摩诃婆罗多 · 章 12.236
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.236.1
किंशीलः किंसमाचारः किंविद्यः किंपराक्रमः ।
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥ १२.२३६.१ ॥
具有怎样的品行、怎样的操守、怎样的学问与怎样的勇力之人,才能达到超越自性、永恒的梵的至高之处?
12.236.2
मोक्षधर्मेषु नियतो लध्वाहारो जितेन्द्रियः ।
प्राप्नोति ब्रह्मणः स्थानं तत्परं प्रकृतेर्ध्रुवम् ॥ १२.२३६.२ ॥
在解脱法中坚定不移、少食、克制诸根之人,能达到超越自性、永恒的梵的至高之处。
12.236.3
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
जैगीषव्यस्य संवादमसितस्य च भारत ॥ १२.२३६.३ ॥
此中人们也讲述这古老的故事——耆尸婆耶与阿私多的对话,婆罗多之子啊。
12.236.4
महादेवान्तरे वृत्तं देव्याश्चैवान्तरे तथा ।
यथावच्छृणु राजेन्द्र ज्ञानदं पापनाशनम् ॥ १२.२३६.४ ॥
君王之主啊,请如实听闻大天与天女之间所发生的事;它赐予智慧,消除罪业。
12.236.5
जैगीषव्यं नहाप्रज्ञं धर्नाणामागतागमम् ।
अक्रुध्यन्तमहृष्यन्तमसितो देवलोऽब्रवीत् ॥ १२.२३६.५ ॥
对耆尸婆耶——他并非愚昧,通晓誓戒,不怒不喜——阿私多·提婆罗说道。
12.236.6
न प्रीमसे बन्द्यमानो निन्द्यमानो न कुप्यसे ।
का ते प्रज्ञा कुतश्चैषा किं ते तस्याः परायणम् ॥ १२.२३६.६ ॥
受人赞誉时你不欢喜,受人毁谤时你不愤怒。你的智慧是怎样的?它从何而来?它对你的究竟目标是什么?
12.236.7
इति तेनानुयुक्तः स तमृपाच महातपाः ।
महद्वाक्यप्रसंदिग्धं पुष्कलार्थपदं शुचि ॥ १२.२३६.७ ॥
他如此被询问后,那位大苦行者以深刻而重大的言辞、富有义理而纯净的话语回答了他。
12.236.8
या यतियौ परा निष्ठा या शान्तिः पुण्यकर्मणाम् ।
तां तेऽहं सं प्रवक्ष्यामि यां मां पृच्छसि वै द्विज ॥ १२.२३६.८ ॥
苦行者的至高坚定与行善者的寂静——你所问的,婆罗门啊,我将为你完整地阐述。
12.236.9
निन्वत्सु वा सप्ता नित्यं प्रशंसत्सु च देवल ।
निहवन्ति च ये तेषां समयं सुकृतं च यत् ॥ १२.२३६.९ ॥
提婆罗啊,那些总是处于诽谤者与赞扬者之间,并否认他们的约定与善行的人——
12.236.10
उक्ताश्च न विवक्ष्यन्ति वक्तारमहिते हितम् ।
प्रतिहन्तुं न चेच्छन्ति हन्तारं वै मनीषिणः ॥ १२.२३६.१० ॥
即使有人对他们说话,无论说的是有害还是有益的,他们也不愿回应说话者;智者也不愿以牙还牙,回击打人者。
12.236.11
नाप्राप्तमनुशोचन्ति प्राप्तकालानि कुर्वते ।
न चातीतानि शोचन्ति न चैतान्प्रतिजानते ॥ १२.२३६.११ ॥
对于未得之物,他们不悲叹;时机到来,便去行动。对于已逝之物,他们也不悲叹,也不将这些视为自己所有。
12.236.12
संप्राप्तानां च पूज्यानां कामादर्थेषु देवल ।
यथोपपत्तिं कुर्वन्ति शक्तिमन्तो धृतव्रताः ॥ १२.२३६.१२ ॥
提婆罗啊,对于前来的尊贵者,即便在因欲望而涉及财物之事时,有能力且持守誓戒的人也会依据情理而行。
12.236.13
पक्वविद्या महाप्राज्ञा जितक्रोधा जितेन्द्रियाः ।
मनसा कर्मणा वाचा नापराध्यन्ति कस्यचित् ॥ १२.२३६.१३ ॥
学识成熟、大智慧、战胜愤怒、制服感官的人,无论以心、以行还是以言,都不会冒犯任何人。
12.236.14
अनीर्षवो न चोन्योन्यं विहिंसन्ति कदाचन ।
न च जातूपतप्यन्ते धीराः परसमृद्धिभिः ॥ १२.२३६.१४ ॥
没有嫉妒的人从不彼此伤害;坚定的人也从不因他人的兴盛而烦恼。
12.236.15
निन्दाप्रशंसे चात्यर्थं न वदन्ति परस्य च ।
न च निन्दाप्रशंसाभ्यां विक्रियन्ते कदाचन ॥ १२.२३६.१५ ॥
他们不会过分地非议或赞扬他人,也从不因非议或赞扬而动摇。
12.236.16
सर्वतश्च प्रशान्ता ये सर्वभूतहिते रताः ।
न कुध्यन्ति स हृष्यन्ति नापराध्यन्ति कस्यचित् ॥ १२.२३६.१६ ॥
在各方面都平静、乐于众生利益的人,不愤怒,不喜悦,也不冒犯任何人。
12.236.17
विमुच्य हृदयग्रन्थिं चङ्कम्यन्ते यथासुखम् ।
न चैषां बान्धवाः सन्ति ये चान्येषां च बान्धवाः ॥ १२.२३६.१७ ॥
解开心结后,他们自在地游行;他们没有亲人,也不属于他人的亲人。
12.236.18
अमित्राश्च न सन्त्येषां ये चामित्रा न कस्यचित् ।
य एवं कुर्वते मर्त्याः सुखं जीवन्ति सर्वदा ॥ १२.२३६.१८ ॥
他们没有敌人;对任何人都不是敌人的人,也不是他们的敌人。像这样行事的人,总是幸福地生活。
12.236.19
ये धर्मं चानुरुध्यन्ते धर्मज्ञा द्विजसत्तमाः ।
ये ह्यतो विच्युता मार्गात्ते हृष्यन्त्युद्विजन्ति च ॥ १२.२३६.१९ ॥
那些知法的二生者中的最优者遵循法,而那些偏离此道的人,既欢喜又惶惑。
12.236.20
आस्थितस्तमहं मार्गमसूयिष्यामि कं कथम् ।
निन्द्यमानः प्रशस्तो वा हृष्येयं केन हेतुना ॥ १२.२३६.२० ॥
我立足于此道,该如何、又该责怪谁呢?无论被非议还是被称赞,我又因何而欢喜?
12.236.21
यद्यदिच्छन्ति तत्तस्मादधिगच्छन्ति मानवाः ।
न मे निन्दाप्रशंसाभ्यां ह्रासवृद्धी भविष्यतः ॥ १२.२३६.२१ ॥
人们所欲求的,正是从那里获得。毁誉不会使我有所减损或增长。
12.236.22
अमृतस्येव संतृप्येदवमानस्य तत्त्ववित् ।
विषस्येवोद्विजेन्नित्यं संमानस्य विचक्षणः ॥ १२.२३६.२२ ॥
知真理者应以受辱为甘露而满足,明智者应常视尊敬为毒药而避之。
12.236.23
अवज्ञातः सुखं शेते इह चामुत्र चोभयोः ।
विमुक्तः सर्वपापेभ्यो योऽवमन्ता स बुध्यते ॥ १२.२३६.२३ ॥
受人轻慢者,今生来世皆安然入睡;脱离一切罪恶、能轻慢他人者,方能觉悟。
12.236.24
परां गतिं च ये केचित्प्रार्थयन्ति मनीषिणः ।
एतद्व्रतं समाश्रित्य सुखमेधन्ति ते जनाः ॥ १२.२३६.२४ ॥
凡智者求取至上之境者,依持此誓,便在安乐中增长。
12.236.25
सर्वतश्च समाहृत्य क्रतून्सर्वाञ्जितेन्द्रियः ।
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥ १२.२३६.२५ ॥
若人从各方面汇集一切祭祀,并制伏诸根,便能证得梵的至高之境——超越自性(prakṛti)的恒常境界。
12.236.26
नास्य देवा न गन्धर्वा न पिशाचा न राक्षसाः ।
पदमन्ववरोहन्ति प्राप्तस्य परमां गतिम् ॥ १२.२३६.२६ ॥
无论诸天、乾闼婆、毕舍遮还是罗刹,都无法追随已得最高归宿者的足迹。
12.236.27
एतच्छ्रुत्वा मुनेस्तस्य वचनं देवलस्तथा ।
तदधीनो भवच्छिष्यः सर्वद्वन्द्वविनिष्ठितः ॥ १२.२३६.२७ ॥
德瓦拉闻听此仙人之言,亦成为他的恭顺弟子,安住于超越一切相对的境界中。
12.236.28
अथान्यत्तु पुरावृतं जैगीषव्यस्य धीमतः ।
शृणु राजन्नवहितः सर्वज्ञानसमन्वितः ॥ १२.२३६.२८ ॥
现在,国王啊,你具足一切智慧,请专心听闻智者耆伽什婆耶的另一段往事。
12.236.29
यमाहुः सर्वलोकेशं सर्वलोकनमस्कृतम् ।
अष्टमूर्ति जगन्मूर्तिमिष्टसंधिविभूषितम्
यं प्राप्ता न विषीदन्ति न शोचन्त्युद्विजन्ति च ॥ १२.२३६.२९ ॥
被称为诸世界之主、一切世界所礼敬、具八种形相、以宇宙为形体、以理想的结合为庄严的那一位——得之者不沮丧,不悲伤,也不惊恐。
12.236.30
यस्य स्वाभाविकी शक्तिरिदं विश्वं चराचरम् ।
याति सज्जति सर्वात्मा स देवः परमेश्वरः ॥ १२.२३६.३० ॥
此一切动与不动的世界,凭其自然之力而运行、而相续——那作为一切之自我的神,即是最高主宰。
12.236.31
मेरोरुत्तरपूर्वे तु सर्वरत्नविभूषिते ।
अचिन्त्ये विमले स्थाने सर्वर्तुकुसुमान्विते ॥ १२.२३६.३१ ॥
在须弥山的东北方,装饰着一切宝石,在不可思议的清净之处,充满四季的花朵。
12.236.32
वृक्षैश्च शोभिते नित्यं दिव्यवायुसमीरिते ।
नानाभूतगणैर्युक्तः सर्वदेवनमस्कृतः ॥ १२.२३६.३२ ॥
常被树木装饰,被天上的风吹拂,与众多的生灵之群相伴,受到一切天神的礼敬。
12.236.33
तत्र विद्याधरगणा गन्धर्वाप्सरसां गणाः ।
लोकपालाः समुद्राश्च नद्यः शैलाः सरांसि च ॥ १२.२३६.३३ ॥
那里有持明仙众、乾闼婆与阿普萨拉斯的众群,世界的护卫者、海洋、河流、山岳与湖泊。
12.236.34
ऋषयो वालखिल्याश्च यज्ञाः स्तोभाह्वयास्तथा ।
उपासांचक्रिरे देवं प्रजानां पतयस्तथा ॥ १२.२३६.३४ ॥
诸仙人、婆罗希利亚、祭祀、名为斯托巴者,以及众生之主,都供奉那位天神。
12.236.35
तत्र रुद्रो महादेवो देव्या चैव सहोमया ।
आस्ते वृषध्वजः श्रीमान्सोमसूर्याग्निलोचनः ॥ १२.२३६.३५ ॥
那里住着大天Rudra,与女神Umā同在;他是牛旗者、光耀者,以月、日、火为眼。
12.236.36
तत्रैवं देवमालोक्य देवी धात्री विभावरी ।
उमा देवी परेशानमपृच्छद्विनयान्विता ॥ १२.२३६.३६ ॥
女神乌玛见到天神如此情景,她是养育者,如夜一般,满怀谦逊,向至高主发问。
12.236.37
अर्थः कोऽथार्थशक्तिः का भगवन्ब्रूहि मेऽर्थितः ।
तयैवं परिपृष्टोऽसौ प्राह देवो महेश्वरः ॥ १२.२३६.३७ ॥
何为义(artha),何为义之力量?尊贵的主啊,请告诉我,我恳求您。如此被问之后,大神摩诃提婆说道。
12.236.38
अर्थोऽहमर्थशक्तिस्त्वं भोक्ताऽहं भोज्यमेव च ।
रूपं विद्धि महाभागे प्रकृतिस्त्वं परो ह्यहम् ॥ १२.२३६.३८ ॥
我是义,你是义之力量;我是享受者,享受之物也是我。大福之人啊,应知此为形相:你是原初自性(prakṛti),而我是至上者。
12.236.39
अहं विष्णुरहं ब्रह्मा ह्यहं यज्ञस्तथैव च ।
आवयोर्न च भेदोऽस्ति परमार्थस्ततोऽबले।
तथापि विद्मस्ते भेदं किं मां त्वं परिपृच्छसि ॥ १२.२३६.३९ ॥
我是毗湿奴,我是梵天,我也是祭祀。我们二者之间没有差别,这就是至高真理。然而,柔弱者啊,我们知道你的差别——你为何问我?
12.236.40
एवमुक्ता ततः प्राह ह्यधिकं ह्येतयोर्वद ।
श्रेष्ठं वेद महादेव नम इत्येव भामिनी ॥ १२.२३६.४० ॥
如此被问之后,那光彩照人的女子说:大神啊,请告诉我这二者哪一个更高;我知道什么是最好的——‘敬礼’。
12.236.41
तदन्तरे स्थितो विद्वान्वसुरूपो महामुनिः ।
जैगीषव्यः स्मयन्प्राह ह्यर्थ इत्येव नादयन् ॥ १२.२३६.४१ ॥
此时,立于其间、以婆苏之形而现的大智者耆伊舍婆耶(Jaigīṣavya)微笑着说——“义(artha)”,如此让这个词回响。
12.236.42
श्रेष्ठोन्योऽस्मान्महीपिण्डा तल्लीना शक्तिरापरा ।
मुद्रिकादिविशेषेण विस्तृता संभृतेति च ॥ १२.२३६.४२ ॥
比这些更高的是另一种——隐于那地之聚合体中的另一种力量,借助印戒等特殊之法而展开、聚集。
12.236.43
तच्छ्रुत्वा वचनं देवी कोसावित्यब्रवीद्रुषा ।
वाक्यमस्याद्य संभङ्क्त्वा प्रोक्तवानिति शंकरम् ॥ १२.२३६.४३ ॥
女神听了这话,愤怒地说:“他是谁?”他今天违背了自己的话,这样对湿婆说。
12.236.44
तच्छ्रुत्वा निर्गतो धीमानाश्रमं स्वं महामुनिः ।
स्थानात्स्वर्गगणे विद्वान्योगैश्वर्यसमन्वितः ॥ १२.२३६.४४ ॥
听了这话,那位智慧的大仙离开了自己的修行处;他从天众所居之处而来,博学,具有瑜伽的神通。
12.236.45
ततः प्रहस्य भगवान्सर्वपापहरो हरः ।
प्राह देवीं प्रशान्तात्मा जैगीषव्यो महामुनिः ॥ १२.२३६.४५ ॥
于是,笑着的世尊、消除一切罪恶的哈拉对女神说;内心宁静的大仙嘉伊吉沙维耶说道。
12.236.46
भक्तो मम सखा चैव शिष्यश्चात्र महामुनिः ।
जैगीषव्य इति ख्यातः प्रोक्त्वासा निर्गतः शुभे ॥ १२.२३६.४६ ॥
此人是我的信徒、朋友,也是弟子;在此他以大仙嘉伊吉沙维耶之名闻名。吉祥的女神啊,说完这话,他就离开了。
12.236.47
तच्छ्रुत्वा साऽथ संक्रुद्धा न न्याय्यं तेन वै कृतम् ।
विकृताऽहं त्वया देव मुनिना च तथाकृता ॥ १२.२३६.४७ ॥
她听了之后非常愤怒;他所做的并不公正。神啊,你和那位圣人就这样侮辱了我。
12.236.48
अतज्ञादयदेवेश मध्ये प्राप्तं न तच्छ्रुतम् ।
तच्छ्रुत्वा भगवानाह महादेवः पिनाकधृत् ॥ १२.२३६.४८ ॥
天神之主啊,由于无知,你未曾听到的事情在中间出现了。听了这话,持弓的世尊大天神说道。
12.236.49
निरपेक्षो मुनिर्योगी मामुपाश्रित्य संस्थितः ।
निर्द्वन्द्वः सततं धीमान्समरूपस्वभावधृत् ॥ १२.२३६.४९ ॥
这位离欲的苦行瑜伽士,依靠我而安住;超越对立,恒常智慧,具有平等的形态与本性。
12.236.50
तस्मात्क्षमस्व तं देवि रक्षितव्यस्त्वया च सः ॥ १२.२३६.५० ॥
因此,女神啊,宽恕他吧;他也应由你来守护。
12.236.51
इत्युक्ता प्राह सा देवी मुनेस्तस्य महात्मनः ।
निराशत्वमहं द्रष्टुमिच्छाम्यन्तकनाशन ॥ १२.२३६.५१ ॥
被如此告知后,女神对那位大心的仙人说:啊,毁灭死亡者,我想看看他对希望的断绝。
12.236.52
तथेति चोक्त्वा तां देवो वृषमारुह्य सत्वरम् ।
देवगन्धर्वसङ्घैश्च स्तूयमानो जगत्पतिः ॥ १२.२३६.५२ ॥
他对她说“就这样吧”,然后迅速骑上公牛离去,受到诸神与乾闼婆众的赞颂,这位世界之主便走了。
12.236.53
अजरामरशुद्धात्मा यत्रास्ते स महामुनिः ।
इतस्ततः समाहृत्य वीरसंघैर्महायशाः ॥ १२.२३६.५३ ॥
在那位不老、不死、灵魂纯净的大仙人所居之处,这位大名之人从各处召集了英雄的队伍。
12.236.54
देहप्रावरणार्थं वै संसरन्स तदा मुनिः ।
प्रत्युद्गम्य महादेवं यथार्हं प्रतिपूज्य च।
पुनः स पूर्ववत्कथां सूच्या सूत्रेण सूचयत् ॥ १२.२३६.५४ ॥
那时,这位为遮蔽身体而四处游走的仙人,迎向大天神,依礼敬拜,然后像先前一样,用针线缝缀着故事。
12.236.55
तमाह भगवाञ्शंभुः किं प्रदास्यामि ते मुने ।
वृणीष्व मत्तः सर्वं त्वं जैगीषव्य यदीच्छसि ॥ १२.२३६.५५ ॥
吉祥的湿婆对他说:“仙人啊,我该赐给你什么?耆伽湿婆耶,你想要什么,尽管从我这里求取恩赐吧。”
12.236.56
नावलोकयमानस्तु देवदेवं महामुनिः ।
अनवाप्तं न पश्यामि त्वत्तो गोवृषभध्वज।
कृतार्थः परिपूर्णोऽहं यत्ते कार्यं तु गम्यताम् ॥ १२.२३६.५६ ॥
大仙人望着诸神之神说:“牛旗之主啊,我看不到从你那里尚未获得的东西。我已圆满、已成就;愿你的事业继续进行。”
12.236.57
प्रहसंस्तु पुनः शर्वो वृणीष्वेति तमब्रवीत् ।
अवश्यं हि वरो प्रत्तः श्राव्यं वरमनुत्तमम् ॥ १२.२३६.५७ ॥
于是湿婆大笑,再次对他说:“你尽管选择吧。我必定赐你一个恩惠,一个至高而值得听闻的恩惠。”
12.236.58
जैगीषव्यस्तमाहेदं श्रोतव्यं च त्वया मम ।
सूचीमनु महादेव सूत्रं समनुगच्छतः ॥ १२.२३६.५८ ॥
耆伽湿婆耶对他说:“大天啊,你应当从我这里听闻此事,如同线随着针而行。”
12.236.59
ततः प्रहस्य भगवान्गौरीमालोक्य शङ्करः ।
स्वस्थानं प्रययौ हृष्टः सर्वदेवनमस्कृतः ॥ १२.२३६.५९ ॥
于是吉祥的商羯罗大笑,望着高利,欢喜地受到诸神礼敬,回到自己的住处去了。
12.236.60
एतत्ते कथितं राजन्यस्मात्त्वं परिपृच्छसि ।
निर्द्वन्द्वा योगिनो नित्याः सर्वशस्ते स्वयंभुवः ॥ १२.२३६.६० ॥
国王啊,因为你发问,所以将此告诉你。瑜伽士超越二元对立,永恒不灭,在一切方面都是自生的。