Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.208

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.208.1

पितामह महाप्राज्ञ युधि सत्यपराक्रम ।
श्रोतुमिच्छामि कार्त्स्न्येन वृष्णमव्ययमीश्वरम् ॥ १२.२०८.१ ॥

祖父啊,大智者,战场上真正勇武的人,我想完整地听闻不朽的主宰、毗湿尼族的克里希那的事迹。

12.208.2

यच्चास्य तेजः सुमहद्यच्च कर्म पुरा कृतम् ।
तन्मे सर्वं यथातत्त्वं ब्रूहि त्वं पुरुषर्षभ ॥ १२.२०८.२ ॥

请如实告诉我他极其伟大的光辉,以及他往昔所作的一切事迹,人中之雄。

12.208.3

तिर्यग्योनिगतो रूपं कथं धारितवान्प्रभुः ।
केन कार्यनिसर्गेण तमाख्याहि महाबल ॥ १२.२०८.३ ॥

主宰如何在畜生之胎中现出形体?为了何种行事的缘由?大力者啊,请为我说明。

12.208.4

पुराऽहं मृगयां यातो मार्कण्डेयाश्रमे स्थितः ।
तत्रापश्यं मुनिगणान्समासीनान्सहस्रशः ॥ १२.२०८.४ ॥

从前我出外打猎,停留在摩尔根德耶的修行处,在那里看到成千上万的仙人成群地坐在一起。

12.208.5

ततस्ते मधुपर्केण पूजां चक्रुरथो मयि ।
प्रतिगृह्य च तां पूजां चक्रुरथो मयि। ॥ १२.२०८.५ ॥

于是他们以蜜羹供养我;我接受了这份供养,也反过来供养他们;随后他们又供养我。

12.208.6

कथैषा कथिता तत्र कश्यपेन महर्षिणा ।
मनः प्रह्वादिनीं दिव्यां तामिहैकमनाः शृणु ॥ १२.२०८.६ ॥

这个故事是大仙迦叶波在那里讲述的;现在请专心一意地听这个令人心悦的神圣故事。

12.208.7

पुरा दानवमुख्या हि क्रोधलोभसमन्विताः ।
बलेन मत्ताः शतशो नरकाद्या महासुराः ॥ १२.२०८.७ ॥

往昔,充满愤怒与贪欲的诸大檀那婆,因力量而狂妄,成百上千——以那罗迦为首的大阿修罗。

12.208.8

तथैव चान्ये बहवो दानवा युद्धदुर्मदाः ।
न सहन्ते स्म देवानां समृद्धिं तामनुत्तमाम् ॥ १२.२०८.८ ॥

同样,许多在战斗中狂妄的其他檀那婆,无法忍受诸神那无与伦比的繁荣。

12.208.9

नराकाद्या महाघोरा हिरण्याक्षमुपाश्रिताः ।
उद्योगं परमं चक्रुर्देवानां निग्रहे तदा ॥ १२.२०८.९ ॥

那罗迦等大恐怖阿修罗依附希兰亚克莎,于是竭尽全力压制诸神。

12.208.10

नियुतं वत्सराणां तु वायुभक्षोऽभवत्तदा ।
हिरण्याक्षो महारौद्रो लेभे देवात्पितामहात्।
वरानचिन्त्यानतुलाञ्शतशोऽथ सहस्रशः ॥ १२.२०८.१० ॥

于是极其凶暴的希兰亚克莎,在一尼优多年间只以风为食,从神祖那里获得了不可思议、无与伦比的恩赐,成百上千。

12.208.11

दानवैरर्द्यमानास्तु देवा देवर्षयस्तथा ।
न शर्म लेभिरे राजन्क्लिश्यमानास्ततस्ततः ॥ १२.२०८.११ ॥

被檀那婆所压迫的诸神与天仙,啊,君王,寻不到片刻安宁,四处受苦。

12.208.12

पृथिवीमार्तरूपां ते समपश्यन्दिवौकसः ।
दानवैरभिसंकीर्णां घोररूपैर्महाबलैः।
भारार्तामप्रहृष्टां च दुःखितां संनिमज्जतीम् ॥ १२.२०८.१२ ॥

天上的居民看到大地呈现痛苦之相,充斥着形象可怖、大力无比的檀那婆,负重而苦,毫无喜色,悲伤地正在下沉。

12.208.13

गृहीत्वा पृथिवी देवी पाताले न्यवसत्तदा ।
ततस्त्रैलोक्यमखिलं निरोषधिगणान्वितम्।
निःस्वाध्यायवषट्कारमभूत्सर्वं समन्ततः ॥ १२.२०८.१३ ॥

那时女神抓起大地,住在地下;于是整个三界失去了众多草药,没有了吠陀诵读与唵嘘祭祀,四处皆然。

12.208.14

अथादितेयाः संत्रस्ता ब्रह्माणमिदमब्रुवन् ।
कथं शक्ष्यामहे ब्रह्मन्दानवैरभिमर्दनम् ॥ १२.२०८.१४ ॥

于是惊恐的阿底提之子对梵天说:「梵天啊,我们如何才能免遭檀那婆的摧残?」

12.208.15

हिरण्याक्षेण भगवन्गृहीतेयं वसुन्धरा ।
न शक्ष्यामो वयं तत्र प्रवेष्टुं जलदुर्गमम् ॥ १२.२०८.१५ ॥

「尊者啊,这大地已被金眼抓住;我们无法进入那难以到达的水中堡垒。」

12.208.16

तानाह भगवान्ब्रह्मा मुनिरेव प्रसाद्यताम् ।
अगस्त्योऽसौ महातेजाः पातु तज्जलमञ्जसा ॥ १२.२०८.१६ ॥

尊贵的梵天对他们说:「应当使那位仙人欢喜;愿具大光明的阿伽斯提亚迅速饮尽那水。」

12.208.17

तथेति चोक्त्वा ते देवा मुनिमूचुर्मुदान्विताः ।
त्रायस्व लोकान्विप्रर्षे जलमेतत्क्षयं नय ॥ १२.२०८.१७ ॥

诸神说「好吧」,满心欢喜地对仙人说:「婆罗门仙人啊,请护佑诸世界;使这水归于消竭吧。」

12.208.18

तथेति चोक्त्वा भगवान्कालानलसमद्युतिः ।
ध्यायञ्जलादनिवहं स क्षणेन पपौ जलम् ॥ १२.२०८.१८ ॥

这位尊者光明如时间之火,说了「好吧」,冥想那水的聚集,在一瞬间饮尽了那水。

12.208.19

शोषिते तु समुद्रे च देवाः सर्षिपुरोगमाः ।
ब्रह्माणं प्रणिपत्योचुर्मुनिना शोषितं जलम्।
इति भूयः समाचक्ष्व किं करिष्यामहे विभो ॥ १२.२०८.१९ ॥

海洋干涸之后,以仙人为首的诸神向梵天礼拜,说:“水已被仙人吸干。请再告诉我们,主啊,我们该怎么做?”

12.208.20

स्वयंभूस्तानुवाचेदं निसृष्टोऽत्र विधिर्मया ॥ १२.२०८.२० ॥

自生者对他们说:“此事之规,是我所定。”

12.208.21

ते वरेणाभिसंपन्ना बलेन च मदेन च ।
नावबुद्ध्यन्ति संमूढा विष्णुमव्यक्तदर्शनम्।
वराहरूपिणं देवमधृष्यममरैरपि ॥ १२.२०८.२१ ॥

他们被恩赐、力量和傲慢蒙蔽,无法认出毗湿奴——他形貌不可见,化为野猪,连不死者也无法侵犯。

12.208.22

एष वेगेन गत्वा हि यत्र ते दानवाधमाः ।
अन्तर्भूमिगता घोरा निवसन्ति सहस्रशः।
शमयिष्यति तच्छ्रुत्वा जहृषुः सुरसत्तमाः ॥ १२.२०८.२२ ॥

他将迅速前往那些隐匿于大地深处、可怖而成千上万的最卑下的达那婆之处,并将制服他们。诸神中的最优者听闻此言,甚为欢喜。

12.208.23

ततो विष्णुर्महातेजा वाराहं रूपमास्थितः ।
अन्तर्भूमिं संप्रविश्य जगाम दितिजान्प्रति ॥ १२.२०८.२३ ॥

于是大光明的毗湿奴取野猪之形,进入大地之中,朝阿修罗们而去。

12.208.24

दृष्ट्वा च सहिताः सर्वे दैत्याः सत्वममानुषम् ।
प्रसह्य तरसा सर्वे संतस्थुः कालमोहिताः ॥ १२.२०८.२४ ॥

诸阿修罗见此非人之身,一同聚集,急速而猛烈地,被时间迷惑,坚定地站立起来。

12.208.25

ततस्ते समभिद्रुत्य वराहं जगृहुः समम् ।
संक्रुद्धाश्च वराहं तं व्यकर्षन्त समन्ततः ॥ १२.२०८.२५ ॥

于是他们一起冲上前抓住了那头野猪;愤怒之下,从四面八方拉扯那头野猪。

12.208.26

दानवेन्द्रा महाकाया महावीर्यबलोच्छ्रिताः ।
नाशक्नुवंश्च किंचित्ते तस्य कर्तुं तदा विभो ॥ १२.२०८.२६ ॥

达那婆的诸王,身躯庞大,因巨大的勇力与力量而自负,当时却无法对它做任何事,哦主宰者。

12.208.27

ततोऽगच्छन्विस्मयं ते दानवेन्द्रा भयं तथा ।
संशयं गतमात्मानं मेनिरे च सहस्रशः ॥ १२.२०८.२७ ॥

于是达那婆的诸王感到惊异与恐惧,成千上万的人认为自己陷入了疑惑之中。

12.208.28

ततो देवाधिदेवः स योगात्मा योगसारथिः ।
योगमास्थाय भगवांस्तदा भरतसत्तम ॥ १२.२०८.२८ ॥

那时,神中之神,以瑜伽为自身、以瑜伽为御者的世尊,依靠于瑜伽,哦婆罗多中最优秀的人。

12.208.29

विननाद महानादं क्षोभयन्दैत्यदानवान् ।
सन्नादिता येन लोकाः सर्वाश्चैव दिशो दश ॥ १२.२०८.२९ ॥

他发出巨大的吼声,使提迪亚与达那婆骚动不安;那吼声使所有世界与十方都回荡起来。

12.208.30

तेन सन्नादशब्देन लोकानां क्षोभ आगमत् ।
संश्रान्ताश्च दिशः सर्वा देवाः शक्रपुरोगमाः ॥ १२.२०८.३० ॥

随着那吼声,世界陷入骚动;所有方位都陷入混乱,以因陀罗为首的诸神也都惊慌失措。

12.208.31

निर्विचेष्टं जगच्चापि बभूवातिभृशं तदा ।
स्थावरं जङ्गमं चैव तेन नादेन मोहितम् ॥ १२.२०८.३१ ॥

那时世界完全静止,那声音使不动者与动者都陷入昏迷。

12.208.32

ततस्ते दानवाः सर्वे तेन नादेन भीषिताः ।
पेतुर्गतासवश्चैव विष्णुतेजः प्रमोहिताः ॥ १२.२०८.३२ ॥

于是所有达那婆被那声音吓住,又为毗湿奴的光辉所迷惑,失去气息倒地。

12.208.33

त्रस्तांश्च देवानालोक्य ब्रह्मा प्राह पितामहः ।
योगेश्वरोऽयं भगवान्वाराहं रूपमास्थितः।
नर्दमानोऽत्र संयाति मा भैष्ट सुरसत्तमाः ॥ १२.२०८.३३ ॥

梵天祖父见诸神惊恐,便说:“这位瑜伽之主、世尊已化作野猪之形,吼叫着来到这里。诸神中的至尊们,不要害怕。”

12.208.34

एवमुक्त्वा ततो ब्रह्मा नमश्चक्रे पितामहः ।
देवता मुनयश्चैव विष्णुं वै मुक्तिहेतवे ॥ १२.२०८.३४ ॥

梵天祖父说完这话,便向毗湿奴顶礼;诸神与仙人也为求解脱而向毗湿奴礼拜。

12.208.35

ततो हरिर्महातेजा ब्रह्माणमभिनन्द्य च ।
रसातलगतश्चापि वराहस्त्रिदशद्विषाम्।
खुरैर्विदारयामास मांसमेदोस्थिसंचयान् ॥ १२.२०८.३५ ॥

于是大光辉的诃梨赞美了梵天;已入地下世界的野猪以蹄踏裂诸神的敌人,使之成为血肉、脂肪与骨骸的堆积。

12.208.36

नादेन तेन महता सनातन इति स्मृतः ।
पद्मनाभो महायोगी भूतात्मा भूतभावनः ॥ १२.२०८.३६ ॥

因那大声,他被称为永恒者;莲花脐者、大瑜伽行者、众生之我、使众生生起者。

12.208.37

ततो देवगणाः सर्वे पितामहमुपाद्रवन् ।
तत्र गत्वा महात्मानमूचुश्चैव जगत्पतिम् ॥ १२.२०८.३७ ॥

于是诸神众皆奔向祖父。到达那里后,他们对伟大的世界之主说道。

12.208.38

नादोऽयं कीदृशो देव नेतं विद्म वयं प्रभो ।
कोसौ हि कस्य वा नादो येन विह्वलितं जगत्।
देवाश्च दानवाश्चैव मोहितास्तस्य तेजसा ॥ १२.२०८.३८ ॥

天神啊,主啊,这是什么样的声音?我们不知道它。它属于谁?世界因谁的声音而震荡?诸神与阿修罗也被它的光辉所迷惑。

12.208.39

एतस्मिन्नन्तरे विष्णुर्वाराहं रूपमास्थितः ।
उदतिष्ठन्महाबाहो स्तूयमानो महर्षिभिः ॥ १२.२०८.३९ ॥

与此同时,毗湿奴取野猪之形而起,大臂者啊,被伟大的仙人们赞颂着。

12.208.40

दिव्यं… युद्धमासीन्महात्मनोः ।
हिरण्याक्षस्य विष्णोश्च सर्वसंक्षोभकारणम् ॥ १२.२०८.४० ॥

两位伟大的存在,金眼与毗湿奴,之间爆发了神圣之战,成为引起普遍震动的原因。

12.208.41

जघान च हिरण्याक्षमन्तर्भूमिगतं हरिः ।
तदाकर्ण्य महातेजा ब्रह्मा मधुरमब्रवीत् ॥ १२.२०८.४१ ॥

哈里杀死了潜入大地深处的金眼。大光辉的梵天听闻此事,温和地说道。

12.208.42

निहत्य दानवपतीन्महावर्ष्मा महाबलः ।
एष देवो महायोगी भूतात्मा भूतभावनः ॥ १२.२०८.४२ ॥

此神身形广大、力量强盛,已杀死了阿修罗之主,他是大瑜伽行者、众生之魂、创造众生者。

12.208.43

सर्वभूतेश्वरो योगी मुनिरात्मा तथाऽऽत्मनः ।
स्थिरीभवत कृष्णोऽयं सर्वविध्नविनाशनः ॥ १२.२०८.४३ ॥

他是一切众生的主宰,瑜伽行者,贤者,也是自我的自我。愿这位克里希那坚定不移,他是摧毁一切障碍者。

12.208.44

कृत्वा कर्मातिसाध्वेतदशक्यममितप्रभः ।
समायातः स्वमात्मानं महाभागो महाद्युतिः ॥ १२.२०८.४४ ॥

他完成了这一极其卓越、常人不可能完成的事业,这位光辉无限者回归了自身;他是大福之人,大光辉者。

12.208.45

पद्मनाभो महायोगी पुराणपुरुषोत्तमः ।
न संतापो न भीः कार्या शोको वा सुरसत्तमैः ॥ १२.२०८.४५ ॥

莲花脐者、大瑜伽行者、古老原人中最殊胜者:诸天中的至尊们啊,不应有煎熬,不应有恐惧,也不应有悲伤。

12.208.46

विधिरेष प्रभावश्च कालः संक्षयकारकः ।
लोकान्धारयता तेन नादो मुक्तो महात्मना ॥ १२.२०८.४६ ॥

这是命运,这是威力,也是招致毁灭的时间;那位支撑诸世界的大灵,放出了那声音。

12.208.47

स एष हि महाबाहुः सर्वलोकनमस्कृतः ।
अच्युतः पुण्डरीकाक्षः सर्वभूतादिरीश्वरः ॥ १२.२०८.४७ ॥

他正是这位大臂者,受一切世界礼敬,不坠者,莲花眼的主宰,一切众生之始。