Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.193

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.193.1

हन्त वक्ष्यामि ते पार्थ ध्यानयोगं चतुर्विधम् ।
यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्तीह महर्षयः ॥ १२.१९३.१ ॥

毗湿摩说:阿周那之子啊,我将为你讲述四种禅定瑜伽,大仙人们知晓它之后,便在此处获得永恒的成就。

12.193.2

यथा स्वनुष्ठितं ध्यानं तथा कुर्वन्ति योगिनः ।
महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः ॥ १२.१९३.२ ॥

正如瑜伽行者善修禅定,那些以智慧满足、心已入涅槃的大仙人也同样修行。

12.193.3

नावर्तन्ते पुनः पार्थ मुक्ताः संसारदोषतः ।
अन्मदोषपरिक्षीणाः स्वभावे पर्युपस्थिताः ॥ १२.१९३.३ ॥

阿周那啊,脱离轮回过患者不再复返;生死之过已消尽,他们安住于自性之中。

12.193.4

निर्द्वन्द्वा नित्यसत्वस्था विमुक्तिं नित्यमश्रिताः ।
असङ्गीन्यविवादीनि मनः शान्तिकराणि च ॥ १२.१९३.४ ॥

超越相对之二元,常住于纯净之德,恒常依止解脱,他们拥有无执、无争、能带来寂静的心。

12.193.5

तत्र ध्यानेन संश्लिष्टमेकाग्रे धारयेन्मनः ।
तत्र च ध्यानसंरोधादथ ज्ञानी भवत्युत ॥ १२.१९३.५ ॥

在那里,通过禅定紧密结合,应当使心专注于一处;也正是在那里,借由禅定的止息,人便成为真正的智者。

12.193.6

चतुर्विधेषु भावेषु योऽर्थसक्तः सदैव हि ।
तज्ज्ञात्वा वास्तवं तेषामर्थेषु परिवर्तते।
पिण्डीकृत्येन्द्रियग्राममासीनः काष्ठवन्मुनिः ॥ १२.१९३.६ ॥

在四种状态中,若人始终执着于外境,即便知晓其真实本性,仍在外境中打转;而牟尼则收摄诸根,静坐如木柱一般。

12.193.7

शब्दं न विन्देच्छ्रोत्रेण त्वचा स्पर्शं न वेदयेत् ।
रूपं न चक्षुषा विद्याज्जिह्वया न रसांस्तथा ॥ १२.१९३.७ ॥

不以耳听声,不以肤觉触,不以目识色,亦不以舌知味。

12.193.8

घ्रेयाण्यपि च सर्वाणि जह्याद्राणेन योगवित् ।
पञ्चवर्गप्रमाथीनि नेच्छेच्चैतानि वीर्यवान् ॥ १२.१९३.८ ॥

精通瑜伽者应以鼻舍弃一切气味;有力者不应贪求这些扰乱五类的事物。

12.193.9

ततो मनसि संसृज्य पञ्चवर्ग विचक्षणः ।
समादध्यान्मनो भ्रान्तमिन्द्रियैः सह पञ्चमिः ॥ १२.१९३.९ ॥

于是明辨者应将五类在心中会合,使与五根一同游荡的心得以专注。

12.193.10

विसंचारि निरालम्बं पञ्चद्वारं चलाचलम् ।
पूर्वं ध्यानपदे धीरः समादध्यान्मनो नरः ॥ १२.१९३.१० ॥

坚定之人应先将游移、无所依托、有五门、摇摆不定的心,安定于禅定之处。

12.193.11

इन्द्रियाणि मनश्चैव यदा पिण्डीकरोत्ययम् ।
एव ध्यानपथः पूर्वो मया समनुवर्णितः ॥ १२.१९३.११ ॥

当此人将诸根与心聚为一团时,这便是我先前所述的禅定之道。

12.193.12

तस्य तत्पूर्वसंरुद्धमात्सषष्ठं मनोऽन्तरा ।
स्फुरिष्यति समुद्धान्तं विद्युदम्बुधरे यथा ॥ १२.१९३.१२ ॥

其先已被摄持的心,以自我为第六,将从内部如云中闪电般骤然闪现,扰动不安。

12.193.13

जलबिन्दुर्यथा लोलः पर्णस्थः सर्वतश्चलः ।
एवमेवास्य तच्चित्तं भ्रमति ध्यानवर्त्मनि ॥ १२.१९३.१३ ॥

如同停留在树叶上的水珠,颤动不定,四处滚动,他的心也就这样在禅定的道路上游荡。

12.193.14

समाहितं क्षणं किंचिद्ध्यानवर्त्मनि तिष्ठति ।
पुनर्वायुपथं प्राप्तं मनो भवति वायुवत् ॥ १२.१९३.१४ ॥

在禅定的道路上,那心片刻间略得专注而停住;再次走入风之道时,心便如同风一样。

12.193.15

अनिर्वेदो गतक्लेशो गततन्द्रीरमत्सरः ।
समादध्यात्पुनश्चेतो ध्यानेन ध्यानयोगवित् ॥ १२.१९३.१५ ॥

不灰心、摆脱烦恼、没有懈怠与嫉妒、通晓禅定之瑜伽者,应当借禅定再次使心专注。

12.193.16

विचारश्च विवेकश्च वितर्कश्चोपजायते ।
मुनेः समादधानस्य प्रथमं ध्यानमादितः ॥ १२.१९३.१६ ॥

在正在专注的圣者心中,从禅定开始之初,首先生起思虑、分辨与推论。

12.193.17

मनसा क्लिश्यमानस्तु समाधानं च कारयेत् ।
न निर्वेदं मुनिर्गच्छेत्कुर्यादेवात्मनो हितम् ॥ १२.१९३.१७ ॥

即使心中受到烦扰,也应使心得以安定;圣者不应陷入绝望,而应做有利于自己的事。

12.193.18

पांसुभस्मकरीषाणां यथा वै राशयश्चिताः ।
सहसा वारिणा सिक्ता न यान्ति परिभावनम् ॥ १२.१९३.१८ ॥

正如尘土、灰烬与牛粪饼堆,即使突然以水洒湿,也不会散去,

12.193.19

किंचित्स्निग्धं यथा च स्याच्छुष्कचूर्णमभावितम् ।
क्रमशस्तु शनैर्गच्छेत्सर्वं तत्परिभावनम् ॥ १२.१९३.१९ ॥

如同尚未浸润的干粉,略带湿润,渐次缓慢地全部浸透,那便是完全的浸润。

12.193.20

एवमेवेन्द्रियग्रामं शनैः संपरिभावयेत् ।
संहरेत्क्रमशश्चैनं स सम्यक्प्रशमिष्यति ॥ १२.१९३.२० ॥

同样地,应当渐渐地将诸根之群好好调伏;次第收摄,它便会完全平静。

12.193.21

स्वयमेव मनश्चैवं पञ्चवर्गं च भारत ।
पूर्वं ध्यानपथे स्थाप्य नित्ययोगेन शाम्यति ॥ १२.१९३.२१ ॥

婆罗多,心自身,以及五群,先安立于禅定之道,以常修瑜伽而得寂静。

12.193.22

न तत्पुरुषकारेण न च दैवेन केनचित् ।
सुखमेष्यति तत्तस्य न भवन्ति विपत्तयः ॥ १२.१९३.२२ ॥

那并非靠人力,也非靠任何天命;他将获得那份安乐,灾难也不会降临于他。

12.193.23

सुखेन तेन संयुक्तो रस्यते ध्यानकर्मणि ।
गच्छन्ति योगिनो ह्येवं निर्वाणं तन्निरामयम् ॥ १२.१९३.२३ ॥

与那安乐相应,他便喜乐于禅定之行。如此,瑜伽行者便得到那无病的涅槃。