摩诃婆罗多 · 章 12.195
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.195.1
गतीनामुत्तमा प्राप्तिः कथिता जापकेष्विह ।
एकैवैषा गतिस्तेषामुत यान्त्यपरामपि ॥ १२.१९५.१ ॥
此处宣说,对于念诵 japa 的人而言,诸趣中最高的成就。这是他们唯一的趣向,或者他们也会趣向另一处。
12.195.2
शृणु वहितो राजञ्जापकानां गतिं विभो ।
यथा गच्छन्ति निरयमनेकं पुरुषर्षभ ॥ १२.१९५.२ ॥
大王,请专心听:念诵 japa 的人如何走向种种地狱。大力者啊,人中之牛。
12.195.3
यथोक्तमेतत्पूर्वं यो नानुतिष्ठति जापकः ।
एकदेशक्रियश्चात्र निरयं स निगच्छति ॥ १२.१९५.३ ॥
若念诵 japa 的人不奉行前面所说,只行其中一部分,他便堕入地狱。
12.195.4
अवमानेन कुरुते न तुष्यति न शोचति ।
ईदृशो जापको याति निरयं नात्र संशयः ॥ १२.१९५.४ ॥
念诵 japa 者若轻慢而行,既不欢喜也不悲伤,这样的人必堕地狱,此事无疑。
12.195.5
अहंकारकृतश्चैव सर्वे निरयग्रामिनः ।
परावमानी पुरुषो भविता निरयोपगः ॥ १२.१९५.५ ॥
凡由我慢而行者,皆趣向地狱;轻蔑他人的人将抵达地狱。
12.195.6
अभिध्यापूर्वकं जप्यं कुरुते यश्च मोहितः ।
यत्रास्य रागः पतति तत्रतत्रोपपद्यते ॥ १२.१९५.६ ॥
迷惑之人以贪欲而念诵,其爱着落于何处,便生于何处。
12.195.7
अथैश्वर्यप्रसक्तः सञ्जापको यत्र रज्यते ।
स एव निरयस्तस्य नासौ तस्मात्प्रमुच्यते ॥ १२.१९५.७ ॥
耽于权势的诵咒者,在何处生起贪著,那便是他的地狱;他不能从中解脱。
12.195.8
रागेण जापको जप्यं कुरुते यश्च मोहितः ।
यत्रास्य रागः पतति तत्र तत्रोपजायते ॥ १२.१९५.८ ॥
迷惑而以贪著诵咒的诵咒者,其贪著落于何处,便在何处出生。
12.195.9
दुर्बुद्धिरकृतप्रज्ञश्चले मनसि तिष्ठति ।
फलस्यापचितिं याति निरयं चाधिगच्छति ॥ १२.१९५.९ ॥
恶慧而未修智慧者,停留在动荡的心中;他失去果报,并堕入地狱。
12.195.10
अकृतव्रज्ञको बालो मोहं गच्छति जापकः ।
स मोहान्निरयं याति यत्र गत्वाऽनुशोचति ॥ १२.१९५.१० ॥
未修誓行的愚痴童子诵咒者陷入迷惑;因迷惑而入地狱,到了那里便悲悔。
12.195.11
दृढग्राही करोमीति जाप्यं जपति जापकः ।
न संपूर्णो न वा युक्तो निरयं सोऽधिगच्छति ॥ १२.१९५.११ ॥
坚执“我在做”之念,诵咒者念诵咒语;既不圆满,也不相应,便堕入地狱。
12.195.12
अनिमित्तं परं यत्तदव्यक्तं ब्रह्मणि स्थितम् ।
तद्भूतो जापकः कस्मात्सशरीरमिहाविशेत् ॥ १२.१९५.१२ ॥
那无因无相、至上、安住于未显现梵中的境界——已成此境的诵咒者,为何还要带着身体再次进入此处呢?
12.195.13
दुष्प्रज्ञानेन निरया बहवः समुदाहृताः ।
प्रशस्तं जापकत्वं च दोषाश्चैते तदात्मकाः ॥ १२.१९५.१३ ॥
因错误的认知,宣说了许多地狱。诵咒者的境界受到赞扬,但这些过失也正源于此。