Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.278

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.278.1

बहूनां यज्ञतपसामेकार्थानां पितामह ।
धर्मार्थं न सुखार्थार्थं कथं यज्ञः समाहितः ॥ १२.२७८.१ ॥

祖父啊,当许多祭祀与苦行同有一个目的时,如何为了法而非为了享乐来确定祭祀?

12.278.2

अत्र ते वर्तयिष्यामि नारदेनानुकीर्तितम् ।
उञ्छवृत्तेः पुरावृत्तं यज्ञार्थे ब्राह्मणस्य च ॥ १२.२७८.२ ॥

在此我将为你讲述那古老的故事,由那罗陀所传,关于一位以拾穗为生并为祭祀而行动的婆罗门。

12.278.3

राष्ट्रे धर्मोत्तरे श्रेष्ठे विदर्भेष्वभवद्द्विजः ।
उञ्छवृत्तिर्ऋषिः कश्चिद्यज्ञं यष्टुं समादधे ॥ १२.२७८.३ ॥

在以法为尊的殊胜毘陀国,有一位以拾穗为生的再生者;那位仙人决定举行祭祀。

12.278.4

श्यामाकमशनं तत्र सूर्यपर्णी सुवर्चला ।
तिक्तं च विरसं शाकं तपसा स्वादुतां गतम् ॥ १२.२७८.४ ॥

他的食物是稷米(sāmā),以及苦涩无味的菜蔬 sūryaparṇī 与 suvarcalā,因苦行而变得甘甜。

12.278.5

उपगम्य वने पृथ्वीं सर्वभूताविहिंसया ।
अपि मूलफलैरिष्टो यज्ञः स्वर्ग्यः परंतप ॥ १२.२७८.५ ॥

进入森林,不伤害一切众生,即使以根与果实所行的祭祀,也能通向天界,敌人的焚烧者啊。

12.278.6

तस्य भार्या व्रतकृशा शुचिः पुष्करमालिनी ।
यज्ञपत्नी समानीता सत्येनानुविधीयते ॥ १२.२७८.६ ॥

他的妻子,因持戒而消瘦,清净的普什卡拉玛利尼,被迎来作为祭祀之妻,她凭借真实而追随他。

12.278.7

सा तु शापपरित्रस्ता तत्स्वभावानुर्तिनी ।
मायूरजीर्णपर्णानां वस्त्रं तस्याश्च वर्णितम् ॥ १२.२७८.७ ॥

她因诅咒而惊恐,顺从自己的本性。据载她所穿的是孔雀旧羽制成的衣服。

12.278.8

अकामया कृतस्तत्र यज्ञो होत्रनुमार्गतः ।
शुकस्य पुनराजातिरवध्यानादधर्मवत् ॥ १२.२७८.८ ॥

在那里,循着祭司的规程,祭祀被勉强举行;因轻慢,舍迦得以再生,如同因不义一般。

12.278.9

तस्मिन्वने समीपस्थो मृगोऽभूत्सहचारिकः ।
वचोभिरब्रवीत्सत्यं त्वयेदं दुष्कृतं कृतम् ॥ १२.२७८.९ ॥

在那片森林里,一头就近站立的鹿成为同伴,并用言语说出真相:"你做了这件恶事。"

12.278.10

यदि मन्त्राङ्गहीनोऽयं यज्ञो भवति वैकृतः ।
मा भोःप्रक्षिप होत्रे त्वं गच्छ स्वर्गमतन्द्रितः ॥ १२.२७८.१० ॥

若此祭祀因缺少咒文的支分而有所缺陷,啊,朋友,不要把它投入祭司的火中;你不知疲倦地前往天界吧。

12.278.11

ततस्तु यज्ञे सावित्री साक्षात्तं संन्यमन्त्रयत् ।
निमन्त्रयन्ती प्रत्युक्ता न हन्यां सहवासिनम् ॥ १२.२७८.११ ॥

于是在祭祀中,萨维特丽亲自制止他并与之言语;在邀请时,得到回答:"我不会杀害我的伴侣。"

12.278.12

एवमुक्त्वा निवृत्ता सा प्रवृत्ता यज्ञपावकात् ।
किंनु दुश्चरितं यज्ञे दिदृक्षुः सा रसातलम् ॥ १२.२७८.१२ ॥

说完这些她便离去,从祭火中升起;想要看看祭祀中有何恶行,她便下到了地下世界。

12.278.13

स तु बद्धाञ्जलिं सत्यमयाचद्धरिणः पुनः ।
सत्येन स परिष्वज्य संदिष्टो गम्यतामिति ॥ १२.२७८.१३ ॥

萨提耶合掌再次恳求那只鹿。他拥抱着它,吩咐道:“去吧。”

12.278.14

ततः स हरिणो गत्वा पदान्यष्टौ न्यवर्तत ।
साधु हिंसय मां सत्य हतो यास्यामि सद्गदितम् ॥ १२.२७८.१४ ॥

于是那只鹿走了八步又折返回来。“萨提耶啊,好好地杀我吧;被杀之后,我将前往善趣。”

12.278.15

पश्य ह्यप्सरसो दिव्या मया दत्तेन चक्षुषा ।
विमानानि विचित्राणि गन्धर्वाणां महात्मनाम् ॥ १२.२७८.१५ ॥

看吧,以我赐予你的天眼,看那些天界的阿普莎拉斯和高尚的乾达婆们奇妙的天车。

12.278.16

ततः स सुचिरं दृष्ट्वा स्पृहालग्नेन चक्षुषा ।
मृगमालोक्य हिंसायां स्वर्गवासं समर्थयत् ॥ १२.२७८.१६ ॥

于是他带着贪欲的目光久久凝视,看着那只鹿,为以暴力获得天界之居辩护。

12.278.17

स तु धर्मो मृगो भूत्वा बहुवर्षोषितो वने ।
तस्य निष्कृतिमाधत्त न त्वसौ यज्ञसंविधिः ॥ १२.२७८.१७ ॥

那位法神化为鹿,在森林中居住了许多年。他为此行了赎罪,但那并非祭祀之法。

12.278.18

तस्य तेनानुभावेन मृगहिंसात्मनस्तदा ।
तपो महत्समुच्छिन्नं तस्माद्धिंसा न यज्ञिया ॥ १२.२७८.१८ ॥

由于他的那份力量,当他心中执意要杀那只鹿时,他的大苦行被毁灭了。因此,暴力不适合于祭祀。

12.278.19

ततस्तं भगवान्धर्मो यज्ञं याजयत स्वयम् ।
समाधानं च भार्याया लेभे स तपसा परम् ॥ १२.२७८.१९ ॥

于是尊贵的法神亲自使他举行祭祀,他又凭苦行为妻子求得了至高的安宁。

12.278.20

अहिंसा परो धर्मो हिंसाधर्मस्तथा हितः ।
सत्यं तेऽहं प्रवक्ष्यामि नो धर्मः सत्यवादिनाम् ॥ १२.२७८.२० ॥

不害是至上的法;同样,害的法也被说为有益。我将对你说实话:这并非说真话者的法。