Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.271

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.271.1

शरीरमापदश्चैव न विदन्त्यविहिंसकाः ।
कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यते ॥ १२.२७१.१ ॥

不伤害者既不知身体,也不知灾难。那不作任何事业的人,身体的生存之旅如何能够成就?

12.271.2

यथा शरीरं न म्लायेन्नैव मृत्युवशं भवेत् ।
तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत् ॥ १२.२७१.२ ॥

如同身体不枯萎、不落入死亡之手,有能力的人应当投身行动,践行法义。

12.271.3

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रजानामनुकम्पार्थं गीतं राज्ञा विचख्युना ॥ १२.२७१.३ ॥

关于此事,人们也引述这段古老的故事,那是一位明智的国王出于对臣民的怜悯所唱。

12.271.4

छिन्नस्थूणं वृपं दृष्ट्वा विरावं च गवां भृशम् ।
गोगृहे यज्ञवाटे च प्रेक्षमाणः स पार्थिवः ॥ १२.२७१.४ ॥

那国王看到折断木桩的公牛和牛群的剧烈哞叫,在牛栏和祭场中环顾。

12.271.5

स्वस्ति गोभ्योऽस्तु लोकेषु ततो निर्वचनं कृतम् ।
हिंसायां हि प्रवृत्तायामाशीरेषा तु कल्पिता ॥ १२.२७१.५ ॥

于是有了这样的宣告:愿牛群安好,愿诸世界吉祥。当暴力兴起之时,这一祝福便被设立。

12.271.6

अव्यवस्थितमर्यादैर्विमूढैर्नास्तिकैर्नरैः ।
संशयात्मभिरव्यक्तैर्हिंसा समनुदर्शिता ॥ १२.२७१.६ ॥

暴力是由那些界限不定、迷惑、无信仰、心存疑惑而昏暗不明的人所示范的。

12.271.7

सर्वकर्मग्वहिंसां हि धर्मात्मा मनुरब्रवीत् ।
कामकाराद्विहिंसन्ति बहिर्वेद्यां पशून्नराः ॥ १२.२७१.७ ॥

正法之魂摩奴曾说:在一切行为中,不害才是至上。世人出于欲望,在祭坛之外伤害牲畜。

12.271.8

तस्मात्प्रमाणतः कार्यो धर्मः सूक्ष्मो विजानता ।
अहिंसा ह्येव सर्वेभ्यो धर्मेभ्यो ज्यायसी मता ॥ १२.२७१.८ ॥

因此,知晓微妙正法者应依据圣典的权威而行。唯有不害被认为胜过一切法。

12.271.9

उपोष्य संशितो भूत्वा हित्वा वेदकृतां शुचिः ।
आचार इत्यनाचारः कृपणाः फलहेतवः ॥ १२.२७१.९ ॥

斋戒、自制,舍弃吠陀所规定的仪式而变得清净,却称之为“行为端正”,这正是邪行。贪求果报的卑怯之人才这样做。

12.271.10

यदि च्छिन्दन्ति वृक्षांश्च यूपांश्चोद्दिश्य मानवाः ।
वृथा मांसानि खादन्ति नैप धर्मः प्रशस्यते ॥ १२.२७१.१० ॥

若人为祭柱而砍伐树木,又徒然食肉,这并不被赞为正法。

12.271.11

सुरां मत्स्यान्मधु मांसमासवं कृसरौदनम् ।
धूर्तैः प्रवर्तितं ह्येतन्नैतद्वेदेषु कल्पितम्।
कामान्मोहाच्च लोभाच्च लौल्यमेतत्प्रवर्तितम् ॥ १२.२७१.११ ॥

烈酒、鱼、蜂蜜、肉、发酵饮料和用芝麻煮的饭,都是骗子所推行的,吠陀中并未规定。这种贪欲是由欲望、迷惑和贪婪而传播开来的。

12.271.12

विष्णुमेवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः ।
पायसैः सुमनोभिश्च तस्यैव यजनं स्मृतम् ॥ १२.२७१.१२ ॥

在一切祭祀中,婆罗门只认识毗湿奴;以乳米饭和美丽的花供奉他的祭祀被传述。

12.271.13

यज्ञियाश्चैव ये वृक्षा वेदेषु परिकल्पिताः ।
यच्चापि किंचित्कर्तव्यमन्यच्चोक्षैः सुसंस्कृतम्।
महासत्वैः शुद्धभावैः सर्वं देवार्हमेव तत् ॥ १२.२७१.१३ ॥

《吠陀》所规定的可用于祭祀的树木,以及其他应当做的事,凡经妥善净化、由伟大而心地纯净之人所行的一切,都配得上诸神。

12.271.14

शरीरमापदश्चापि विवदन्त्यविहंसतः ।
कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यते ॥ १२.२७१.१४ ॥

身体与灾难也相互争辩。对于不伤害他人、不发起任何行动的人,身体的生存之路将如何成就?

12.271.15

यथा शरीरं न ग्लायेन्नेयान्मृत्युवशं यथा ।
तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत् ॥ १२.२७१.१५ ॥

正如身体不应疲惫,也不应落入死亡之手,有能力的人应投身于行动,奉行法(dharma)。