Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.254

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.254.1

मनः प्रसृजते भावं बुद्धिरध्यवसायिनी ।
हृदयं प्रियाप्रिये वेद त्रिविधा कर्मवेदना ॥ १२.२५४.१ ॥

意产生状态,决定的智慧使之确定,心知悦与不悦;行为的感受有三种。

12.254.2

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा परो मतः ॥ १२.२५४.२ ॥

高于诸根的是境,高于境的是意,高于意的是觉,而高于觉的被认为是自我。

12.254.3

बुद्धिरात्मा मनुष्यस्य बुद्धिरेवात्मनो गतिः ।
यदा विकुरुते भाव तदा भवति सा मनः ॥ १२.२५४.३ ॥

智慧即是人的自我,智慧也正是自我的途径;当它改变状态时,便成为意。

12.254.4

इन्द्रियाणां पृथग्भावाद्बुद्धिर्विक्रियतेऽसकृत् ।
शृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते ॥ १२.२५४.४ ॥

因诸根各自不同,智慧反复变化:听闻时成为耳,触及时称为触。

12.254.5

पश्यती भवते दृष्टी रसती रसनं भवेत् ।
जिघ्रती भवति घ्राणं बुद्धिर्विक्रियते पृथक् ॥ १२.२५४.५ ॥

见时成为目,尝时成为舌,嗅时成为鼻——智慧便这样分别地变化。

12.254.6

इन्द्रियाणीति तान्याहुस्तेष्वदृश्योऽधितिष्ठति ।
तिष्ठती पुरुषे बुद्धिस्त्रिषु भावेषु वर्तते ॥ १२.२५४.६ ॥

它们被称为诸根;不可见者安住其上;安住于人身的智慧在三种状态中运作。

12.254.7

कदाचिल्लभते प्रीतिं कदाचिदपि शोचति ।
न सुखेन न दुःखेन कदाचिदिह युज्यते ॥ १२.२५४.७ ॥

有时他得到喜悦,有时也悲伤;他在此既不被快乐,也不被痛苦所束缚。

12.254.8

सेयं भावात्मिका भावांस्त्रीनेताननुवर्तते ।
सरितां सागरो भर्ता महावेलामिवोर्मिमान् ॥ १२.२५४.८ ॥

这以状态为本性的觉知追随这三种状态,如同众河之主的大海追随带着波浪的大岸。

12.254.9

यदा प्रार्थयते किंचित्तदा भवति सा मनः ।
अधिष्ठानानि वै बुद्ध्यां पृथगेतानि संस्मरेत।
इन्द्रियाण्येवमेतानि विजेतव्यानि कृत्स्नशः ॥ १२.२५४.९ ॥

当他有所求时,那便成为意。应在觉知中分别记住这些所依;如此应将这些根完全征服。

12.254.10

सर्वाण्येवानुपूर्व्येण यद्यदाऽनुविधीयते ।
अविभागगता बुद्धिर्भावे मनसि वर्तते।
प्रवर्तमानं तु रजः सत्वमप्यनुवर्तते ॥ १२.२५४.१० ॥

一切依次跟随所命之事;已入不分之境的觉知住于心的状态之中。然而,随着运作中的罗阇,萨埵也随之而行。

12.254.11

ये चैव भावा वर्तन्ते सर्व एष्वेव ते त्रिषु ।
अन्वर्थाः संप्रवर्तन्ते रथनेमिमरा इव ॥ १२.२५४.११ ॥

凡所有的状态都在这三者之中;依其义理而生起,如同车轮边缘的辐条。

12.254.12

प्रदीपार्थं मनः कुर्यादिन्द्रियैर्बुद्धिसत्तमैः ।
निश्चरद्भिर्यथायोगमुदासीनैर्यदृच्छया ॥ १२.२५४.१२ ॥

应使心如灯,以诸根——最上的觉知——向外运行,随其所宜,淡然无执,随机而行。

12.254.13

एवं स्वभावमेवेदमिति विद्वान्न मुह्यति ।
अशोचन्नप्रहृष्यन्हि नित्यं विगतमत्सरः ॥ १२.२५४.१३ ॥

智者知道这只是事物的本性,便不会迷惑。他从不悲伤,也从不欢喜,远离嫉妒。

12.254.14

न चात्मा शक्यते द्रष्टुमिन्द्रियैः कामगोचरैः ।
प्रवर्तमानैरनयैर्दुर्धर्षैरकृतात्मभिः ॥ १२.२५४.१४ ॥

自我无法被那在欲望中游荡、行为不义、难以制服、未被调伏的诸根所见。

12.254.15

तेषां तु मनसा रश्मीन्यदा सम्यङ्क्तियच्छति ।
तदा प्रकाशतेऽस्यात्मा दीपदीप्ता यथाऽऽकृतिः ॥ १२.२५४.१५ ॥

当心意妥善地约束它们的缰绳时,他的自我便显现出来,如同被灯光照亮的形象。

12.254.16

सर्वेषामेव भूतानां मनस्युपरते यथा ।
प्रकाशं भवते सर्वं तथेदमुपधार्यताम् ॥ १२.२५४.१६ ॥

正如众生的心意平息时,一切都变得清明,此理亦当如是领会。

12.254.17

यथा वारिचरः पक्षी न लिप्यति जले चरन् ।
विमुक्तात्मा तथा योगी गुणदोषैर्न लिप्यते ॥ १२.२५४.१७ ॥

如水中飞行的鸟不被水沾污,解脱自我的瑜伽行者也不为功德与过失所染。

12.254.18

एवमेव कृतप्रज्ञो न दोषैर्विषयांश्चरन् ।
असज्जमानः सर्वेषु कथंचन न लिप्यते ॥ १२.२५४.१८ ॥

同样,智慧坚定的人游历于诸境之中,对一切都不执着,因此绝不为过失所染。

12.254.19

त्यक्त्वा पूर्वकृतं कर्म रतिर्यस्य सदाऽऽत्मनि ।
सर्वभूतात्मभूतस्य गुणवर्गेष्वसज्जतः ॥ १२.२५४.१९ ॥

舍弃先前所作之业,其喜乐常在于自我,成为一切众生之自我,不执着于诸德之类。

12.254.20

सत्वमात्मा प्रसरति गुणान्वाऽपि कदाचन ।
न गुणा विदुरात्मानं गुणान्वेद स सर्वदा ॥ १२.२५४.२० ॥

悉多、自我或诸德从不扩展;诸德不知自我,而他始终知晓诸德。

12.254.21

परिद्रष्टा गुणानां च परिस्रष्टा यथातथम् ।
क्षेतक्षेत्रज्ञयोरेतदन्तरं विद्धि सूक्ष्मयोः ॥ १२.२५४.२१ ॥

观察诸德者,如实舍离者——请知晓这二位微妙者,即场与场知者之间的区别。

12.254.22

सृजतेऽत्र गुणानेक एको न सृजते गुणान् ।
पृथग्भूतौ प्रकृत्या तौ संप्रयुक्तौ च सर्वदा ॥ १२.२५४.२२ ॥

此处一者创造诸德,一者独自不创造诸德;二者本性各异,却始终相合。

12.254.23

यथा मत्स्योऽद्भिरन्यः स्यात्संप्रयुक्तौ तथैव तौ ।
मशकोदुम्बरौ वाऽपि संप्रयुक्तौ यथा सह ॥ १२.२५४.२३ ॥

如鱼异于水而与之相合,彼二者亦如是相合;或如蚊与乌曇(虫)相合。

12.254.24

इषीका वा यथा मुञ्जे पृथक्च सह चैव च ।
तथैव सहितावेतावन्योन्यस्मिन्प्रतिष्ठितौ ॥ १२.२५४.२४ ॥

如蒲草中的芦秆,既分离又相合,如是此二者相合,彼此互相安立。