摩诃婆罗多 · 章 12.20
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.20.1
अस्मिन्वाक्यान्तरे वक्ता देवस्थानो महातपाः ।
अभिनीततरं वाक्यमित्युवाच युधिष्ठिरम् ॥ १२.२०.१ ॥
在这段谈话中,大苦行者提婆斯塔纳对坚战说了这番更为动人的话。
12.20.2
यद्वचः फल्गुनेनोक्तं न ज्यायोऽस्ति धनादिति ।
अत्र ते वर्तयिष्यामि तदेकान्तमनाः शृणु ॥ १२.२०.२ ॥
关于阿周那所说的“没有比财富更高的”这句话,我将在这里为你讲解;请专心聆听。
12.20.3
अजातशत्रो धर्मेण कृत्स्ना ते वसुधा जिता ।
तां जित्वा च वृथा राजन्न परित्यक्तुमर्हसि ॥ १२.२०.३ ॥
阿闍多设咄啊,你以正法征服了整个大地。大王,既已征服,便不应徒然舍弃。
12.20.4
चतुष्पदी हि निःश्रेणी ब्रह्मण्येषा प्रतिष्ठिता ।
तां क्रमेण महाबाहो यथावज्जय पार्थिव।
तस्मात्पार्थ महायज्ञैर्यजस्व बहुदक्षिणैः ॥ १२.२०.४ ॥
这四级的阶梯确立于婆罗门之中。大臂者啊,应依次如法地征服它。因此,普利塔之子啊,你应以丰厚的布施举行大祭。
12.20.5
स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथाऽपरे ।
कर्मनिष्ठाश्च बुद्ध्यर्थास्तपोनिष्ठाश्च पार्थिव ॥ १२.२०.५ ॥
以诵读吠陀为祭祀的仙人,同样还有以智慧为祭祀的其他人,专注于行为的人,追求觉悟的人,以及专注于苦行的人,大王啊。
12.20.6
वैखानसानां कौन्तेय वचनं श्रूयते यथा ॥ १२.२०.६ ॥
昆提之子啊,正如人们所听闻的伏伽那萨(林栖者)之言。
12.20.7
ईहेत धनहेतोर्यस्तस्यानीहा गरीयसी ।
भूयान्दोषो हि वर्धेत यस्तत्कर्म समाश्रयेत् ॥ १२.२०.७ ॥
为求财富而努力的人,不努力才是更高的;依从那种行为的人,其过失必定增长。
12.20.8
कृत्स्नं च धनसंहारं कुर्वन्ति विधिकारणात् ।
आत्मना तृपितो बुद्ध्या भ्रूणहत्यां न बुध्यते ॥ १२.२०.८ ॥
依照仪轨之故,人们聚集全部财富;以自己的智慧为满足的人,看不见杀害胎儿之罪。
12.20.9
अनर्हते यद्ददाति न ददाति यदर्हते ।
अर्हानर्हापरिज्ञानाद्दानधर्मोऽपि दुष्करः ॥ १२.२०.९ ॥
把财物给了不配的人,却不给配得的人;因不知道何者配得、何者不配得,连布施之法也是困难的。
12.20.10
यज्ञाय सृष्टानि धनानि धात्रा ।
यज्ञादिष्टः पुरुषो रक्षिता च।
तस्मात्सर्वं यज्ञ एवोपयोज्यं ।
धनं ततोऽनन्तर एव कामः ॥ १२.२०.१० ॥
造物主为祭祀而创造财富;受祭祀所命的人是其守护者。因此一切都应用于祭祀;财富之后的欲望也正在于此。
12.20.11
यज्ञैरिन्द्रो विविधै रत्नवद्भि ।
र्देवान्सर्वानभ्ययाद्भूरितेजाः।
तेनेन्द्रत्वं प्राप्य विभ्राजतेऽसौ ।
तस्माद्यज्ञे सर्वमेवोपयोज्यम् ॥ १२.२०.११ ॥
以多种如宝石般珍贵的祭祀,大光明的因陀罗来到诸神之中;由此获得因陀罗之位,他光耀照人。因此一切都应用于祭祀。
12.20.12
महादेवः सर्वयज्ञे महात्मा ।
हुत्वाऽऽत्मानं देवदेवो बभूव।
विश्वाँल्लोकान्व्याप्य विष्टभ्य कीर्त्या ।
विराजते द्युतिमान्कृत्तिवासाः ॥ १२.२०.१२ ॥
大自在神,大心者,于一切祭祀中献上自身,成为诸神之神。以其荣耀遍及并支撑一切世界,他光辉灿烂,身披兽皮而闪耀。
12.20.13
आविक्षितः पार्थिवोऽसौ मरुत्तो ।
वृद्ध्या शक्रं योऽजयद्देवराजम्।
यज्ञे यस्य श्रीः स्वयं सन्निविष्टा ।
यस्मिन्भाण्डं काञ्चनं सर्वमासीत् ॥ १२.२०.१३ ॥
阿维克希特之子国王摩卢陀,以其繁盛战胜了诸神之王帝释。在他的祭祀中吉祥天女亲自安坐,他所有的器皿都是金制的。
12.20.14
हरिश्चन्द्रः पार्थिवेन्द्रः श्रुतस्ते ।
यज्ञैरिष्ट्वा पुण्यभाग्वीतशोकः।
ऋद्ध्या शक्रं योऽजयन्मानुषः सं ।
स्तस्माद्यज्ञे सर्वमेवोपयोज्यम् ॥ १२.२०.१४ ॥
您当听说过诸王之主哈利斯昌陀罗:他以祭祀供养,分享功德,离于忧愁,这位凡人以繁盛战胜了帝释。因此一切都应用于祭祀。