摩诃婆罗多 · 章 12.202
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.202.1
यथा व्यक्तमिदं शेते स्वप्ने चरति चेतनम् ।
ज्ञानमिन्द्रियसंयुक्तं तद्वत्प्रेत्य भवाभवौ ॥ १२.२०२.१ ॥
犹如此身明显入睡,意识在梦中游走,与诸根相连的知识在死后也如此,处于有与无之间。
12.202.2
यथाऽम्भसि प्रसन्ने तु रूपं पश्यति चक्षुषा ।
तद्वत्प्रसन्नेन्द्रियवाञ्ज्ञेयं ज्ञानेन पश्यति ॥ १२.२०२.२ ॥
如同在清澈的水中以眼看见形象,诸根清净者以智慧见所知之物。
12.202.3
स एव लुलिते तस्मिन्यथा रूपं न पश्यति ।
तथेन्द्रियाकुलीभावे ज्ञेयं ज्ञाने न पश्यति ॥ १२.२०२.३ ॥
当同一水面被搅动时,便看不见其中的形象;同样,诸根混乱时,便不能在智慧中见到所知之物。
12.202.4
अबुद्धिरज्ञानकृता अबुद्ध्या दूष्यते मनः ।
दुष्टस्य मनसः पञ्च संप्रदुष्यन्ति मानसाः ॥ १२.२०२.४ ॥
由无明所生的无智污染心意;心意被污染,其五种心的作用便全部被污染。
12.202.5
अज्ञानतृप्तो विषयेष्ववगाढो न पश्यति ।
स दृष्ट्वैव तु पूतात्मा विषयेभ्यो निवर्तते ॥ १२.२०२.५ ॥
沉溺于无明、耽著境界者不见;而心灵清净者见到之后,便从诸境界中回转。
12.202.6
तर्षच्छेदो न भवति पुरुषस्येह कल्मषात् ।
निवर्तते तदा तर्षः पापमन्तर्गतं यदा ॥ १२.२०२.६ ॥
在此世间,人的渴爱若未断,罪便不能止息;只有内在的罪业止息时,渴爱才会止息。
12.202.7
अन्तर्गतेन पापेन दह्यमानेन चेतसा ।
शुभाशुभविकारेण न स भूयोऽभिजायते ॥ १२.२०२.७ ॥
心中潜伏的罪恶灼烧着心,为善恶之扰动所困,他不再复生。
12.202.8
विषयेषु तु संसर्गाच्छाश्वतस्य तु संश्रयात् ।
मनसा चान्यथा काड्क्षन्परं न प्रतिपद्यते ॥ १२.२०२.८ ॥
因与诸境相接,又不依托于常住,心中另有所求,便不能证得至上。
12.202.9
ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः ।
अथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि ॥ १२.२०२.९ ॥
人因罪业的消除而生起智慧;于是如镜面一般,在自身中看见自我。
12.202.10
प्रसृतैरिन्द्रियैर्दुःखी तैरेव नियतैः सुखी ।
तस्मादिन्द्रियचोरेभ्यो यच्छेदात्मानमात्मना ॥ १२.२०२.१० ॥
因诸根散乱而受苦,因诸根受制而快乐;所以应当以自我制止自我,防备作为盗贼的诸根。
12.202.11
इन्द्रियेभ्यो मनः पूर्वं बुद्धिः परतरा ततः ।
बुद्धेः परतरं ज्ञानं ज्ञानात्परतरं परम् ॥ १२.२०२.११ ॥
超越诸根的是意;超越意的是觉;超越觉的是智;超越智的是至上。
12.202.12
अव्यक्तात्प्रसृतं ज्ञानं ततो बुद्धिस्ततो मनः ।
मनः श्रोत्रादिभिर्युक्तं शब्दादीन्साधु पश्यति ॥ १२.२०२.१२ ॥
知识从未显现者中生起;其次是觉,其次是意。意与耳等诸根相合,便能善于觉知声等诸境。
12.202.13
यस्तांस्त्यजति शब्दादीन्सर्वाश्च व्यक्तयस्तथा ।
प्रसृतानीन्द्रियाण्येव प्रतिसंहरति कूर्मवत्।
विमुञ्चत्याकृतिग्रामांस्तान्मुक्त्वाऽमृतमश्नुते ॥ १२.२०२.१३ ॥
若有人舍弃声等诸境及其一切显现之相,如龟收敛展开的诸根,便解脱那众多形相,证得不死。
12.202.14
उद्यन्हि सविता यद्वत्सृजते रश्मिमण्डलम् ।
दृश्यते मण्डलं तस्य न च दृश्येत मण्डली।
तद्वद्देहस्तु संदृश्य आत्माऽदृश्यः परः सदा ॥ १२.२०२.१४ ॥
如升起的太阳放出它的光轮,光轮可见,而其主体不可见;身体亦然可见,而至上自我永远不可见。
12.202.15
ग्रस्तं ह्युद्गिरते नित्यमुद्गीथं वेत्ति नित्यशः ।
बाल्ये रथाभ्यां योगेन तत्वज्ञानं तु संमतम् ॥ १२.२०२.१५ ॥
常吐出所吞者,常知优伽圣音;童年时借瑜伽,如车之双轮,真知实理乃为所许。
12.202.16
स एवास्तमुपागच्छंस्तदेवात्मनि यच्छति ।
आदत्ते सर्वभूतानां रसभूतं विकासवान् ॥ १२.२०२.१६ ॥
彼虽往西沉,仍将此收摄于自我之中,并取得一切众生之精华,具足展开之力。
12.202.17
अन्तरात्मा तथा देहमाविश्येन्द्रियरश्मिभिः ।
प्राप्येन्द्रि गुणान्पञ्च सोऽस्तमावृत्त्य गच्छति।
रश्मिमण्ड हीनस्तु न चासौ नास्ति तावता ॥ १२.२०२.१७ ॥
内我亦如是,由诸根之光入于身中,得五根之德,既没而被覆以去。失其光轮,则彼不复存在,至于此程度,乃至全无。
12.202.18
प्रणीतं कर्मणा मार्गं नीयमानः पुनः पुनः ।
प्राप्नोत्ययं कर्मफलं प्रवृत्तं धर्ममाप्तवान् ॥ १२.२०२.१८ ॥
此生灵被业所指定的道路反复引导,获得业的果报;投身于法者,便得到法。
12.202.19
विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ १२.२०२.१९ ॥
对于断食的有身者,诸境界便退去;见到至上之后,连味道也从他身上退去。
12.202.20
बुद्धिः कर्मगुणैर्हीना यदा मनसि वर्तते ।
तदा संपद्यते ब्रह्म तत्रैव प्रलयं गतम् ॥ १२.२०२.२० ॥
当摆脱业之德性的觉智安住于意中时,便证入梵,并在那里消融。
12.202.21
अस्पर्शनमशृण्वानमनास्वादमदर्शनम् ।
अघ्राणमवितर्कं च सत्वं प्रविशते परम् ॥ १२.२०२.२१ ॥
不触、不闻、不尝、不见、不嗅,离于思虑,纯善之性便入于至上。
12.202.22
अव्यक्तात्प्रसृतं ज्ञानं ततो बुद्धिस्ततो मनः ।
आत्मनः प्रसृता बुद्धिरव्यक्तं ज्ञानमुच्यते ॥ १२.२०२.२२ ॥
从未显现者生出智,由智生觉,再生意;觉从自我生出,而未显现者被称为智。
12.202.23
तस्माद्बुद्धिः स्मृता तज्ज्ञैर्मनस्तस्मात्ततः स्मृतम् ।
तस्मादाकृतयः पञ्च मनः परममुच्यते ॥ १२.२०२.२३ ॥
因此知者称之为觉,由之而有意识。由此生出五种形相,而意被称为至上。
12.202.24
तस्मात्परतरा बुद्धिर्ज्ञानं तस्मात्परं स्मृतम् ।
ततः सूक्ष्मस्ततो ह्यात्मा तस्मात्परतरं न च।
इन्द्रियाणि निरीक्षन्ते मनसैतानि सर्वशः ॥ १२.२०२.२४ ॥
在此之上是智性更高;在此之上,知识被认为最为殊胜。在此之上是微细者,在此之上确实是自我;再无更高者。诸根通过意根全面地观察这些。
12.202.25
मनस्याकृतयो मग्ना मनस्त्वभिगतं मतिम् ।
मतिस्त्वभिगता ज्ञानं ज्ञानं चाभिगतं महत् ॥ १२.२०२.२५ ॥
诸相没入意中;意趣入于智性。智性趣入知识,知识趣入广大。
12.202.26
नेन्द्रियैर्मनसः सिद्धिर्न बुद्धिं बुध्यते मनः ।
न बुद्धिर्बुध्यतेऽव्यक्तं सूक्ष्मं त्वेतानि पश्यति ॥ १२.२०२.२६ ॥
诸根无法成就意,意也不了知智性;智性不了知未显,而微细则由这些所见。