摩诃婆罗多 · 章 12.223
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.223.1
किं कारणं महाप्राज्ञ दह्यमानश्च मैथिलः ।
मिथिलां नेह धर्मात्मा प्राह वीक्ष्य विदाहिताम् ॥ १२.२२३.१ ॥
大智者啊,米提拉在燃烧,正直的弥提罗王见此为何在此一言不发?其原因是什么?
12.223.2
श्रृयतां नृपशार्दूल यदर्थं दीपिता पुरा ।
वह्निना दीपिता सा तु तन्मे शृणु महामते ॥ १२.२२३.२ ॥
听着吧,王中之虎!大智者啊,请听我讲,那座城市曾经被火焚烧的原因。
12.223.3
जनको जनदेवस्तु कर्माण्याध्याय चात्मनि ।
सर्वभावमनुप्राप्य भावेन विचचार सः ॥ १२.२२३.३ ॥
人之神祇遮那迦,研习诸业,安住于自我,证得一切境界,以内心之定而行走于世。
12.223.4
यजन्ददंस्तथा जुह्वन्पालयन्पृथिवीमिमाम् ।
अध्यात्मविन्महाप्राज्ञस्तन्मयत्वेन निष्ठितः ॥ १२.२२३.४ ॥
祭祀、布施、献供,守护此地,遮那迦这位通晓自我的大智者,沉浸于此而安住。
12.223.5
स तस्य हृदि संकल्पं ज्ञातुमैच्छत्स्वयं प्रभुः ।
सर्वलोकाधिपस्तत्र द्विजरूपेण संयुतः ॥ १२.२२३.५ ॥
那位主宰,诸世界之主,亲自想要知道他心中的决意;他便化作婆罗门之形而现身于彼处。
12.223.6
मिथिलायां महाबुद्धिर्व्यलीकं किंचिदाचरन् ।
स गृहीत्वा द्विजश्रेष्ठैर्नृपाय प्रतिवेदितः ॥ १२.२२३.६ ॥
在米提拉,一位大智之人做了某种不当之事;被最优秀的婆罗门擒获后,此事被报告给了国王。
12.223.7
अपराधं समुद्दिश्य तं राजा प्रत्यभाषत ।
न त्वां ब्राह्मण दण्डेन नियोक्ष्यामि कथंचन ॥ १२.२२३.७ ॥
国王指着那个过错对他说:婆罗门啊,我绝不会以任何方式惩罚你。
12.223.8
मम राज्याद्विनिर्गच्छ यावत्सीमा भुवो मम ।
तच्छ्रुत्वा ब्राह्मणो गत्वा राजानं प्रत्युवाच ह ॥ १२.२२३.८ ॥
离开我的王国,直到我土地的边界。婆罗门听到这话,便去见国王并回答道。
12.223.9
करिष्ये वचनं राजन्ब्रवीहि मम जानतः ।
का सीमा तव भूमेस्तु ब्रूहि धर्मं ममाद्य वै ॥ १२.२२३.९ ॥
国王啊,我将遵从你的话;请告诉我,你所知的,你土地的边界在哪里。今天请告诉我我的职责。
12.223.10
तच्छ्रुत्वा मैथिलो राजा लज्जयावनताननः ।
नोवाच वचनं विप्रं तत्वबुद्ध्या समीक्ष्य तत् ॥ १२.२२३.१० ॥
米提拉国王听后羞愧地低下了脸,以明辨的智慧思量,却没有回答婆罗门一句话。
12.223.11
पुनःपुनश्च तं विप्रश्चोदयामास सत्वरम् ।
ब्रूहि राजेन्द्र गच्छामि तव राज्या द्विवासितः ॥ १२.२२३.११ ॥
婆罗门一再急切地催促他:国王之主啊,请说;我将离去,第二次被逐出你的王国。
12.223.12
ततो नृपो विचार्यैवमाह ब्राह्मणपुङ्गवम् ।
आवासो वा न मेऽस्त्यत्र सर्वा वा पृथिवी मम।
गच्छ वा तिष्ठ वा ब्रह्मन्निति मे निश्चिता मतिः ॥ १२.२२३.१२ ॥
于是国王思量后对那位最优秀的婆罗门说:我在这里没有住所,或者说整个大地都是我的。婆罗门啊,去或留随你——这是我坚定的决定。
12.223.13
इत्युक्तः स तथा तेन मैथिलेन द्विजोत्तमः ।
अब्रवीत्तं महात्मानं राजानं मन्त्रिभिर्वृतम् ॥ १२.२२३.१३ ॥
被这位弥提罗王如此称呼后,那位最优秀的婆罗门对被大臣们簇拥的这位大德之王说道。
12.223.14
त्वमेवं पद्मनाभस्य नित्यं पक्षपदाहितः ।
अहो सिद्धार्थरूपोऽसि गमिष्ये स्वस्ति तेऽस्तु वै ॥ १२.२२३.१४ ॥
你总是这样站在莲花脐者(毗湿奴)一边。啊,你有成就目标之相。我将离去;愿你平安吉祥。
12.223.15
इत्युक्त्वा प्रययौ विप्रस्तज्जिज्ञासुर्द्विजोत्तमान् ।
अदहच्चाग्निना तस्य मिथिलां भगवान्स्वयम् ॥ १२.२२३.१५ ॥
说完这些,那位婆罗门便离去,想要向最优秀的再生者打听此事;而那位世尊自己用火焚烧了弥提罗城。
12.223.16
प्रदीप्यमानां मिथिलां दृष्ट्वा राजा न कम्पितः ।
जनैः स परिपृष्टस्तु वाक्यमेतदुवाच ह ॥ १२.२२३.१६ ॥
看到弥提罗城燃烧,国王没有颤抖。众人问他时,他说出了这些话。
12.223.17
अनन्तं वत मे वित्तं भाव्यं मे नास्ति किंचन ।
मिथिलायां प्रदीप्तायां न मे किंचन दह्यते ॥ १२.२२३.१७ ॥
哎呀,我的财富无穷无尽;我并没有真正属于自己、可以失去的东西。弥提罗城燃烧时,我的任何东西都不会被烧毁。
12.223.18
तदस्य भाषमाणस्य श्रुत्वा श्रुत्वा हृदि स्थितम् ।
पुनः संजीवयामास मिथिलां तां द्विजोत्तमः ॥ १२.२२३.१८ ॥
他一遍又一遍地听着他所说的话,那些藏在心中的话,那位最优秀的再生者再次使弥提罗城复活。
12.223.19
आत्मानं दर्शयामास वरं चास्नै दद्रौ पुनः ।
धर्मे तिष्ठस्व सद्भावो बुद्धिस्तेऽर्थे नराधिप ॥ १२.२२३.१९ ॥
他显现自身,又一次赐予他一个恩惠。人主啊,安住于法;愿你的善意与智慧都专注于那个目标。
12.223.20
सत्ये तिष्ठस्व निर्विण्णः स्वस्ति तेऽस्तु व्रजाम्यहम् ।
इत्युक्त्वा भगवांश्चैनं तत्रैवान्तरधीयत।
एतत्ते कथितं राजन्किं भूयः श्रोतुमिच्छसि ॥ १२.२२३.२० ॥
安住于真实,保持超脱;愿你平安,我现在要走了。说完这话,世尊便就地隐没了。大王啊,这些已经讲给你听了;你还想再听什么?