摩诃婆罗多 · 章 12.209
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.209.1
पितामह महाप्राज्ञ केशवस्य महात्मनः ।
वक्तुमर्हसि तत्त्वेन माहात्म्यं पुनरेव तु ॥ १२.२०९.१ ॥
祖父啊,大智者,您应当再次如实讲述大德者迦沙婆的伟大。
12.209.2
न तृप्याम्यहमप्येनं पश्यञ्शृण्वंश्च भारत ।
एवं कृष्णं महाबाहो तस्मादेतद्ब्रवीहि मे ॥ १२.२०९.२ ॥
婆罗多之后,即便看着他、听着他,我也不曾满足。所以,大臂者啊,请把关于迦沙婆的这些告诉我。
12.209.3
शृणु राजन्कथामेतां वैष्णवीं पापनाशनीम् ।
नारदो मां पुरा प्राह यामहं ते वदामि ताम् ॥ १२.२०९.३ ॥
大王,请听这关于毗湿奴的、能消除罪业的故事。它是从前那罗陀告诉我的,现在我讲给你听。
12.209.4
देवर्षिर्नारदः पूर्वं तत्वं वेत्स्यामि वै हरेः ।
इति संचिन्त्य मनसा दध्यौ ब्रह्म सनातनम् ॥ १२.२०९.४ ॥
天仙那罗陀从前心中思量:“我必定要了知哈里的真实本性。”于是他冥想那永恒的梵。
12.209.5
हिमालये शुभे दिव्ये दिव्यं वर्षशतं किल ।
अनुच्छ्वसन्निराहारः संयतात्मा जितेन्द्रियः ॥ १२.२०९.५ ॥
在吉祥而神圣的喜马拉雅,经过神圣的一百年,屏住呼吸,断食,克制自身,降伏诸根,他修苦行。
12.209.6
ततोऽन्तरिक्षे वागासीत्तं मुनिप्रवरं प्रति ।
मेघगम्भीरनिर्घोषा दिव्या वाह्याऽशरीरिणी ॥ १२.२०९.६ ॥
那时,天空中有一个声音向那位最上的仙人传来——神圣、从外而来、无形体,其深沉如云中雷鸣。
12.209.7
किमर्थं त्वं समापन्नो ध्यानं मुनिवरोत्तम ।
अहं ददामि ते ज्ञानं धर्माद्यं वा वृणीष्व माम् ॥ १२.२०९.७ ॥
最优秀的仙人啊,你为何陷入冥想?我将赐予你智慧;或者,你可向我求取法等任何你所愿的。
12.209.8
तच्छ्रुत्वा मुनिरालोच्य संभ्रमाविष्टमानसः ।
किंनु स्यादिति संचिन्त्य वाक्यमाहापरं प्रति ॥ १२.२०९.८ ॥
仙人听后心中惊慌,思忖道:“这会是什么呢?”便对另一人说出了这番话。
12.209.9
कस्त्वं भवानण्डं बिभेद मध्ये ।
समास्थितो वाक्यमुदीरयन्माम्।
न रूपमन्यत्तव दृश्यते वै ।
ईदृग्विधस्त्वं समधिष्ठितोऽसि ॥ १२.२०९.९ ॥
你是谁,竟从中间劈开了那卵?你立于其中,对我说出这番话,却不见你有别的形相;你正是以这样的形相而立。
12.209.10
पुनस्तमाह स मुनिमनन्तोऽहं बृहत्तरः ।
न मां मूढा विजानन्ति ज्ञानिनो मां विदन्त्युत ॥ १२.२०९.१० ॥
那位仙人又对他说:“我无穷无尽,而且更加广大。愚昧之人不认识我,而智者才认识我。”
12.209.11
तं प्रत्याह मुनिः श्रीमान्प्रणतो विनयान्वितः ।
भवन्तं ज्ञातुमिच्छामि तव तत्वं ब्रवीहि मे ॥ १२.२०९.११ ॥
那位尊贵的仙人谦恭地向他行礼,说道:“我想认识您;请告诉我您的真实本性。”
12.209.12
तस्य तद्वचनं श्रुत्वा नारदं प्राह लोकपः ।
ज्ञानेन मां विजानीहि नान्यथा शक्तिरस्ति ते ॥ १२.२०९.१२ ॥
他听了这番话,世界之主对那罗陀说:“你要以智慧认识我;否则你没有这样的能力。”
12.209.13
कीदृग्विधं तु तज्ज्ञानं येन जानामि ते तनुम् ।
अनन्त तन्मे ब्रूहि त्वं यद्यनुग्रहवानहम् ॥ १२.२०९.१३ ॥
那种知识是什么样的,我借此才能认识你的形相?无尽者啊,若你对我有恩,请告诉我。
12.209.14
विकल्पहीनं विपुलं तस्य चूरं शिवं परम् ।
ज्ञानं तत्तेन जानासि साधनं प्रति ते मुने ॥ १२.२०९.१४ ॥
那种知识无二择、广大、清净、吉祥而至上。牟尼啊,你借它而知晓作为方法的那一者。
12.209.15
अत्रावृत्य स्थितं ह्येतत्तच्छुद्धमितरन्मृषा ।
एतत्ते सर्वमाख्यातं संक्षेपान्मुनिसत्तम ॥ १२.२०९.१५ ॥
此处被遮蔽而住立者即是清净,其余皆为虚妄。众仙中最优者啊,这一切已简要地告诉了你。
12.209.16
त्वमेव तव यत्तत्वं ब्रूहि लोकगुरो मम ।
भवन्तं ज्ञातुमिच्छामि कीदृग्भूतस्त्वमव्यय ॥ १२.२०९.१६ ॥
你自己告诉我你那真实之理吧,世界的导师。不灭者啊,我想知道你是何种形相。
12.209.17
ततः प्रहस्य भगवान्मेघगम्भीरया गिरा ।
प्राहेशः सर्वभूतानां न मे चास्यं श्रुतिर्न च ॥ १२.२०९.१७ ॥
于是世尊微笑,以如云般深沉的声音说道——众生之主说:我没有口,也没有耳。
12.209.18
न घ्राणजिह्वे दृक्चैव त्वचा नास्ति तथा मुने ।
कथं वक्ष्यामि चात्मानमशरीरस्तथाप्यहम् ॥ १२.२०९.१८ ॥
牟尼啊,我没有鼻与舌,也没有眼,亦无皮肤。既然我无身形,我又怎能谈论我自己呢?
12.209.19
तज्ज्ञात्वा विस्मयाविष्टो मुनिराह प्रणम्य तम् ।
येन त्वं पूर्वमात्मानमनन्तोऽहं बृहत्तरः।
शतोऽहमिति मां प्रीतः प्रोक्तवानसि तत्कथम् ॥ १२.२०९.१९ ॥
仙人知晓此事,惊叹不已,向他行礼说:“你先前自称无限而更加广大,又欢喜地称我为‘百’,这是为何?”
12.209.20
पुनस्तमाह भगवांस्तवाप्यक्षाणि सन्ति वै ।
त्वमेनं ब्रूहि चात्मानं यदि शक्नोषि नारद ॥ १२.२०९.२० ॥
世尊又对他说:“你也有诸根。那拿罗陀,如果你能,就说出此事以及你自己的自我。”
12.209.21
आत्मा यथा तव मुने विदितस्तु भविष्यति ।
मां च जानासि तेन त्वमेकं साधनमावयोः।
इत्युक्त्वा भगवान्देवस्ततो नोवाच किंचन ॥ १२.२०९.२१ ॥
“仙人啊,你的自我将如其所被认识的那样被认识。你也认识我;因此这对我们两人是一种方法。”说完这话,世尊便不再说什么。
12.209.22
नारदोऽप्युत्स्मयन्खिन्नः क्व गतोऽसाविति प्रभुः ।
स्थित्वा स दीर्घकालं च मुनिर्व्यामूढमानसः ॥ १२.२०९.२२ ॥
那拿罗陀也一边微笑一边苦恼地想:“那位主去了哪里?”这位仙人站了很久,心中迷惑。
12.209.23
आह मां भगवान्देवस्त्वनन्तोऽहं बृहत्तरः ।
तेनाहमिति सर्वस्य को वानन्तो बृहत्तरः ॥ १२.२०९.२३ ॥
世尊对我说:“我是无限且更加广大的。那么,一切之中的‘我’是谁,或谁是无限且更加广大的?”
12.209.24
केयमुर्वी ह्यनन्ताख्या बृहती नूनमेव सा ।
यस्यां जानन्ति भूतानि विलीनानि ततस्ततः।
एनां पृच्छामि तरुणीं सैषा नूनमुवाच माम् ॥ १२.२०९.२४ ॥
这名为阿难多的大地是什么?她确实广大,众生一次又一次地消融于其中。我问这位少女;正是她确实对我说过。
12.209.25
इत्येवं स मुनिः श्रीमान्कृत्वा निश्चयमात्मनः ।
स भूतलं समाविश्य प्रणिपत्येदमब्रवीत् ॥ १२.२०९.२५ ॥
这位尊贵的仙人如此下定决心,降至大地表面,俯身行礼,说了这些话。
12.209.26
आश्चर्यासि च धन्यासि वृहती त्वं वसुन्धरे ।
त्वामत्र वेत्तुमिच्छामि याग्दृभूताऽसि शोभने ॥ १२.२०९.२६ ॥
啊,婆苏陀罗,你既奇妙又吉祥,你广大无边。啊,美丽者,我想在此知道你是怎样的存在。
12.209.27
तच्छ्रुत्वा धरणी देवी स्मयमानाऽब्रवीदिदम् ।
नाहं हि बृहती विप्र न चानन्ता च सत्तम ॥ १२.२०९.२७ ॥
地母听后微笑说道:婆罗门啊,我并非广大,至善者啊,我也并非无限。
12.209.28
कारणं मम यो गन्धो गन्धात्मानं ब्रवीहि तम् ।
ततो मुनिस्तद्धि तत्वं प्रणिपत्येदमब्रवीत् ॥ १२.२०९.२८ ॥
我的根源是那气味;请告诉我气味的本性。于是仙人领悟了这个真理,俯身行礼,说了这些话。
12.209.29
कारणं मे जलं मत्तो बृहत्तरतमं हि तत् ॥ १२.२०९.२९ ॥
我的根源是水;它比我更加广大。
12.209.30
स समुद्रं मुनिर्गत्वा प्रणिपत्येदमब्रवीत् ।
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः ॥ १२.२०९.३० ॥
这位智者走到大海前,行礼后说道:你是奇妙的,你是有福的,你确实是无穷的,且更加广大。
12.209.31
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्यमव्यय ।
तच्छ्रुत्वा सरितानाथः समुद्रो मुनिमब्रवीत् ॥ १२.२०९.३१ ॥
不朽者啊,我想知道你是什么样的存在。大海,众河之主,听后对这位智者说道。
12.209.32
कारणं मेऽत्र संपृच्छ रसात्मानं बृहत्तरम् ।
ततो बृहत्तरं विद्वंस्त्वं पृच्छ मुनिसत्तम ॥ १२.२०९.३२ ॥
在此询问我的因由,他的本体即是精华,且更加广大。然后,博学者啊,圣者中最优秀的,请去问那更加广大的存在。
12.209.33
ततो मुनिर्यथायोगं जलं तत्वमवेक्ष्य तत् ।
जलात्मानं प्रणम्याह जलतत्वस्थितो मुनिः ॥ १२.२०९.३३ ॥
于是这位智者依次思考水之本质,向以水为自性者行礼后说道;这位智者安住于水之本质。
12.209.34
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः ।
भवन्तं श्रोतुमिच्छामिकीदृग्भूतस्त्वमव्यय ॥ १२.२०९.३४ ॥
你是奇妙的,你是有福的,你确实是无穷的,且更加广大。不朽者啊,我想听你讲述,你是什么样的存在。
12.209.35
ततो रसात्म…मुनिमाह पुनः पुनः ।
ममापि कारणं पृच्छ तेजोरूपं विभावसुम्।
नाहं बृहत्तरो ब्रह्मन्नाप्यनन्तश्च सत्तम् ॥ १२.२०९.३५ ॥
于是以精华为自性者……一再对那位智者说:也请询问我的因由,那以火为形的毗婆娑(火神)。婆罗门啊,众生中最优秀者,我既非更广大,也非无穷。
12.209.36
ततोऽग्निं प्रणिपत्याह मुनिर्विस्मितमानसः ।
यज्ञात्मानं महावासं सर्वभूतनमस्कृतम् ॥ १२.२०९.३६ ॥
于是仙人心怀惊异,向阿耆尼顶礼后说道:您以祭祀为自性,乃大居所,为一切众生所礼敬。
12.209.37
आश्चर्योसि च धन्योसि ह्यनन्तश्च बृहत्तरः ।
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय ॥ १२.२०९.३७ ॥
您奇妙而有福,您无尽且更加伟大。不朽者啊,我想知道您是何种形态的存在。
12.209.38
ततः प्रहस्य भगवान्मुनिं स्विष्टकृदब्रवीत् ।
नाहं बृहत्तरो ब्रह्मन्नाप्यनन्तश्च सत्तम।
कारणं मम रूपं यत्तं पृच्छ मुनिसत्तम ॥ १२.२०९.३८ ॥
于是尊贵的斯维什塔克利特(阿耆尼)笑着对仙人说:婆罗门啊,我既非更伟大,也非无尽,善者中的至上者。请问我形相的原因,仙人中的至上者。
12.209.39
ततो योगक्रमेणैव प्रतीतं तं प्रविश्य सः ।
रूपात्मानं प्रणम्याह नारदो वदतांवरः ॥ १२.२०९.३९ ॥
于是,进入通过瑜伽之道显现的他之中,言辞中最优秀的那罗陀向形相之自性顶礼后说道:
12.209.40
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः ।
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय ॥ १२.२०९.४० ॥
您奇妙而有福,您无尽且更加伟大。不朽者啊,我想知道您是何种形态的存在。
12.209.41
उत्स्मयित्वा तु रूपात्मा तं मुनिं प्रत्युवाच ह ।
वायुर्मे कारणं ब्रह्मंस्तं पृच्छ मुनिसत्तम।
मत्तो बहुतरः श्रीमाननन्तश्च महाविलम् ॥ १२.२०९.४१ ॥
于是形相之自性微笑着对那位仙人说:婆罗门啊,我形相的原因是风神伐由;请问他,仙人中的至上者。比我大得多、光荣而无尽的,是那大虚空。
12.209.42
स मारुतं प्रणम्याह भगवान्मुनिसत्तमः ।
योगसिद्धो महायोगी ज्ञानविज्ञानपारगः ॥ १२.२०९.४२ ॥
这位尊贵的圣者中的最上者向风致敬后说道。他精通瑜伽,是大瑜伽士,已渡过智慧与知识的彼岸。
12.209.43
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः ।
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय ॥ १२.२०९.४३ ॥
你令人惊叹,受人祝福,确实无限,比伟大者更伟大。不朽者啊,我想知道你是怎样的存在。
12.209.44
ततो वायुर्हि संप्राह नारदं मुनिसत्तमम् ।
कारणं पृच्छ भगवन्स्पर्शात्मानं ममाद्य वै ॥ १२.२०९.४४ ॥
于是风对圣者中的最上者那罗陀说:尊贵者啊,今日请问我的原因,因为我的本性是触觉。
12.209.45
मत्तो बृहत्तरः श्रीमाननन्तश्च तथैव सः ।
ततोस्य वचनं श्रुत्वा स्पर्शात्मानमुवाच सः ॥ १२.२०९.४५ ॥
比我更伟大、更尊贵、也是无限的,正是他。于是他听了这话,便对触觉之本性者说话。
12.209.46
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः ।
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय ॥ १२.२०९.४६ ॥
你令人惊叹,受人祝福,确实无限,比伟大者更伟大。不朽者啊,我想知道你是怎样的存在。
12.209.47
तस्य तद्वचनं श्रुत्वा स्पर्शात्मा मुनिमब्रवीत् ।
नाहं वृहत्तरो ब्रह्मन्नाप्यनन्तश्च सत्तम ॥ १२.२०९.४७ ॥
他听了这话,触觉之本性者对圣者说:婆罗门啊,人中最上者啊,我既不比伟大者更伟大,也不是无限的。
12.209.48
कारणं मम चैवेममाकाशं च बृहत्तरम् ।
तं पृच्छ मुनिशार्दूल सर्वव्यापिनमव्ययम् ॥ १२.२०९.४८ ॥
我与这虚空的因更为伟大。哦,圣者中的猛虎,请问那遍在不灭者。
12.209.49
तच्छ्रुत्वा नारदः श्रीमान्वाक्यं वाक्यविशारदः ।
आकाशं समुपागम्य प्रणम्याह कृताञ्जलिः ॥ १२.२०९.४९ ॥
那善于言辞的尊贵的那罗陀听后,走近虚空,行礼,合掌说道:
12.209.50
आश्चर्योसि न धन्योसि ह्यनन्तोसि बृहत्तरः ।
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय ॥ १२.२०९.५० ॥
你令人惊异,却非有福;你无穷,且更为伟大。不灭者啊,我想知道你是怎样的存在。
12.209.51
आकाशस्तमुवाचेदं प्रहसन्मुनिसत्तमम् ।
नाहं बृहत्तरो ब्रह्मञ्शब्दो वै कारणं मम।
तं पृच्छ मुनिशार्दूल स वै मत्तो बृहत्तरः ॥ १२.२०९.५१ ॥
虚空笑着对那位圣者中的最优者说:"婆罗门啊,我并非最伟大者;声音才是我的因。圣者中的猛虎啊,去问他吧;他比我更伟大。"
12.209.52
ततो ह्याविश्य चाकाशं शब्दात्मानमुवाच ह ।
स्वरव्यञ्जनसंयुक्तं नानाहेतुविभूषितम्।
वेदाख्यं परमं गुह्यं वेदकारणमच्युतम् ॥ १२.२०९.५२ ॥
随后,他进入虚空,对声音之我说道:"与元音和辅音相连,以种种理由庄严,名为吠陀的至上秘密,吠陀之因,不坏者。"
12.209.53
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः ।
भवन्तं श्रोतुमिच्छामि कीदृग्भूतस्त्वमव्यय ॥ १२.२०९.५३ ॥
你令人惊异且有福;你无穷,且更为伟大。不灭者啊,我想听听你是怎样的存在。
12.209.54
वेदात्मा प्रत्युवाचेदं नारदं मुनिपुङ्गवम् ।
मया कारणभूतेन सर्ववेत्ता पितामहः ॥ १२.२०९.५४ ॥
吠陀之我对最优秀的仙人那罗陀这样回答:“作为因的我,就是无所不知的祖父。”
12.209.55
ब्रह्मणो बुद्धिसंस्थानमास्थितोऽहं महामुने ।
तस्माद्वृहत्तरो मत्तः पद्मयोनिर्महामतिः।
तं पृच्छ मुनिशार्दूल सर्वकारणकारणम् ॥ १२.२०९.५५ ॥
大仙啊,我安住于梵天的智慧之中;因此,莲花所生、大智的梵天比我更伟大。仙人中的猛虎啊,去问他吧,那是一切因之因。
12.209.56
ब्रह्मलोकं ततो गत्वा नारदो मुनिपुङ्गवैः ।
सेव्यमानं महात्मानं लोकपालैर्मरुद्गणैः ॥ १२.२०९.५६ ॥
随后,那罗陀前往梵天世界,在那里看见伟大的灵魂受到最优秀的仙人、世界护持者和风神群的侍奉。
12.209.57
समुद्रैश्च सरिद्भिश्च भूततत्वैः सभूधरैः ।
गन्धर्वैरप्सरोभिश्च ज्योतिषां च गणैस्तथा ॥ १२.२०९.५७ ॥
他也受到海洋、河流、诸元素与山岳、乾闼婆、阿普萨拉斯以及星辰群的侍奉。
12.209.58
स्तुतिस्तोमग्रहस्तोभैस्तथा वेदैर्मुनीश्वरैः ।
उपास्यमानं ब्रह्माणं लोकनाथं परात्परम् ॥ १२.२०९.५८ ॥
梵天,以赞歌与执取颂声受到敬拜,由吠陀与仙人之主所供奉,世界之主,超越至上者。
12.209.59
हिरण्यगर्भं विश्वेशं चतुर्वक्रेण भूषितम् ।
प्रणम्य प्राञ्जलिः प्रह्वस्तमाह मुनिपुङ्गवः ॥ १२.२०९.५९ ॥
这位最优秀的仙人向金胎、宇宙之主、以四面庄严的梵天顶礼,合掌恭敬地对他说道。
12.209.60
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः ।
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय ॥ १२.२०९.६० ॥
你令人惊叹,你受祝福,你确实无穷且最为伟大。不灭者啊,我想知道你是怎样的存在。
12.209.61
तच्छ्रुत्वा भगवान्ब्रह्मा सर्वलोकपितामहः ।
उत्स्मयन्मुनिमाहेदं कर्ममूलस्य लोपकम् ॥ १२.२०९.६१ ॥
婆罗门(梵天)——万世之祖,闻言微笑,向仙人说出了这番能断除业根的话。
12.209.62
नाहं बृहत्तरो ब्रह्मन्नाप्यनन्तश्च सत्तम ।
लोकानां मम सर्वेषां नाथभूतो बृहत्तरः ॥ १२.२०९.६२ ॥
婆罗门啊,我既非至大,也非无限,善人中的最上者啊。最伟大者,是作为我及一切世界之主的那一位。
12.209.63
नन्दगोपकुले गोपकुमारैः परिवारितः ।
समस्तजगतां गोप्ता गोपवेषेण संस्थितः ॥ १२.२०९.६३ ॥
他在牧人难陀的家族中,被牧童环绕,以牧人之形现身,乃是一切世界的守护者。
12.209.64
मद्रूपं च समास्थाय जगत्सृष्टिं करोति सः ।
ऐशानमास्थितः श्रीमान्हन्ति नित्यं हि पाति च ॥ १२.२०९.६४ ॥
他取我的形相而创造世界;取自在天的形相,那尊荣者常常毁灭,也常常护持。
12.209.65
विष्णुः स्वरूपरूपोऽसौ कारणं स हरिर्मम ।
तं पृच्छ मुनिशार्दूल स चानन्तो बृहत्तरः ॥ १२.२०९.६५ ॥
毗湿奴以自身本性为形相,那位哈里便是我的根源。仙人中的猛虎啊,请问他吧;他即是无限而至大者。
12.209.66
ततोऽवतीर्य भगवान्ब्रह्मलोकान्महामुनिः ।
नन्दगोपकुले विष्णुमेनं कृष्णं जगत्पतिम् ॥ १२.२०९.६६ ॥
于是,从梵天界下降的世尊大仙,在难陀牧人的家族中见到了这位毗湿奴、世界之主黑天。
12.209.67
बालक्रीडनकासक्तं वत्सजालविभूषितम् ।
पाययित्वाथ बध्नन्तं धूलिधूम्राननं परम् ॥ १२.२०९.६७ ॥
沉迷于孩童游戏,被一群小牛装饰着,先让它们饮水然后捆绑,面容被尘土染得暗淡的至上者(他看见了)。
12.209.68
गाहमानैर्हसद्भिश्च नृत्यद्भिश्च समन्ततः ।
पाणिवादनकैश्चैव संवृतं वेणुवादकैः ॥ १२.२०९.६८ ॥
四周围绕着在水中嬉戏、欢笑、舞蹈、拍手和吹笛的人们。
12.209.69
प्रणिपत्याब्रवीदेनं नारदो भगवान्मुनिः ।
आश्चर्योसि च धन्योसि ह्यनन्तश्च बृहत्तरः।
वेत्ताऽसि चाव्ययश्चासि वेत्तुमिच्छामि यादृशम् ॥ १२.२०९.६९ ॥
那尊贵的仙人那罗陀顶礼后对他说:"你令人惊叹,你有福;你无穷无尽,最为广大。你是知者,你不灭;我想知道你究竟是怎样的。"
12.209.70
ततः प्रहस्य भगवान्नारदं प्रत्युवाच ह ।
मत्तः परतरं नास्ति मत्तः सर्वं प्रतिष्ठितम् ॥ १२.२०९.७० ॥
于是世尊微笑着回答那罗陀说:"没有比我更高的;一切都依我而建立。"
12.209.71
मतो बृहत्तरं नान्यदहमेव बृहत्तरः ।
आकाशे च स्थितः पूर्वमुक्तवानहमेव ते ॥ १२.२०९.७१ ॥
没有比我更大的;唯我是最大的。之前我站在天空中,正是我亲自对你说过这些。
12.209.72
न मां वेत्ति जनः कश्चिन्माया मम दुरत्यया ।
भक्त्या त्वनन्यया युक्ता मां विजानन्ति योगिनः ॥ १२.२०९.७२ ॥
無人真正認識我;我的幻力難以超越。但以專一的虔信與我相合的瑜伽者,能夠認識我。
12.209.73
प्रियोसि मम भक्तोसि मम तत्वं विलोकय ।
ददामि तव तज्ज्ञानं येन तत्वं प्रपश्यसि ॥ १२.२०९.७३ ॥
你是我所愛的,是我的信徒;請觀察我的真實本性。我將賜你那智慧,使你清楚地見到真理。
12.209.74
अन्येषां चैव भक्तानां मम योगरतात्मनाम् ।
ददामि दिव्यं ज्ञानं च येन तत्वं प्रपश्यसि ॥ १२.२०९.७४ ॥
對於其他以我的瑜伽為樂、心意投入的信徒,我也賜予神聖的智慧,使你見到真理。
12.209.75
अन्येषां चैव भक्तानां मम योगरतात्मनाम् ।
ददामि दिव्यं ज्ञानं च तेन ते यान्ति मत्पदम् ॥ १२.२०९.७५ ॥
對於其他以我的瑜伽為樂、心意投入的信徒,我也賜予神聖的智慧;藉此他們便到達我的居所。
12.209.76
एवमुक्त्वा ययौ कृष्णो नन्दगोपगृहं हरिः ॥ १२.२०९.७६ ॥
如此說完,哈里克里希那前往牧者難陀的家。
12.209.77
एतत्ते कथितं राजन्विष्णुतत्वमनुत्तमम् ।
भजस्वैनं विशालाक्षं जपन्कृष्णेति सत्तम ॥ १२.२०९.७७ ॥
國王啊,這至上的毗濕奴真理已經為你說明。善人中最優秀者啊,請以誦念克里希那之名,敬拜那大眼之主。
12.209.78
मोहयन्मां तथा त्वां च शृणोत्येष मयेरितान् ।
धर्मात्मा च महाबाहो भक्तान्रक्षति नान्यथा ॥ १२.२०९.७८ ॥
他既使我迷惑,也使你迷惑,聆听我所说的言语。大臂者啊,他是心怀正法之人,庇护他的信徒,绝非他样。