ॥ १२.१८९.१० ॥

依吠陀所定,人应在早晚进食;中间进食不被视为合宜,应当保持斋戒。

12.189.11

होमकाले तथ्ना जुह्वन्नृतुकाले तथा व्रजन् ।
अनन्यस्त्रीजनः प्राज्ञो ब्रह्मचारी तथा भवेत् ॥ १२.१८९.११ ॥

在祭祀时迅速献祭,在受孕之期亲近妻子,智者不应亲近他女,应当保持梵行。

12.189.12

अमृतं ब्राह्मणोच्छिष्टं जनन्या हृदयं कृतम् ।
तज्जनाः पर्युपासन्ते सत्यं सन्तः समासते ॥ १२.१८९.१२ ॥

婆罗门所剩之物是甘露,由母亲的心所造;众人侍奉它,善人确实居于其中。

12.189.13

लोष्टमदीं तृणच्छेदी नखखादी तु यो नरः ।
नित्योच्छिष्टः संकसुको नेहायुर्विन्दते महत् ॥ १२.१८९.१३ ॥

吞食泥块、割草、啃指甲,且常年沉溺于残羹与污秽之中的人,在此世不能获得长寿。

12.189.14

यजुषा संस्कृतं मांसं निवृत्तो मांसभक्षणात् ।
भक्षयेन्न वृथामांसं पृष्ठमांसं च वर्जयेत् ॥ १२.१८९.१४ ॥

经夜柔吠陀咒语净化的肉,已戒肉者可以食用;但不应无故食肉,并应避免背部的肉。

12.189.15

स्वदेशे परदेशे वा अतिर्थि नोपवासयेत् ।
काम्यकर्मफलं लब्ध्वा गुरूणामुपपादयेत् ॥ १२.१८९.१५ ॥

无论在自己的国土还是他乡,都不可让客人空腹;获得求愿祭仪的果报之后,应当将其献给长者。

12.189.16

गुरूणामासनं देयं कर्तव्यं चाभिवादनम् ।
गुरूनभ्यर्च्य युज्येत आयुषा यशसा श्रिया ॥ १२.१८९.१६ ॥

应当为长者奉上座位,并向他们行礼致敬;尊敬师长者,便能获得长寿、名声与福祉。

12.189.17

नेक्षेतादित्यमुद्यन्तं न च नग्नां परस्त्रियम् ।
मैथुनं सततं धर्म्यं गुह्ये चैव समाचरेत् ॥ १२.१८९.१७ ॥

不应注视初升的太阳,也不应注视他人的裸体妻子;房事应当始终合乎法度,并在私密之处进行。

12.189.18

तीर्थानां हृदयं तीर्थं शुचीनां हृदयं शुचिः ।
सर्वमार्यकृतं धर्म्यं वालसंस्पर्शनानि च ॥ १२.१८९.१८ ॥

圣地的核心即是圣地,清净者的核心即是清净;雅利安人所行的一切法事,以及触发(剪发)等仪式,皆合乎法度。

12.189.19

दर्शनेदर्शने नित्यं सुखप्रश्नमुदाहरेत् ।
सायं प्रातश्च विप्राणां प्रदिष्टमभिवादनम् ॥ १२.१८९.१९ ॥

无论相见与否,都应常问安好;早晚向婆罗门行礼,是所规定的。

12.189.20

देवगोष्ठे गवां मध्ये ब्राह्मणानां क्रियापथे ।
स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् ॥ १२.१८९.२० ॥

在神庙中、牛群之间、婆罗门的祭仪之路上、诵读吠陀及用餐时,应举起右手。

12.189.21

सायं प्रातश्च विप्राणां पूजनं च यथाविधि ।
पण्यानां शोभते पण्यं कृषीणामृद्ध्यतां कृषिः।
बहुकारं च सस्यानां वाह्ये वाहो गवां तथा ॥ १२.१८९.२१ ॥

早晚应依规则礼敬婆罗门。货物为商人增光,耕作为兴旺的农夫增光;谷物需要大量劳作,外面驮运牛只的负担也是如此。

12.189.22

संपन्नं भोजने नित्यं पानीये तर्पणं तथा ।
सुशृतं पायसे ब्रूयाद्यवाग्वां कृसरे तथा ॥ १२.१८९.२२ ॥

餐食中应常说“精美备好”(sampanna),饮水时说“供水”(tarpaṇa);牛奶饭说“煮得很好”(suśṛta),大麦粥和芝麻米饭也同样。

12.189.23

श्मश्रुकर्मणि संप्राप्ते क्षुते स्नानेऽथ भोजने ।
व्याधितानां च सर्वेषामायुष्ममभिनन्दनम् ॥ १२.१८९.२३ ॥

剃须之时、打喷嚏之时、沐浴之时、用餐之时,以及对所有病人,都应以“愿你长寿”(āyuṣmān)致意。

12.189.24

प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत् ।
सुतैः स्त्रिया च शयनं सह भोज्यं च वर्जयेत् ॥ १२.१८९.२४ ॥

不可面向太阳小便,也不可看自己的粪便;应避免与儿子和妻子同睡、同食。

12.189.25

त्वंकारं नामधेयं च ज्येष्ठानां परिवर्जयेत् ।
अवराणां समानानामुभयं नैव दुष्यति ॥ १२.१८९.२५ ॥

应避免以“你”称呼长者并直呼其名;对于晚辈和同辈,这两者都不算过失。

12.189.26

हृदयं पापवृत्तानां पापमाख्याति वैकृतम् ।
ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने ॥ १२.१८९.२६ ॥

行恶之人的心本身就会显露其罪恶的扭曲;在大众面前隐瞒明知而犯的罪过者,必然毁灭。

12.189.27

ज्ञानपूर्वकृतं पापं छादयन्त्यबहुश्रुताः ।
नैनं मनुष्याः पश्यन्ति पश्यन्त्येव दिवौकसः ॥ १२.१८९.२७ ॥

无知之人隐瞒明知而犯的罪;人们看不见,但天上的居民必定看见。

12.189.28

पापेनापिहितं पापं पापमेवानुवर्तते ।
धर्मेणापिहितो धर्मो धर्ममेवानुवर्तते।
धार्मिकेण कृतो धर्मो धर्ममेवानुवर्तते ॥ १२.१८९.२८ ॥

被罪恶掩盖的罪,只会跟随罪;被法掩盖的法,只会跟随法;正直之人所行的法,只会跟随法。

12.189.29

पापं कृतं न स्मरतीह मूढो ।
विवर्तमानस्य तदेति कर्तुः।
राहुर्यथा चन्द्रमुपैति चापि ।
तथाऽबुधं पापमुपैति कर्म ॥ १२.१८९.२९ ॥

愚昧之人不记得自己在此所犯的罪,但它会回转而来,抵达作恶者,正如罗睺接近月亮一样;如此,罪业便来到无知之人身上。

12.189.30

आशया संचितं द्रव्यं दुःखेनैवोपभुज्यते ।
तद्बुधा न प्रशंसन्ति मरणं न प्रतीक्षते ॥ १२.१८९.३० ॥

凭希望积聚的财富只能伴随痛苦享用;因此智者不赞扬它,死亡也不会等待它。

12.189.31

मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः ।
तस्मात्सर्वेषु भूतेषु मनसा शिवमाचरेत् ॥ १२.१८९.३१ ॥

智者称法为一切众生的心境。因此,对一切众生应以心行善。

12.189.32

एक एव चरेद्धर्मं नास्ति धर्मे सहायता ।
केवलं विधिमासाद्य सहायः किं करिष्यति ॥ १२.१८९.३२ ॥

法应独自履行,法中无人可助。既已唯有命运相随,助手又能做什么呢?

12.189.33

धर्मो योनिर्मनुष्याणां देवानाममृतं दिवि ।
प्रेत्यभावे सुखं धर्माच्न्छश्वत्तैरुपभुज्यते ॥ १२.१८९.३३ ॥

法是人类的根源,在天界则是诸神的甘露。死后的幸福来自法,而他们永远享受它。