摩诃婆罗多 · 章 12.232
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.232.1
शतक्रतुरथापश्यद्बलेर्दीप्तां महात्मनः ।
स्वरूपिणीं शरीराद्धि निष्क्रामन्तीं तदा श्रियम् ॥ १२.२३२.१ ॥
那时,百祭之主因陀罗看见光辉的吉祥天女以可见之身从伟大的钵利身体中走出。
12.232.2
तां दृष्ट्वा प्रभया दीप्तां भगवान्पाककशासनः ।
विस्मयोत्फुल्लनयनो बलिं पप्रच्छ वासवः ॥ १२.२३२.२ ॥
看见她因光辉而闪耀,尊贵的因陀罗(帕卡的征服者)因惊奇而睁大双眼,问钵利。
12.232.3
बले केयमपक्रान्ता रोचमाना शिखण्डिनी ।
त्वत्तः स्थिता सकेयूरा दीप्यमाना स्वतेजसा ॥ १२.२३२.३ ॥
钵利啊,这位佩戴臂钏、闪耀着自身光辉、已离你而去并站立的戴冠女子是谁?
12.232.4
न हीमामासुरीं वेद्मि न दैवीं च न मानुषीम् ।
त्वमेनां पृच्छ वा मा वा यथेष्टं कुरु वासव ॥ १२.२३२.४ ॥
我不知道她是阿修罗的、天神的还是人类的。你问她或不问她,婆薮啊,随你所愿而行。
12.232.5
का त्वं बलेरपक्रान्ता रोचमाना शिखण्डिनी ।
अजानतो ममाचक्ष्व नामधेयं शुचिस्मिते ॥ १२.२३२.५ ॥
你是谁,离开钵利而闪耀的戴冠女子?纯净笑容的你,请告诉我你的名字,因为我不知道。
12.232.6
का त्वं तिष्ठसि मामेवं दीप्यमाना स्वतेजसा ।
हित्वा दैत्यवरं सुभ्रु तन्ममाचक्ष्व पृच्छतः ॥ १२.२३२.६ ॥
美眉的女子啊,你离开了最优秀的檀那婆,如此站在我面前,以自身光辉闪耀,你是谁?请告诉问你的我。
12.232.7
न मां विरोचनो वेद नायं वैरोचनो बलिः ।
आहुर्मां दुःसहेत्येवं विधित्सेति च मां विदुः ॥ १२.२३२.७ ॥
毗卢遮那不认识我,这位毗卢遮那之子钵利也不认识我。人们称我为“难忍者”,也称我为“安排之欲”。
12.232.8
भूतिर्लक्ष्मीति मामाहुः श्रीरित्येव च वासव ।
त्वं मां शक्र न जानीषे सर्वे देवा न मां विदुः ॥ १२.२३२.८ ॥
人们称我为吉祥、吉祥天女,也称我为“室利”。哦,婆薮,哦,帝释天,你不认识我;诸神也不认识我。
12.232.9
किमिदं त्वं मम कृते उताहो बलिनः कृते ।
दुःसहे विजहास्येनं चिरसंवासिनी सती ॥ १२.२३२.९ ॥
哦,难忍者,这是什么?你这样做是为了我,还是为了钵利?你是长久与他相伴的贞洁女子,却要抛弃他。
12.232.10
नो धाता न विधाता मां विदधाति कथंचन ।
कालस्तु शक्र पर्यागान्मैवं शक्रावमन्यथाः ॥ १२.२३२.१० ॥
创造者和安排者都不以任何方式安排我。哦,帝释天,只是时间已经流逝;哦,帝释天,不要这样轻视我。
12.232.11
कथं त्वया बलिस्त्यक्तः किमर्थं वा शिखण्डिनि ।
कथं च मां न जह्यास्त्वं तन्मे ब्रूहि शुचिस्मिते ॥ १२.२३२.११ ॥
哦,戴冠者,你为何、如何舍弃了钵利?你又为何不舍弃我?哦,笑容纯洁者,请把这告诉我。
12.232.12
सत्ये स्थिताऽस्मि दाने च व्रते तपसि चैव हि ।
पराक्रमे च धर्मे च पराचीनस्ततो बलिः ॥ १२.२३२.१२ ॥
我安住于真实、布施、誓戒与苦行之中,也安住于勇武与法之中;因此钵利已经背离了它们。
12.232.13
ब्रह्मण्योऽयं पुरा भूत्वा सत्यवादी जितेन्द्रियः ।
अभ्यसूयन्ब्राह्मणान्वै उच्छिष्टश्चास्पृशद्धृतम् ॥ १२.२३२.१३ ॥
他从前敬重婆罗门,诚实守信,克制自己的感官;后来却嫉妒婆罗门,身上沾着残食,仍去触碰了酥油。
12.232.14
यज्ञशीलः सदा भूत्वा मामेव यजते स्वयम् ।
ततः प्रहाय मूढात्मा कालेनोपनिपीडितः ॥ १२.२३२.१४ ॥
他一直热衷祭祀,亲自供奉我;后来心志迷惑,被时间所逼迫,便离弃了我。
12.232.15
अपक्रान्ता ततः शक्र त्वयि वत्स्यामि वासव ।
अप्रमत्तेन धार्याऽस्मि तपसा विक्रमेण च ॥ १२.२३२.१५ ॥
于是我离去了;啊,帝释,啊,婆娑婆,我将住在你之中。我由警觉的人凭苦行和勇力所守持。
12.232.16
कोऽस्ति देवमनुष्येषु सर्वभूतेषु वा पुमान् ।
यस्त्वामेको विषहितुं शक्नुयात्कमलालये ॥ १२.२३२.१६ ॥
在天神和人类之中,或在一切众生之中,有哪位男子能独自承受你,啊,莲花之居者?
12.232.17
नैव देवो न गन्धर्वो नासुरो नं च न्राक्षसः ।
यो मामेको विषहितुं शक्तः कश्चित्पुरंदर ॥ १२.२३२.१७ ॥
无论天神、乾闼婆、阿修罗还是罗刹,啊,补兰达罗,都没有谁能独自承受我。
12.232.18
तिष्ठेथा मयि नित्यं त्वं यथा तद्ब्रूहि मे शुभे ।
तत्करिष्यामि ते वाक्यमृतं तद्वक्तुमर्हसि ॥ १२.२३२.१८ ॥
你应永远住在我之中;啊,吉祥者,请告诉我如何才能做到。我将依你的话而行;你应当说出那真实之言。
12.232.19
स्थास्यामि नित्यं देवेन्द्र यथा त्वयि निबोध तत् ।
विधिना वेददृष्टेन चतुर्धा विभजस्व माम् ॥ १२.२३२.१९ ॥
神王啊,我将永远与你同在;你要明白。请依吠陀所规定的方法把我分为四份。
12.232.20
अहं वै त्वां निधास्यामि यथाशक्ति यथाबलम् ।
न तु मेऽतिक्रमः स्याद्वै सदा लक्ष्मि तवान्तिके ॥ १२.२३२.२० ॥
我将依我的能力与力量安置你;但是,吉祥天女啊,只要你在我身边,我绝不可有违背。
12.232.21
भूमिरेव मनुष्येषु धारिणी भूतभाविनी ।
सा ते पादं तितिक्षेत समर्था हीति मे मतिः ॥ १२.२३२.२१ ॥
在人类中,唯有大地能承载万物,也是一切众生的根源。她能承受你的脚,因为她有能力,这是我的看法。
12.232.22
एष मे निहितः पादो योऽयं भूमौ प्रतिष्ठितः ।
द्वितीयं शक्र पादं मे तस्मात्सुनिहितं कुरु ॥ १२.२३२.२२ ॥
我的这只脚已踏在大地上,已经安放好了。因此,帝释啊,请把我的第二只脚也安放妥当。
12.232.23
आप एव मनुष्येषु द्रवन्त्यः परिधारणे ।
तास्ते पादं तितिक्षन्तामलमापस्तितिक्षितुम् ॥ १२.२३२.२३ ॥
在人类中,流动而承载的是水。愿它们承受你的脚;水本身就足以承受。
12.232.24
एष मे निहितः पादो योऽयमप्सु प्रतिष्ठितः ।
तृतीयं शक्र पादं मे तस्मात्सुनिहितं कुरु ॥ १२.२३२.२४ ॥
我的这只脚已踏在水中,已经安放好了。因此,帝释啊,请把我的第三只脚也安放妥当。
12.232.25
यस्मिन्वेदाश्च यज्ञाश्च यस्मिन्देवाः प्रतिष्ठिताः ।
तृतीयं पादमग्निस्ते सुधृतं धारयिष्यति ॥ १२.२३२.२५ ॥
吠陀、祭祀与诸神所安立之处,火将牢牢承载你的第三足。
12.232.26
एष मे निहितः पादो योऽयमग्नौ प्रतिष्ठितः ।
चतुर्थं शक्र पादं मे तस्मात्सुनिहितं कुरु ॥ १२.२३२.२६ ॥
此乃我的足,安立于火中。故,帝释啊,请将我的第四足安稳放置。
12.232.27
ये वै सन्तो मनुष्येषु ब्रह्मण्याः सत्यवादिनः ।
तेते पादं तितिक्षन्तामलं सन्तस्तितिक्षितुम् ॥ १२.२३२.२७ ॥
人间那些敬重婆罗门、言语真实的善人,愿他们承受那一足;善人足以承受。
12.232.28
एष मे निहितः पादो योऽयं सत्सु प्रतिष्ठितः ।
एवं हि निहितां शक्र भूतेषु परिधत्स्व माम् ॥ १२.२३२.२८ ॥
此乃我的足,安立于善人之中。如是,帝释啊,将已安置的我托付于众生之中。
12.232.29
भूमिशुद्धिं ततः कृत्वा अद्भिः संतर्पयन्ति ये ।
भूतानि च यजन्त्यग्नौ तेषां त्वमनपायिनी ॥ १२.२३२.२९ ॥
之后,那些净化土地、以水令众生欢悦、并在火中祭祀众生的人,对他们你将永不离弃。
12.232.30
ये क्रियाभिः सुरक्ताभिर्हेतुयुक्ताः समाहिताः ।
ज्ञानवन्तो विवत्सायां लब्धा माद्यन्ति योगिनः ॥ १२.२३२.३० ॥
那些以善行之仪轨而具足理性、心意专注、具有智慧的瑜伽行者,获得之后便欢喜。
12.232.31
भूतानामिह यो वै त्वां मया विनिहितां सतीम् ।
उपहन्यात्स मे द्वेष्यस्तथा शृण्वन्तु मे वचः ॥ १२.२३२.३१ ॥
此间众生中,若有人伤害我所安置的你这贞洁者,他便是我所憎恶的。愿他们都听我的话。
12.232.32
तथेति चोक्त्वा सा भ्रष्टा सर्वलोकनमस्कृता ।
वासवं पालयामास सा देवी कमलालया ॥ १२.२३२.३२ ॥
她说“好吧”,她被一切世界所敬拜,虽已失位,这位居于莲花的女神仍护佑着婆娑(因陀罗)。
12.232.33
ततस्त्यक्तः श्रिया राजा दैत्यानां बलिरब्रवीत् ॥ १२.२३२.३३ ॥
于是,被吉祥天女所舍弃的提婆之王毗卢遮那(钵利)说道。
12.232.34
यावत्पुरस्तात्प्रतपेत्तावद्वै दक्षिणां दिशम् ।
पश्चिमां तावदेवापि तथोदीचीं दिवाकरः ॥ १२.२३२.३४ ॥
太阳在东方照耀多久,便同样在南方照耀;西方、北方也是如此。
12.232.35
तथा मध्यंदिने सूर्यो नास्तमेति यदा तदा ।
पुनर्देवासुरं युद्धं भावि जेताऽस्मि वस्तदा ॥ १२.२३२.३५ ॥
同样,当正午太阳不落之时,便会再有天神与阿修罗之战,那时我将胜过你们。
12.232.36
सर्वलोकान्यदाऽऽदित्यो मध्यस्थस्तापयिष्यति ।
तदा देवासुरे युद्धे जेताऽहं त्वां शतक्रतो ॥ १२.२३२.३६ ॥
当太阳居于中天、炙烤一切世界之时,那时在天神与阿修罗的战斗中,啊百祭(因陀罗),我将胜过你。
12.232.37
ब्रह्मणाऽस्मि समादिष्टो न हन्तव्यो भवानिति ।
तेन तेऽहं बले वज्रं न विमुञ्जामि मूर्धनि ॥ १२.२३२.३७ ॥
梵天命令我不可杀你,因此我不会以力量将金刚杵落在你的头上。
12.232.38
यथेष्टं गच्छ दैत्येन्द्र स्वस्ति तेऽस्तु महासुर ॥ १२.२३२.३८ ॥
随你所愿而去吧,达提之主;愿你平安,大阿修罗。
12.232.39
आदित्यो नैव तपिता कदाचिन्मध्यतः स्थितः ।
स्थापितो ह्यस्य समयः पूर्वमेव स्वयंभुवा ॥ १२.२३२.३९ ॥
太阳从未停在中央而灼烧;它的时限早已由自生者(梵天)所定。
12.232.40
अजस्रं परियात्येष सत्येनावतपन्प्रजाः ।
अयनं तस्य षण्मासा उत्तरं दक्षिणं तथा।
येन संयाति लोकेषु शीतोष्णे विसृजन्रविः ॥ १२.२३२.४० ॥
此日不停运行,以真实之力温暖众生;其行程六月向北,六月向南。它借此穿行于诸世界,播洒寒与热。
12.232.41
एवमुक्तस्तु दैत्येन्द्रो बलिरिन्द्रेण भारत ।
जगाम दक्षिणामाशामुदीचीं तु पुरंदरः ॥ १२.२३२.४१ ॥
因因陀罗如此说,婆罗多啊,达提之主伯利向南方而去,而富兰陀罗则向北方而去。
12.232.42
इत्येतद्बलिना गीतमनहंकारसंज्ञितम् ।
वाक्यं श्रुत्वा सहस्राक्षः स्वमेवारुरुहे तदा ॥ १२.२३२.४२ ॥
千眼因陀罗听到伯利所说这番名为“无我慢”的话语后,便回到了自己的座位上。