摩诃婆罗多 · 章 12.259
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.259.1
शरीराद्विप्रमुक्तं हि सूक्ष्मभूतं शरीरिणम् ।
कर्मभिः परिपश्यन्ति शास्त्रोक्तैः शास्त्रचेतसः ॥ १२.२५९.१ ॥
心志专注于经典的人,依靠经典所载的修行,看见已完全脱离身体、以微妙形态存在的有身者。
12.259.2
यथा मरीच्यः सहिताश्चरन्ति ।
गच्छन्ति तिष्ठन्ति च दृश्यमानाः।
देहैर्विमुक्तानि वरन्ति लोकां ।
स्तथैव सत्वान्यतिमानुषाणि ॥ १२.२५९.२ ॥
如光线聚集而行、前往、停留、被人看见一般,脱离身体的超人众生选择诸界。
12.259.3
प्रतिरूपं यथैवाप्सु तावत्सूर्यस्य लक्ष्यते ।
सत्ववांस्तु तथा सत्वं प्रतिरूपं स पश्यति ॥ १२.२५९.३ ॥
正如太阳的倒影映现在水中,具足善性者也将自己的善性看作一个倒影。
12.259.4
तानि सूक्ष्माणि सत्वानि विमुक्तानि शरीरतः ।
तेन तत्वेन तत्वज्ञाः पश्यन्ति नियतेन्द्रियाः ॥ १२.२५९.४ ॥
那些脱离身体的微妙众生,由通达真理、调伏诸根的人,凭借这同一真理而看见。
12.259.5
स्वपतां जाग्रतां चैष सर्वेषामात्मचिन्तितम् ।
प्रधानाद्वैधयुक्तानां दह्यते कर्मजं रजः ॥ १२.२५९.५ ॥
无论睡眠还是醒来,众人的自我所思皆是如此;那些从本源之性而与差别相缚者,业所生的罗阇便被焚烧。
12.259.6
यथाऽहनि तथा रात्रौ यथा रात्रौ तथाऽहनि ।
वशे तिष्ठति सत्वात्मा सततं योगयोगिनाम् ॥ १२.२५९.६ ॥
白天如何,夜晚亦如何;夜晚如何,白天亦如何。修习瑜伽的瑜伽士,其善性之我常常处于掌控之中。
12.259.7
तेषां नित्यं सदा नित्यो भूतात्मा सततं गुणैः ।
सप्तभिस्त्वन्वितः सूक्ष्मैश्चरिष्णुरजरामरः ॥ १२.२५९.७ ॥
在其中,众生的永恒之我常与诸德相连,具备七种微妙之德,流转不息,无老无死。
12.259.8
मनोवुद्धिपराभूतः स्वदेहपरदेहवित् ।
स्वप्नेष्वपि भवत्येष विज्ञाता सुखदुःखयोः ॥ १२.२५९.८ ॥
为意与智所胜,知自身与他身,即于梦中,此者亦成为知苦乐者。
12.259.9
तत्रापि लभते दुःखं तत्रापि लभते सुखम् ।
कामं क्रोधं च तत्रापि कृत्वा व्यसनमृच्छति ॥ १२.२५९.९ ॥
彼于彼处得苦,亦于彼处得乐;于彼处亦起欲与怒,遂陷于灾难。
12.259.10
प्रीणितश्चापि भवति महतोऽर्थानवाप्य हि ।
करोति पुण्यं तत्रापि जाग्रन्निव च पश्यति ॥ १२.२५९.१० ॥
得大财而欢喜,亦于彼处行福,如醒者而见。
12.259.11
सदोष्मान्तर्गतश्चापि गर्भत्वं समुपेयिवान् ।
दश मासान्वसन्कुक्षौ नैषोऽन्नमिव जीर्यते ॥ १२.२५९.११ ॥
入于温暖之中,亦得入胎之境,居腹中十月,不如食物般被消化。
12.259.12
तमेतमतितेजोंशं भूतात्मानं हृदि स्थितम् ।
तमोरजोभ्यामाविष्टा नानुपश्यन्ति मूर्तिषु ॥ १२.२५९.१२ ॥
此众生之我,极其光明之分,住于心中,为暗与忧所缠者,在诸形相中不能见之。
12.259.13
योगशास्त्रपरा भूत्वा स्वमात्मानं परीप्सवः ।
तमोरजोभ्यां निर्मुक्तास्तं प्रपश्यन्ति मूर्तिषु।
अनुच्छ्वासान्यमूर्तानि यानि वज्रोपमान्यपि ॥ १२.२५९.१३ ॥
专心于瑜伽之学、欲证得自身者,脱离暗性与忧性,便能在有形之物中见到他,甚至在那些无息、无形、坚如金刚者之中。
12.259.14
पृथग्भूतेषु सृष्टेषु चतुर्ष्वाश्रमकर्मसु ।
समाधौ योगमेवैतच्छाण्डिल्यः सममब्रवीत् ॥ १२.२५९.१४ ॥
在各自分别的众生之中,在所创的四种行住之业中,入于三昧即是此瑜伽,沙迪利亚如是平等地说。
12.259.15
विदित्वा सप्तसूक्ष्माणि षडङ्गं च महेश्वरम् ।
प्रधानविनियोगज्ञः परं ब्रह्मानुपश्यति ॥ १२.२५९.१५ ॥
既知七种微妙之物与六支的大自在者,通晓本初之用者,便见到了至上梵。