Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.239

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.239.1

प्रत्याहारं तु वक्ष्यामि शर्वर्यादौ गतेऽहनि ।
यथेदं कुरुतेऽध्यात्मं सुसूक्ष्मं विश्वमीश्वरः ॥ १२.२३९.१ ॥

我将讲述感官收摄(pratyāhāra),它在白昼过去、夜晚开始时发生,正如主在内心中造就这极其精微的宇宙。

12.239.2

दिवि सूर्यस्तथा सप्त दहन्ति शिखिनोऽर्चिषः ।
सर्वमेतत्तदाऽर्चिर्भिः पूर्णं जाज्वल्यते जगत् ॥ १२.२३९.२ ॥

天空中太阳与七种火焰燃烧;于是一切充满这些火焰,世界熊熊燃烧。

12.239.3

पृथिव्यां यानि भूतानि जङ्गमानि ध्रुवाणि च ।
तान्येवाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च ॥ १२.२३९.३ ॥

地上的一切众生,动与不动者,先行消融,然后归于地性。

12.239.4

ततः प्रलीने सर्वास्मिन्स्थावरे जङ्गमे तथा ।
अकाष्ठा निस्तृणा भूमिर्दृश्यते कूर्मपृष्ठवत् ॥ १२.२३९.४ ॥

于是,当一切动与不动之物都已消融,大地便无木无草,看去如龟背。

12.239.5

भूमेरपि गुणं गन्धमाप आददते यदा ।
आत्तगन्धा तदा भूमिः प्रलयत्वाय कल्पते ॥ १२.२३९.५ ॥

当水也夺去地之性质——气味时,失去气味的大地便适于毁灭。

12.239.6

आपस्तत्र प्रतिष्ठन्ते ऊर्मिमत्यो महास्वनाः ।
सर्वमेवेदमापूर्य तिष्ठन्ति च चरन्ति च ॥ १२.२३९.६ ॥

那里,充满波浪、发出巨响的水便安住下来;充满这一切后,它们既静止,也流动。

12.239.7

अपामपि गुणांस्तात ज्योतिराददते यदा ।
आपस्तदा त्वात्तगुणा ज्योतिः षूपरमन्ति वै ॥ १२.२३९.७ ॥

孩子啊,当光(火)夺取水的属性时,水便失去其德性,归于光中而止息。

12.239.8

यदाऽऽदित्यं स्थितं मध्ये गूहन्ति शिखिनोऽर्चिषः ।
सर्वमेवेदमर्चिर्भिः पूर्णं जाज्वल्यते नमः ॥ १२.२३९.८ ॥

当火焰遮蔽了居于天空中央的太阳,那么充满光芒的一切便在天空中熊熊燃烧。

12.239.9

ज्योतिषोऽपि गुणं रूपं वायुराददते यदा ।
प्रशाम्यति ततो ज्योतिर्वायुर्दोधूयते महान् ॥ १२.२३९.९ ॥

当风夺取光(火)的属性与形态时,光便止息;此后伟大的风剧烈地摇荡。

12.239.10

ततस्तु मूलमासाद्य वायुः संभवमात्मनः ।
अधश्चोर्ध्वं च तिर्यक्च दोधवीति दिशो दश ॥ १२.२३९.१० ॥

此时风回到其本源,向下、向上、横向摇撼十方。

12.239.11

वायोरपि गुणं स्पर्शमाकाशं ग्रसते यदा ।
प्रशाम्यति तदा वायुः खं तु तिष्ठति नानदन् ॥ १२.२३९.११ ॥

当虚空吞没了风的触觉之德时,风便止息;虚空静立,不发声响。

12.239.12

अरूपमरसस्पर्शमगन्धं न च मूर्तिमत् ।
सर्वलोकप्रणुदितं स्वं तु तिष्ठति नानदत् ॥ १२.२३९.१२ ॥

它无形、无味、无触、无香,非有形之体;遍布一切世界,仍安住于自性之中,不发声响。

12.239.13

आकाशस्य गुणं शब्दमभिव्यक्तात्मकं मनः ।
ग्रसते च यदा सोऽपि शाम्यति प्रतिसंचरे।
मनसो व्यक्तमव्यक्तं ब्राह्मः संप्रतिसंचरः ॥ १२.२३९.१३ ॥

虚空的属性是声音,它存在于具显现本性的意中。当意吞噬它时,它也平息。意从显现回归未显现,即梵的完全收摄。

12.239.14

तदाऽऽत्मगुणमाविश्य मनो ग्रसति चन्द्रमाः ।
मनस्युपरते चात्मा चन्द्रमस्युपतिष्ठते ॥ १२.२३९.१४ ॥

此时月亮进入自我之性,吞没意。意既止息,自我便安住于月中。

12.239.15

तं तु कालेन महता संकल्पं कुरुते वशे ।
चित्तं ग्रसति संकल्पस्तच्च ज्ञानमनुत्तमम् ॥ १२.२३९.१५ ॥

然而经过很长时间,它使决意受其控制。决意吞没思虑,而这便是无上的智慧。

12.239.16

कालो गिरति विज्ञानं कालं बलमिति श्रुतिः ।
बलं कालो ग्रसति तु तं विद्वान्कुरुते वशे ॥ १२.२३९.१६ ॥

时间吞没智慧;天启之书说时间即是力量。时间吞没力量;然而智者使之受其控制。

12.239.17

आकाशस्य तदा घोषं तं विद्वान्कुरुतेऽऽत्मनि ।
तदव्यक्तं परं ब्रह्म तच्छाश्वतमनुत्तमम्।
एवं सर्वाणि भूतानि ब्रह्मैव प्रतिसंहरेत् ॥ १२.२३९.१७ ॥

此时智者将虚空之声安置于自我之中。那未显现、至上、永恒、无与伦比的梵,即是归宿。如此,应将一切众生收摄于梵之中。

12.239.18

यथावत्कीर्तितं सत्यमेवमेतदसंशयम् ।
बोध्यं विद्यामयं दृष्ट्वा योगिभिः परमात्मभिः ॥ १२.२३९.१८ ॥

如所宣说,此乃真实,毫无疑问。这由智慧构成的真理,应由已见到它的瑜伽行者——那些达到至上自我者——所领悟。

12.239.19

एवं विस्तारसंक्षेपौ ब्रह्माव्यक्ते पुनःपुनः ।
युगसाहस्रयोरादावहोरात्र्यास्तथैव च ॥ १२.२३९.१९ ॥

如此,在梵与未显现者之中,扩展与收缩反复出现:于千个时代之初,亦复如此,于昼夜之初也是如此。