摩诃婆罗多 · 章 12.237
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.237.1
प्रियः सर्वस्य लोकस्य सर्वसत्वाभिनन्दितः ।
गुणैः सर्वैरुपेतश्च को न्वस्ति भुवि मानवः ॥ १२.२३७.१ ॥
世上谁是为全世界所爱、受一切众生赞誉、具备一切美德的人呢?
12.237.2
अत्र ते वर्तयिष्यामि पृच्छतो भरतर्षभ ।
उग्रसेनस्य संवादं नारदे केशवस्य च ॥ १२.२३७.२ ॥
婆罗多族的雄牛啊,对你这位提问者,我将在此叙述乌格罗塞纳与那罗陀及与世尊(黑天)的对话。
12.237.3
यस्य संकल्पते लोको नारदस्य प्रकीर्तने ।
मन्ये स गुणसंपन्नो ब्रूहि तन्मम पृच्छतः ॥ १२.२३७.३ ॥
我认为,在赞颂那罗陀时世人都认同的那位,是具备美德之人;请告诉我这位提问者。
12.237.4
कुकुराधिप यान्मन्ये शृणु तान्मे विवक्षतः ।
नारदस्य गुणान्साधून्संक्षेपेण नराधिप ॥ १२.२३७.४ ॥
俱俱罗的主君啊,我将简要地说出我认为那罗陀所具有的善德;请听,人主啊。
12.237.5
न चारित्रनिमित्तोऽस्याहंकारो देहपातनः ।
अभिन्नश्रुतचारित्रस्तस्मात्सर्वत्र पूजितः ॥ १२.२३७.५ ॥
他的傲慢并非由行为所生,那样会导致身体的毁灭;他的学问与品行不分离,因此处处受到尊敬。
12.237.6
अरतिः क्रोधचापल्ये भयं नैतानि नारदे ।
अदीर्घसूत्रः शूरश्च तस्मात्सर्वत्र पूजितः ॥ १२.२३७.६ ॥
那罗陀没有厌倦、愤怒、轻浮和恐惧;他不拖延,他勇敢,因此处处受到尊敬。
12.237.7
उपास्यो नारदो बाढं वाचि नास्य व्यतिक्रमः ।
कामतो यदि वा लोभात्तस्मात्सर्वत्र पूजितः ॥ १२.२३७.७ ॥
那罗陀值得崇敬;他的言语从无过失,无论出于欲望还是贪婪。因此他处处受到尊敬。
12.237.8
अध्यात्मविधितत्त्वज्ञः क्षान्तः शक्तो जितेन्द्रियः ।
ऋजुश्च सत्यवादी च तस्मात्सर्वत्र पूजितः ॥ १२.२३७.८ ॥
通晓自性仪轨之真谛、能忍耐、有能力、克制诸根、正直而说真话的人,因此处处受到尊敬。
12.237.9
तेजसा यशसा बुद्ध्या ज्ञानेन विनयेन च ।
जन्मना तपसा वृद्धस्तस्मात्सर्वत्र पूजितः ॥ १२.२३७.९ ॥
以光辉、名声、智慧、知识与谦逊,以及出身与苦行而成就者,因此处处受到尊敬。
12.237.10
सुशीलः सुखसंवेशः सुभोजः स्वादरः शुचिः ।
सुवाक्यश्चाप्यनीर्ष्यश्च तस्मात्सर्वत्र पूजितः ॥ १२.२३७.१० ॥
品行端正、易于相处、容易知足、尊重滋味、清净、言语温和而无嫉妒的人,因此处处受到尊敬。
12.237.11
कल्याणं कुरुते बाढं पापमस्मिन्न विद्यते ।
न प्रीयते परानर्थैस्तस्मात्सर्वत्र पूजितः ॥ १२.२३७.११ ॥
他常行善,其中不见恶;不以他人的祸害为乐。因此处处受到尊敬。
12.237.12
वेदश्रूतिभिराख्यानैरर्थानभिजिगीषति ।
तितिक्षुरनवज्ञश्च तस्मात्सर्वत्र पूजितः ॥ १२.२३७.१२ ॥
以吠陀、所闻之法与故事来求取义理,忍耐而不轻慢他人的人,因此处处受到尊敬。
12.237.13
समत्वाच्च प्रियो नास्ति नाप्रियश्च कथंचन ।
मनोऽनुकूलवादी च तस्मात्सर्वत्र पूजितः ॥ १२.२३७.१३ ॥
因其平等之心,他对任何人都无所偏爱或厌恶;言语顺应人心,因此他处处受到尊敬。
12.237.14
बहुश्रुतश्चित्रकथः पण्डितोऽनलसोऽशठः ।
अदीनोऽक्रोधनोऽलुब्धस्तस्मात्सर्वत्र पूजितः ॥ १२.२३७.१४ ॥
博学多闻,善讲奇妙的故事,有智慧,不懈怠,诚实,不卑怯,无怒无贪,因此他处处受到尊敬。
12.237.15
नार्थे धने वा कामे वा भूतपूर्वोऽस्य विग्रहः ।
दोषाश्चास्य समुच्छिन्नास्तस्मात्सर्वत्र पूजितः ॥ १२.२३७.१५ ॥
无论为财富、钱财或欲望,他从来没有争端,他的过失也已彻底断除;因此他处处受到尊敬。
12.237.16
दृढभक्तिरनिन्द्यात्मा श्रुतवाननृशंसवान् ।
वीतसंमोहदोषश्च तस्मात्सर्वत्र पूजितः ॥ १२.२३७.१६ ॥
信仰坚定,内心无瑕,博学,慈悲,远离迷惑之过,因此他处处受到尊敬。
12.237.17
असक्तः सर्वसङ्गेषु सक्तात्मेव च लक्ष्यते ।
अदीर्घसंशयो वाग्मी तस्मात्सर्वत्र पूजितः ॥ १२.२३७.१७ ॥
对一切牵挂都无所执着,却看似有执着的自我;疑惑很快消解,且善于言辞,因此他处处受到尊敬。
12.237.18
समाधिर्नास्य कामार्थै नात्मानं स्तौति कर्हिचित् ।
अनीर्षुर्मृदुसंवादस्तस्मात्सर्वत्र पूजितः ॥ १२.२३७.१८ ॥
他的定力不为欲望或财富所动,从不自夸;没有嫉妒,言语温和,因此他处处受到尊敬。
12.237.19
नाहंकारे मुक्तिरस्य चारित्रे बुद्धिरास्थिता ।
वेदार्थविद्विभागेन यज्ञविद्योगवित्कविः।
भक्तिमान्य सदा विद्वांस्तस्मात्सर्वत्र पूजितः ॥ १२.२३७.१९ ॥
他的解脱不在于傲慢;他的智慧稳固于德行。他通晓吠陀之义,精通祭祀与瑜伽,是智慧的诗人,虔信而常有学问,因此处处受人尊敬。
12.237.20
त्रिगुणं गुणभोक्तारं पञ्चयज्ञात्मकं तथा ।
यथावत्स विजानाति तस्मात्सर्वत्र पूजितः ॥ १२.२३७.२० ॥
他如实知晓三德、受用诸德者,以及由五祭构成的本性,因此处处受人尊敬。
12.237.21
कल्याणं कुरुते बाढं पापमस्मिन्न विद्यते ।
न प्रीयते परानर्थैस्तस्मात्सर्वत्र पूज्यते ॥ १२.२३७.२१ ॥
他必定行善,其中找不到罪恶,也不因他人的利益而欢喜。因此他处处受人尊敬。
12.237.22
लोकस्य विविधं चित्तं प्रेक्षते चाप्यकुत्सयन् ।
संसर्गविद्याकुशलस्तस्मात्सर्वत्र पूजितः ॥ १२.२३७.२२ ॥
他不加指责地洞察世间各种各样的心念,精通与人交往之术,因此处处受人尊敬。
12.237.23
नासूयत्यागमं कंचित्स्वनयेनोपजीवति ।
अबन्ध्यकालोऽवश्यात्मा तस्मात्सर्वत्र पूजितः ॥ १२.२३७.२३ ॥
他不嫉妒任何传承的教诲,依靠自己的正道生活,时光从不虚度,他能自我克制。因此他处处受人尊敬。
12.237.24
कृतश्रमः कृतप्रज्ञो न च तृप्तः समाधितः ।
नित्ययुक्तोऽप्रमत्तश्च तस्मात्सर्वत्र पूजितः ॥ १२.२३७.२४ ॥
他勤勉修行,智慧已成就,即使在定中也不满足,常常专一精进而不放逸。因此他处处受人尊敬。
12.237.25
नापत्रपश्च युक्तश्च नियुक्तः श्रेयसे परैः ।
अभेत्ता परगुह्यानां तस्मात्सर्वत्र पूजितः ॥ १२.२३७.२५ ॥
不厚颜、自律、受他人委任以行善、且不泄露他人秘密者,因此处处受到尊敬。
12.237.26
न हृष्यत्यर्थलाभेषु नालाभे तु व्यथत्यपि ।
स्थिरबुद्धिरसक्तात्मा तस्मात्सर्वत्र पूजितः ॥ १२.२३७.२६ ॥
得财不喜,失财亦不忧,智慧坚定、心无执著者,因此处处受到尊敬。
12.237.27
तं सर्वगुणसंपन्नं दक्षं शुचिमनामयम् ।
कालज्ञं च प्रियज्ञं च कः प्रियं न करिष्यति ॥ १२.२३७.२७ ॥
对这位具备一切美德、能干、清净、无瑕、知时且知所悦者,谁会不为他行其所悦呢?
12.237.28
इत्युक्तः संप्रशस्यैनमुग्रसेनो गतो गृहात् ।
आस्ते कृष्णस्तथैकान्ते पर्यङ्के रत्नभूषिते ॥ १२.२३७.२८ ॥
如此说罢并赞扬了他,乌格拉塞纳便离开了家。而黑天则独自留在一张饰以宝石的床榻上。
12.237.29
कदाचित्तत्र भगवान्प्रविवेश महामुनिः ।
तमभ्यर्च्य यथान्यायं तूष्णीमास्ते जनार्दनः ॥ १२.२३७.२९ ॥
有一次,尊贵的大仙人进入那里。黑天依法礼敬他之后,便默然而坐。
12.237.30
तं खिन्नमिव संलक्ष्य केशवं वाक्यमब्रवीत् ।
किमिदं केशव तव वैमनस्यं जनार्दन।
अभूतपूर्वं गोविन्द तन्मे व्याख्यातुमर्हसि ॥ १२.२३७.३० ॥
见他仿佛沮丧,便对具发(Keśava)说道:“具发啊,你这是何故的愁闷?生主啊,牧者啊,此事前所未见;请为我解说。”
12.237.31
नासुहृत्परमं मेऽद्य नापदोऽर्हति वेदितुम् ।
अपण्डितो वापि सुहृत्पण्डितो वाऽप्यनात्मवान् ॥ १२.२३७.३१ ॥
今日,对我而言最亲的朋友并非值得知晓灾祸之人。无论愚昧或博学,若不能自制,便不是朋友。
12.237.32
स त्वं सुहृच्च विद्वांश्च जितात्मा श्रोतुमर्हसि ।
अप्येतद्धृदि यद्दुःखं तद्भवाञ्श्रोतुमर्हति ॥ १२.२३७.३२ ॥
你是朋友,博学且能自制,所以值得倾听。即便是我心中的那份悲痛,你也值得听闻。
12.237.33
दास्यमैश्वर्यवादेन ज्ञातीनां च करोम्यहम् ।
द्विषन्ति सततं क्रुद्धा ज्ञातिसंबन्धिवान्धवाः ॥ १२.२३७.३३ ॥
我借着主权之名侍奉族人,然而愤怒的族人、姻亲与亲属却始终憎恨我。
12.237.34
दिव्या अपि तथा भोगा दत्तास्तेषां मया पृथक् ।
तथाऽपि च द्विषन्तो मां वर्तन्ते च परस्परम् ॥ १२.२३७.३४ ॥
我也曾分别赐予他们神圣的享乐;然而他们仍然憎恨我,彼此之间也相互敌视。
12.237.35
अनायसेन शस्त्रेण परिमृज्यानुमृज्य च ।
जिह्वामुद्धर चैतेषां न वक्ष्यन्ति ततः परम् ॥ १२.२३७.३५ ॥
用无铁的兵器把他们的舌头仔细擦拭,再擦拭一次,然后拔出来;此后他们便不再开口了。
12.237.36
भगवानुवाच ।
अनायसं कथं विन्द्यां शस्त्रं मुनिवरोत्तम।
येनषामुद्धरे जिह्वां ब्रूहि तन्मे यथातथम् ॥ १२.२३७.३६ ॥
世尊说:最优秀的圣者中的最上者啊,我该如何得到不是铁的兵器,好拔除他们的舌头?请如实告诉我。
12.237.37
गोहिरण्यं च वासांसि रत्नाद्यं यद्धनं बहु ।
आस्ये प्रक्षिप चैतेषां शस्त्रमेतदनायसम् ॥ १२.२३७.३७ ॥
把牛、金子、衣物、宝石等所有丰厚的财富投入他们口中;这便是非铁之兵器。
12.237.38
सुहृत्संबन्धिमित्राणां गुरूणां स्वजनस्य च ।
आख्यातं शस्त्रमेतद्धि तेन च्छिन्धि पुनः पुनः ॥ १२.२३७.३८ ॥
此兵器是为朋友、亲属、同伴、师长及自家族人所说的;以此反复斩断。
12.237.39
तवैश्वर्यप्रदानानि श्लाध्यमेषां वचांसि च ।
समर्थं त्वामभिज्ञाय प्रवदन्ति च ते नराः ॥ १२.२३७.३९ ॥
他们有赞美你授予权势之恩的言辞;知道你有能力,那些人便这样说。
12.237.40
ततः प्रहस्य भगवान्संपूज्य च महामुनिम् ।
तथाऽकरोन्महातेजा मुनिवाक्येन चोदितः ॥ १२.२३७.४० ॥
于是大光明的世尊笑着,尊敬大仙,受仙人之言所激,便照着去做了。
12.237.41
एवंप्रभावो ब्रह्मर्षिर्नारदो मुनिसत्तमः ।
पृष्टवानसि यन्मां त्वं तदुक्तं राजसत्तम ॥ १२.२३७.४१ ॥
如此威力的梵仙那罗陀,乃仙人中之最;你所问我的,已经说了,哦,王中之最。
12.237.42
सर्वधर्महिते युक्ताः सत्यधर्मपरायणाः ।
लोकप्रियत्वं गच्छन्ति ज्ञानविज्ञानकोविदाः ॥ १२.२३७.४२ ॥
致力于一切法之利益、专注于真实之法、精通知识与明辨者,便会为世人所爱。