摩诃婆罗多 · 章 12.28
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.28.1
अव्याहरति राजेन्द्रे धर्मपुत्रे युधिष्ठिरे ।
गुडाकेशो हृषीकेशमभ्यभाषत पाण्डवः ॥ १२.२८.१ ॥
当众王之主、法之子坚战默然不语时,般度之子古达克舍(阿周那)对毛发主(黑天)说道。
12.28.2
ज्ञातिशोकाभिसंतप्तो धर्मपुत्रः परंतपः ।
एष शोकार्णवे मग्नस्तमाश्वासय माधव ॥ १२.२८.२ ॥
为亲族之忧所折磨的法之子,敌人的烧灼者,如今沉没于这悲哀的海洋。摩陀婆啊,请安慰他。
12.28.3
सर्वे स्म ते संशयिताः पुनरेव जनार्दन ।
अस्य शोकं महाप्राज्ञ प्रणाशयितुमर्हसि ॥ १२.२८.३ ॥
斯那陀那啊,我们所有人再次陷入困惑。大智者啊,您应当消除他的忧伤。
12.28.4
एवमुक्तस्तु गोविन्दो विजयेन महात्मना ।
पर्यवर्तत राजानं पुण्डरीकेक्षणोऽच्युतः ॥ १२.२८.४ ॥
大心的毗阁耶(阿周那)如此说后,莲花眼的不坏者哥文达转向了国王。
12.28.5
अनतिक्रमणीयो हि धर्मराजस्य केशवः ।
बाल्यात्प्रभृति गोविंदः प्रीत्या चाभ्यधिकोर्जुनात् ॥ १२.२८.५ ॥
法王不可轻慢柯沙瓦。自幼以来,哥文达因为爱戴,甚至比阿周那更受敬重。
12.28.6
संप्रगृह्य महाबाहुर्भुजं चन्दनभूषितम् ।
शैलस्तम्भोपमं शौरिरुवाचाभिविनोदयन् ॥ १२.२८.६ ॥
大臂的修利(黑天)紧握他那涂着檀香、如岩柱般的手臂,一边安慰他,一边说道。
12.28.7
शुशुभे वदनं तस्य सुदंष्ट्रं चारुलोचनम् ।
व्याकोचमिव विस्पष्टं पझं सूर्यविबोधितम् ॥ १२.२८.७ ॥
他的面容因整齐的牙齿和美丽的双眼而焕发光彩,如同被太阳唤醒、清晰绽放的莲花。
12.28.8
मा कृथाः पुरुषव्याघ्र शोकं त्वं गात्रशोषणम् ।
न हि ते सुलभा भूयो ये हताऽस्मिन्रणाजिरे ॥ १२.२८.८ ॥
人中之虎啊,不要为那使身体枯槁的悲伤所苦;那些在此战场上被杀的人,你不会轻易再得到他们。
12.28.9
स्वप्नलब्धा यथा लाभा वितथाः प्रतिबोधने ।
तथा ते क्षत्रिया राजन्ये व्यतीता महारणे ॥ १२.२८.९ ॥
如同梦中所得的利益醒来后便成虚假,国王啊,那些刹帝利和王者也在这场大战中逝去了。
12.28.10
सर्वे ह्यभिमुखाः शूरा निहता रणशोभिनः ।
नैषां कश्चित्पृष्ठतो वा पलायन्वा निपातितः ॥ १२.२८.१० ॥
所有英勇的战士,战场的光彩,都是面对敌人被杀的;他们中没有一人是从背后或在逃跑时被击倒的。
12.28.11
सर्वे त्यक्त्वाऽऽत्मनः प्राणान्युद्ध्वा वीरा महामृधे ।
शस्त्रपूता दिवं प्राप्ता न ताञ्छोचितुमर्हसि ॥ १२.२८.११ ॥
所有这些英雄舍弃了自己的生命,在大战中奋战,因兵器而得到净化,已到达天界;你不应该为他们悲伤。
12.28.12
क्षत्रधर्मरताः शूरा वेदवेदाङ्गपारगाः ।
प्राप्ता वीरगतिं पुण्यां तान्न शोचितुमर्हसि।
मृतान्महानुभावांस्त्वं श्रुत्वैव पृथिवीपतीन् ॥ १२.२८.१२ ॥
那些奉行刹帝利之法、精通吠陀及其支分的英雄,已获得了功德圆满的英雄之道;你不应为他们悲伤。即使听闻这些伟大地上之王已逝,你也不应悲伤。
12.28.13
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
सृञ्जयं पुत्रशोकार्तं यथाऽयं नारदोऽब्रवीत् ॥ १२.२८.१३ ॥
此处引述这段古老的故事:Sṛñjaya因丧子之痛而煎熬,正如那罗陀所说。
12.28.14
सुखदुःखैरहं त्वं च प्रजाः सर्वाश्च सृञ्जय ।
अविमुक्ता मरिष्यामस्तत्र का परिदेवना ॥ १२.२८.१४ ॥
我、你和一切众生都被苦乐所缚,Sṛñjaya啊,我们终将死去;那又何必悲叹呢?
12.28.15
महाभाग्यं पुरा राज्ञां कीर्त्यमानं मया शृणु ।
गच्छावधानं नृपते ततो दुःखं प्रहास्यसि ॥ १२.२८.१५ ॥
请听我讲述往昔诸王的大福分。专心听吧,国王,那样你就会放下忧愁。
12.28.16
मृतान्महानुभावांस्त्वं श्रुत्वैव पृथिवीपतीन् ।
शममानय संतापं शृणु विस्तरशश्च मे।
क्रूरग्रहाभिशमनमायुर्वर्धनमुत्तमम् ॥ १२.२८.१६ ॥
听闻那些已逝的伟大君王之事,你便可得平静,放下煎熬。请详细听我说:这是平息凶星、增益寿命的至上之法。
12.28.17
अग्रिमाणां क्षितिभुजामुदारं च मनोहरम् ।
आविक्षितं मरुत्तं च मृतं सृञ्जय शुश्रुम ॥ १२.२८.१७ ॥
Sṛñjaya啊,我们听说,地上君主中的第一人、高尚而可爱的阿维克希特与摩如多已经死去。
12.28.18
यस्य सेन्द्राः सवरुणा बृहस्पतिपुरोगमाः ।
देवा विश्वसृजो राज्ञो यज्ञमीयुर्महात्मनः ॥ १२.२८.१८ ॥
那位伟大心灵的国王举行祭祀时,以布里哈斯帕提为首的创世诸神与因陀罗、伐楼那一同前来,
12.28.19
यः स्पर्धामानयच्छक्रं देवराजं पुरंदरम् ।
शक्रप्रियैषी यं विद्वान्प्रत्याचष्ट बृहस्पतिः ॥ १२.२८.१९ ॥
那使天王、摧城者帝释陷入竞争之人,以及那被希望帝释喜悦的智者伽利婆提所拒绝之人——
12.28.20
संवर्तो याजयामास यं पीडार्थं बृहस्पतेः ॥ १२.२८.२० ॥
娑摩伐多为了伤害伽利婆提而为之主持祭祀之人——
12.28.21
यस्मिन्प्रशासति महीं नृपतौ राजसत्तम ।
अकृष्टपच्या पृथिवी विबभौ सस्यमालिनी ॥ १२.२८.२१ ॥
诸王之最啊,在那位统治大地的君王治下,无需耕种便能丰收的大地,披着谷物的花环而光彩夺目。
12.28.22
आविक्षितस्य वै सत्रे विश्वेदेवाः सभासदः ।
मरुतः परिवेष्टारः साध्याश्चासन्महात्मनः ॥ १२.२८.२२ ॥
在阿维克希多的祭会上,诸毗舍提神充当座中之人,摩录多们充当侍者,而那位大德的祭祀中也有萨陀耶神。
12.28.23
मरुद्गण मरुत्तस्य यत्सोममपिबंस्ततः ।
देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः ॥ १२.२८.२३ ॥
摩录多众啊,当你们在摩卢陀的祭祀中饮用苏摩时,诸神、人类和乾达婆在祭礼的布施上都被超越了。
12.28.24
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ १२.२८.२४ ॥
娑罗阇耶啊,即便他已死去,对你而言也是四倍的吉祥;他比儿子更有功德。因此,不要为儿子悲伤。
12.28.25
सुहोत्रं च द्वतिथिनं मृतं सृञ्जय शुश्रुम ।
यस्मे हिरण्यं ववृषे मघवा परिवत्सरम् ॥ १२.२८.२५ ॥
萨涅耶啊,我们听说维提提之子苏霍特拉已经死去;为他,摩伽梵(因陀罗)降下了整整一年的黄金雨。
12.28.26
सत्यनामा वसुमती यं प्राप्यासीञ्जनाधिपम् ।
हिरण्यमवहन्नद्यस्तस्मिञ्जनपदेश्वरे ॥ १२.२८.२६ ॥
在那位被萨提耶纳玛与婆苏玛蒂所得到的国土之主的时代,河流都裹挟着黄金。
12.28.27
मत्स्यान्कर्कटकान्नक्रान्मकराञ्छिंशुकानपि ।
नदीष्ववासृजद्राजन्मघवा लोकपूजितः ॥ १२.२८.२७ ॥
大王啊,被世界所尊崇的摩伽梵(因陀罗)把鱼、蟹、鳄鱼、摩伽罗与金翅鱼放入河中。
12.28.28
हैरण्यान्पातितान्दृष्ट्वा मत्स्यान्मकरकच्छपान् ।
सहस्रशोऽथ शतशस्ततोऽस्मयत वैतिथिः ॥ १२.२८.२८ ॥
看见成千上百的金鱼、摩伽罗与龟被抛落在地,维提提之子于是笑了。
12.28.29
तद्धिरण्यमपर्यन्तमावृतं कुरुजाङ्गले ।
ईजानो वितते यज्ञे ब्राह्मणेभ्यः समार्पयत् ॥ १२.२८.२९ ॥
那覆盖了俱卢将军地的无边黄金,他在大规模祭祀中全部奉献给了婆罗门。
12.28.30
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः।
अदक्षिणमयज्वानं श्वैत्य संशाम्य माशुचः ॥ १२.२८.३० ॥
萨涅耶啊,若他已死去,他比你幸运四倍,比儿子更有福德。不要为一个不布施、不祭祀的儿子悲伤;希特亚之子啊,平静下来,不要忧愁。
12.28.31
अङ्गं बृहद्रथं चैव मृतं सृञ्जय शुश्रुम ।
यः सहस्रं सहस्राणां श्वेतानश्वानवासृजात् ॥ १२.२८.३१ ॥
桑闍耶啊,我们听说盎伽与布利诃德拉陀已经死去,他曾施舍了千千万万匹白马。
12.28.32
सहस्रं च सहस्राणां कन्या हमपरिष्कृताः ।
ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ॥ १२.२८.३२ ॥
还有千千万万身饰黄金的少女。在广大的祭祀中行祭时,他把她们作为祭祀酬礼过量布施。
12.28.33
यः सहस्रं सहस्राणां गजानां पझमालिनाम् ।
ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ॥ १२.२८.३३ ॥
在广大的祭祀中行祭时,他把佩戴莲花花环的千千万万头大象作为祭祀酬礼过量布施。
12.28.34
शतं शतसहस्राणि वृषाणां हेममालिनाम् ।
गवां सहस्रानुचरं दक्षिणामत्यकालयत् ॥ १२.२८.३४ ॥
佩戴金花环的十万头公牛,以及带着千名随从的母牛——他把这些全部作为祭祀酬礼过量布施。
12.28.35
अङ्गस्य यजमानस्य तदा विष्णुपदे गिरौ ।
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ॥ १२.२८.३५ ॥
那时,在毗湿奴足下的山上,因众生主盎伽所献的苏摩,因陀罗欢喜;再生族也因布施而欢喜。
12.28.36
यस्य यज्ञेषु राजेन्द्र शतसङ्ख्येषु वै पुरा ।
देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः ॥ १२.२८.३६ ॥
啊,诸王之王!昔日他那数以百计的祭祀中,布施超过了诸神、人类与乾闼婆。
12.28.37
न जातो जनिता नान्यः पुमान्यः संप्रदास्यति ।
यदङ्गः प्रददौ वित्तं सोमसंस्थासु सप्तसु ॥ १२.२८.३७ ॥
从未有人降生,也无父亲,亦无其他人会像盎伽在七次苏摩祭中布施财富那样布施。
12.28.38
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ १२.२८.३८ ॥
悉岚阇耶啊,若他已死,他比你幸运四倍,甚至比儿子更有功德。因此,不要为儿子悲伤。
12.28.39
शिबिमौशीनरं चैव मृतं सृञ्जय शुश्रुम ।
य इमां पृथिवीं सर्वां चर्मवत्समवेष्टयत् ॥ १२.२८.३९ ॥
悉岚阇耶啊,我们听说乌尸那罗之子尸毗也已死去,他曾像兽皮一样包裹了整个大地。
12.28.40
महता रथघोषेण पृथिवीमनुनादयन् ।
एकच्छत्रां महीं चक्रे जैत्रेणैकरथेन यः ॥ १२.२८.४० ॥
以大战车的轰鸣震动大地,凭一辆得胜之车使大地在一把伞盖之下。
12.28.41
यावदस्य गवाश्वं स्यादारण्यैः पशुभिः सह ।
तावतीः प्रददौ गाः स शिबिरौशीनरोऽध्वरे ॥ १२.२८.४१ ॥
乌尸那罗之子尸毗在祭祀中布施的牛,与其所有的牛、马和野兽之数相同。
12.28.42
न वोढारं धुरं तस्य कंचिन्मेने प्रजापतिः ।
न भूतं न भविष्यं च सर्वराजसु सृञ्जय।
अन्यत्रौशीनराच्छैब्याद्राजर्षेरिन्द्रविक्रमात् ॥ १२.२८.४२ ॥
悉岚阇耶啊,造物主在过去和未来的所有国王中,除了乌尸那罗之子、如因陀罗般勇武的王仙尸毗(Śaibya),不认为有谁能承担他的重轭。
12.28.43
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ १२.२८.४३ ॥
萨阳迦啊,若他已死,你便是四倍的有福,甚至比有子更有功德。不要为你的儿子悲伤。
12.28.44
अदक्षिणमयज्वानं पुत्रं संस्मृत्य मा शुचः ॥ १२.२८.४४ ॥
若想起一个不布施、不祭祀的儿子,不要悲伤。
12.28.45
भरतं चैव दौष्यन्तिं मृतं सृञ्जय शुश्रुम ।
शाकुन्तलं महात्मानं भूरिद्रविणतेजसम् ॥ १२.२८.४५ ॥
萨阳迦啊,我们听说,杜什扬塔之子婆罗多,沙恭达罗的伟大之子,财富与光辉无量,也已死去。
12.28.46
योऽबध्नात्रिशतं चाश्वान्देवेभ्यो यमुनामनु ।
सरस्वतीं विंशतिं च गङ्गामनु चतुर्दश ॥ १२.२८.४६ ॥
他为诸神在亚穆纳河岸系了三百匹马,在萨罗室伐蒂河岸二十匹,在恒河岸十四匹。
12.28.47
अश्वमेधसहस्रेण राजसूयशतेन च ।
इष्टवान्स महातेजा दौष्यन्तिर्भरतः पुरा ॥ १२.२८.४७ ॥
往昔,光辉极盛的杜什扬塔之子婆罗多曾举行一千次马祭和一百次王祭。
12.28.48
भरतस्य महत्कर्म सवराजसु पार्थिवाः ।
स्वं मर्त्या इव बाहुभ्यां नानुगन्तुमशक्नुवन् ॥ १२.२८.४८ ॥
婆罗多的伟大功业,诸王啊,所有国王中无人能以凡人双臂追随。
12.28.49
परं सहस्राद्योऽबध्नाद्धयान्वेदीर्वितत्य च ।
सहस्रं यत्र पद्मानां कण्वाय भरतो ददौ ॥ १२.२८.४९ ॥
他系住了一千多匹马并铺设了祭坛,在那里,婆罗多将一千个帕德玛(金币)赠予了迦纳瓦。
12.28.50
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ १२.२८.५० ॥
娑利耶阇耶啊,如果那位比你吉祥四倍、比儿子更有功德的人已经死去,就不要为儿子悲伤。
12.28.51
रामं दाशरथिं चैव मृतं सृञ्जय शुश्रुम ।
योऽन्वकम्पत वै नित्यं प्रजाः पुत्रानिवौरसान् ॥ १२.२८.५१ ॥
娑利耶阇耶啊,我们听说十车王之子罗摩也已死去。他总是怜悯臣民,如同怜爱自己亲生的儿子。
12.28.52
नाधनो यस्य विषये नानर्थः कस्यचिद्भवेत् ।
सर्वस्यासीत्पितृसमो रामो राज्यं यदन्वशात् ॥ १२.२८.५२ ॥
在他的国土上无人贫穷,也无人遭遇灾祸——罗摩对所有人都如同父亲,因为他统治着国家。
12.28.53
कालवर्षी च पर्जन्यः सस्यानि समपादयत् ।
नित्यं सुभिक्षमेवासीद्रामे राज्यं प्रशासति ॥ १२.२८.५३ ॥
罗摩统治国家时,雨云按时降雨,使庄稼全面生长;总是食物充足。
12.28.54
प्राणिनो नाप्सु मञ्जन्ति नानर्थे पावकोऽदहत् ।
न व्यालतो भयं चासीद्रामे राज्यं प्रशासति ॥ १२.२८.५४ ॥
罗摩统治国家时,众生不会溺于水中,灾难中火也不会焚烧,也没有来自猛兽的恐惧。
12.28.55
आसन्वर्षसहस्रिण्यस्तथा वर्षसहस्रकाः ।
अरोगाः सर्वसिद्धार्था रामे राज्यं प्रशासति ॥ १२.२८.५५ ॥
罗摩治理国家时,人们活了数千年,无病无痛,所求皆成。
12.28.56
नान्योन्येन विवादोऽभूत्स्त्रीणामपि कुतो नृणाम् ।
धर्मनित्याः प्रजाश्चासन्रामे राज्यं प्रशासति ॥ १२.२८.५६ ॥
罗摩治理国家时,人们之间没有争执,女子之间亦无,更何况男子;臣民始终坚守法度。
12.28.57
संतुष्टाः सर्वसिद्धार्था निर्भयाः स्वैरचारिणः ।
नराः सत्यव्रताश्चासन्रामे राज्यं प्रशासति ॥ १२.२८.५७ ॥
罗摩治理国家时,人们知足安乐,所求皆成,无所畏惧,随意往来,持守真实的誓愿。
12.28.58
नित्यपुष्पफलाश्चैव पादपा निरुपद्रवाः ।
सर्वा द्रोणदुघा गावो रामे राज्यं प्रशासति ॥ १२.२८.५८ ॥
罗摩治理国家时,树木常年开花结果,毫无灾害;所有的牛都能产出一德罗纳的奶。
12.28.59
स चतुर्दश वर्षाणि वने प्रोष्य महातपाः ।
दशाश्वमेधाञ्जारूथ्यानाजहार निरर्गलान् ॥ १२.२८.५९ ॥
这位大苦行者在森林中住了十四年,之后毫无阻碍地举行了十次马祭。
12.28.60
युवा श्यामो लोहिताक्षो मातङ्ग इव यूथपः ।
आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ॥ १२.२८.६० ॥
他年轻,肤色黝黑,眼睛赤红,如同率领象群的象王;双臂长至膝盖,面容俊美,肩如狮子,双臂强健有力。
12.28.61
दशवर्षसहस्राणि दशवर्षशतानि च ।
अयोध्याधिपतिर्भूत्वा रामो राज्यमकारयत् ॥ १२.२८.६१ ॥
罗摩成为阿逾陀的主人,统治王国达一万零一千年。
12.28.62
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यं मा पुत्रमनुतप्यथाः ॥ १२.२८.६२ ॥
娑利耶阁啊,若他已死去,对你而言这是四倍的吉祥,甚至比有子更有功德。不要为一个未行祭祀、未施布施的儿子悲伤;不要为他悲伤。
12.28.63
भगीरथं च राजानं मृतं सृञ्जय शुश्रुम् ।
यस्येन्द्रो वितते यज्ञे सोमं पीत्वा मदोत्कटः ॥ १२.२८.६३ ॥
娑利耶阁啊,我们听说国王婆吉罗陀也已死去。在他的盛大祭祀中,因્ 饮了苏摩,因̱ 因陀罗欢喜沉醉。
12.28.64
असुराणां सहस्राणि बहूनि सुरसत्तमः ।
अजयद्वाहुवीर्येण भगवान्पाकशासनः ॥ १२.२८.६४ ॥
诸神中最优秀的圣者帝释,即伐灭波迦者,凭借双臂的力量征服了成千上万的阿修罗。
12.28.65
यः सहस्रं सहस्राणां कन्या हेमविभूषिताः ।
ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ॥ १२.२८.६५ ॥
举行盛大祭祀时,他以布施之礼,过度地赠予了成千上万身着金饰的少女。
12.28.66
सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः ।
शतंशतं रथे नागाः पझिनो हेममालिनः ॥ १२.२८.६६ ॥
所有少女都乘坐战车,所有战车都套着四匹马;每辆战车上有一百头大象,装饰着旗帜和金色花环。
12.28.67
सहस्रमश्वा एकैकं हस्तिनं पृष्ठतोऽन्वयुः ।
गवां सहस्रमश्वेऽश्वे सहस्रं गव्यजाविकम् ॥ १२.२८.६७ ॥
每头象之后跟随一千匹马,每匹马旁则有一千头牛以及牛、山羊和绵羊的群。
12.28.68
उपह्वरे निवसतो यस्याङ्के निषसाद ह ।
गङ्गा भागीरथी तस्मादुर्वशी चाभवत्पुरा ॥ १२.२८.६८ ॥
她坐在一位隐居者的膝上;从他那里,古时诞生了被称为婆吉罗提的恒河,以及乌尔瓦希。
12.28.69
भूरिदक्षिणमिक्ष्वाकुं यजमानं भगीरथम् ।
त्रिलोकपथगा गङ्गा दुहितृत्वमुपेयुषी ॥ १२.२८.६९ ॥
为了举行大量布施祭祀的伊刹婆迦族婆吉罗陀,流经三界的恒河取得了女儿的身份。
12.28.70
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ १२.२८.७० ॥
悉陀耶啊,若他已死,对你而言这是四倍吉祥,甚至比有子更有功德。因此不要为儿子悲伤。
12.28.71
दिलीपं च महात्मानं मृतं सृञ्जय शुश्रुम ।
प्रस्य कर्माणि भूरीणि कथयन्ति द्विजातयः ॥ १२.२८.७१ ॥
悉陀耶啊,我们听说伟大的迪利波也曾死去;婆罗门讲述他的许多功业。
12.28.72
य इमां वसुसंपूर्णां वसुधां वसुधाधिपः ।
ददौ तस्मिन्महायज्ञे ब्राह्मणेभ्यः समाहितः ॥ १२.२८.७२ ॥
那位地上之主在那场大祭中,专心一意地将这充满财富的大地施予了婆罗门。
12.28.73
यस्येह यजमानस्य यज्ञेयज्ञे पुरोहितः ।
सहस्रं वारणान्हैमान्दक्षिणामत्यकालयत् ॥ १२.२८.७३ ॥
在此,那位施主每一次祭祀中,家祭司都以金饰的千头大象作为酬金,远超常规。
12.28.74
यस्य यज्ञे महानासीद्यूपः श्रीमान्हिरण्मयः ।
ते देवां कर्म कुर्वाणाः शक्रज्येष्ठा उपासत ॥ १२.२८.७४ ॥
在其祭祀中立有一根宏伟辉煌的金祭柱,诸神以帝释为长,在那里行祭并侍奉。
12.28.75
चषाले यस्य सौवर्णे तस्मिन्यूपे हिरण्मये ।
ननृतुर्देवगन्धर्वाः षट्सहस्राणि सप्तधा ॥ १२.२८.७५ ॥
在其金色的祭坛围栏中,以及那金柱之上,诸神与乾闼婆共六千,以七种方式起舞。
12.28.76
अवादयत्तत्र वीणां मध्ये विश्वावसुः स्वयम् ।
सर्वभूतान्यमन्यन्त मम वादयतीत्ययम् ॥ १२.२८.७६ ॥
Viśvāvasu 亲自在中间弹奏维纳琴;一切众生都以为:“他是为我而弹。”
12.28.77
एतद्राज्ञो दिलीपस्य राजानो नानुचक्रिरे ।
यस्येभा हेमसंछन्नाः पथि मत्ताः स्म शेरते ॥ १२.२८.७७ ॥
其他国王没有效仿国王迪利普的这一善举;他那覆金的发情大象曾卧于道上。
12.28.78
राजानं शतधन्वानं दिलीपं सत्यवादिनम् ।
येऽपश्यन्सुमहात्मानं तेऽपि स्वर्गजितो नराः ॥ १२.२८.७८ ॥
那些见过国王沙塔檀婆与诚实的迪利普——那位大德者的人,也都赢得了天界。
12.28.79
त्रयः शब्दा न जीर्यन्ते दिलीपस्य निवेशने ।
स्वाध्यायशब्दः ज्याशब्दः शब्दो वै दीयतामिति ॥ १२.२८.७९ ॥
在狄利普的府中,三种声音从不消逝:诵读吠陀之声、弓弦之声,以及“请施予”之声。
12.28.80
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ १२.२८.८० ॥
悉尼闍耶,若他已死,他对你而言比儿子更吉祥四倍、更有功德;因此不要为儿子悲伤。
12.28.81
मान्धातारं यौवनाश्वं मृतं सृञ्जय शुश्रुम ।
यं देवा मरुतो गर्भं पितुः पार्श्वादपाहरन् ॥ १२.२८.८१ ॥
悉尼闍耶,我们听说过优婆那什瓦之子曼陀多,他的胎儿被诸天与摩录多从父亲的胁下取出。
12.28.82
समृद्धो युवनाश्वस्य जठरे यो महात्मनः ।
पृषदाज्योद्भवः श्रीमांस्त्रिलोकविजयी नृपः ॥ १२.२८.८२ ॥
在大心者优婆那什瓦腹中成长的光荣君王,由凝乳与酥油而生,征服三界者。
12.28.83
यं दृष्ट्वा पितुरुत्सङ्गे शयानं देवरूपिणम् ।
अन्योन्यमब्रुवन्देवाः कमयं धास्यतीति वै ॥ १२.२८.८३ ॥
诸神见这神形的孩子睡在父亲膝上,彼此说道:“这孩子将养育谁?”
12.28.84
मामेव धास्यतीत्येवमिन्द्रोऽथाभ्युपपद्यत ।
मांधातेति ततस्तस्य नाम चक्रे शतक्रतुः ॥ १२.२८.८४ ॥
“此子将养育我”,因子而许诺,因陀罗便为他取名为曼陀多,他便是百祭的因陀罗。
12.28.85
ततस्तु पयसो धारां पुष्टिहेतोर्महात्मनः ।
तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत् ॥ १२.२८.८५ ॥
于是,为了滋养这位大心者,乳流从欲婆那斯瓦的口中涌出,也从因陀罗的手中流出。
12.28.86
तं पिवन्पाणिमिन्द्रस्य शतमह्ना व्यवर्धत ।
स आसीद्द्वादशसमो द्वादशाहेन पार्थिवः ॥ १२.२८.८६ ॥
他从因陀罗的手中饮用,一天之内增长了百倍;十二天内,这位国王便如同十二岁的人一般大小。
12.28.87
तमिमं पृथिवी सर्वा एकाह्ना समपद्यत ।
धर्मात्मानं महात्मानं शूरमिन्द्रसमं युधि ॥ १२.२८.८७ ॥
一天之内,整个大地都归属于这位正法之人、大心的英雄,他在战场上与因陀罗相等。
12.28.88
यश्चाङ्गारं तु नृपतिं मरुत्तमसितं गयम् ।
अङ्गं बृहद्रथं चैव मान्धाता समरेऽजयत् ॥ १२.२८.८८ ॥
还有,摩檀陀在战场上击败了安伽罗、国王摩路多、阿悉多、伽耶、盎伽与大车王。
12.28.89
यौवनाश्वो यदाङ्गारं समरे प्रत्ययुध्यत ।
विस्फारैर्धनुषो देवा द्यौरभेदीति मेनिरे ॥ १२.२८.८९ ॥
当欲婆那斯瓦在战场上与安伽罗交战时,诸神以为天空会因他弓弦的鸣响而裂开。
12.28.90
यत्र सूर्य उदेति स्म यत्र च प्रतितिष्ठति ।
सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥ १२.२८.९० ॥
太阳升起之处与落下之处,皆被称为欲婆那斯瓦之子摩檀陀的领地。
12.28.91
अश्वमेधशतेनेष्ट्वा राजसूयशतेन च ।
अददद्रोहितान्मत्स्यान्ब्राह्मणेभ्यो विशांपते ॥ १२.२८.९१ ॥
他举行了一百次马祭和一百次王祭,向婆罗门布施红色的鱼,啊,人民之主。
12.28.92
हैरण्यान्यो जनोत्सेधानायतान्दशयोजनम् ।
अतिरिक्तान्द्विजातिभ्यो व्यभजंस्त्वितरे जनाः ॥ १२.२८.९२ ॥
那些与人等高、长十由旬的金山,其余的被其他人分给了再生者。
12.28.93
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ १२.२८.९३ ॥
若他已死,啊,斯林耶,他比你幸运四倍,甚至比儿子更有功德。不要为儿子悲伤。
12.28.94
ययातिं नाहुषं चैव मृतं सृञ्जय शुश्रुम ।
य इमां पृथिवीं कृत्स्नां विजित्य सहसागराम् ॥ १२.२८.९४ ॥
啊,斯林耶,我们听说,征服了连同海洋在内的整个大地的那હુષ之子耶阇提也死了。
12.28.95
शम्यापातेनाभ्यतीयाद्वेदीभिश्चित्रयन्महीम् ।
ईजानः क्रतुभिर्मुख्यैः पर्यगच्छद्वसुन्धराम् ॥ १२.२८.९५ ॥
他行至投掷祭柱之距,以祭坛装饰大地,主持各大祭祀,巡行遍历了大地。
12.28.96
इष्ट्वा क्रतुसहस्रेण वाजपेयशतेन च ।
तर्पयामास विप्रेन्द्रांस्त्रिभिः काञ्चनपर्वतैः ॥ १२.२८.९६ ॥
他举行了一千次祭祀和一百次跋阇裴耶,以三座金山使最尊贵的婆罗门心满意足。
12.28.97
व्यूढेनासुरयुद्धेन हत्वा दैतेयदानवान् ।
व्यभजत्पृथिवीं कृत्स्नां ययातिर्नहुषात्मजः ॥ १२.२८.९७ ॥
在与阿修罗的阵列之战中,杀死了提提与檀那婆,那呼沙之子耶耶提分割了整个大地。
12.28.98
अन्त्येषु पुत्रान्निक्षिप्य यदुद्रुह्युपुरोगमान् ।
पुरुं राज्येऽभिषिच्याथ सदारः प्राविशद्वनम् ॥ १२.२८.९८ ॥
他安置了以雅都、德鲁希为首的诸子,为普如举行了王位灌顶,然后与妻子们一同进入了森林。
12.28.99
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ १२.२८.९९ ॥
悉若他已死去,对你而言便是四倍的吉祥,比儿子更为有功德。因此不要为儿子悲伤。
12.28.100
अम्बरीषं च नाभागं मृतं सृञ्जय शुश्रुम ।
यं प्रजा वव्रिरे पुण्यं गोप्तारं नृपसत्तमम् ॥ १२.२८.१०० ॥
悉,我们听说阿姆巴利沙与那跋伽已经去世,他们是百姓所选定的有功德的护卫者、最优秀的君王。
12.28.101
यः सहस्रं सहस्राणां राज्ञामयुतयाजिनाम् ।
ईजानो वितते यज्ञे ब्राह्मणेभ्यस्त्वमन्यत ॥ १२.२८.१०१ ॥
你应当视自己为那位在千名行过万次祭祀的国王之中,在广大的祭典中一边献祭一边布施给婆罗门的人。
12.28.102
नैतत्पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे ।
इत्यम्बरीषं नाभागिमन्वमोदन्त दक्षिणाः ॥ १२.२८.१०२ ॥
“这是前人未曾做过的,后人也不会做。”于是接受布施的婆罗门们认可了那跋伽之子安巴利沙。
12.28.103
शतं राजसहस्राणि शतं राजशतानि च ।
सर्वेऽश्वमेधैरीजानास्तेऽन्वयुर्दक्षिणायनम् ॥ १२.२८.१०३ ॥
千位国王与百位国王,凡举行过马祭者,都随南行之路(南行 dakṣiṇāyana)而去。
12.28.104
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ १२.२८.१०४ ॥
若他已死,哦,斯林阇耶,你比他还要幸运四倍,甚至比有子更有功德。因此不要为儿子悲伤。
12.28.105
शशबिन्दुं चैत्ररथं मृतं शुश्रुम सृञ्जय ।
यस्य भार्यासहस्राणां शतमासीन्महात्मनः ॥ १२.२८.१०५ ॥
我们听说,斯林阇耶啊,持车之裔沙舍频度已死——那位大德曾有十万妻妾。
12.28.106
सहस्रं तु सहस्राणां यस्यासञ्शाशबिन्दवाः ।
हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः ॥ १२.२८.१०६ ॥
他有成千上万的沙舍频度之子,皆着金甲,皆是最善射的弓手。
12.28.107
शतं कन्या राजपुत्रमेकैकं पृथगन्वयुः ।
कन्यांकन्यां शतं नागा नागंनागं शतं रथाः ॥ १२.२८.१०७ ॥
每位王子各自伴随一百位少女;每位少女有一百头象,每头象有一百辆战车随行。
12.28.108
रथेरथे शतं चाश्वा देशजा हेममालिनः ।
अश्वेअश्वे शतं गावो गांगां तद्वदजाविकम् ॥ १२.२८.१०८ ॥
每辆战车随行一百匹本土良马,饰以金环;每匹马随行一百头牛;每头牛同样随行山羊与绵羊。
12.28.109
एतद्धनमपर्यन्तमश्वमेधे महामखे ।
शशबिन्दुर्महाराज ब्राह्मणेभ्यो ह्यमन्यत ॥ १२.२८.१०९ ॥
在大马祠中,这些财富无穷无尽,伟大的国王舍舍宾杜将其布施给了婆罗门。
12.28.110
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ १२.२८.११० ॥
悉闪阇耶啊,即使他死了,对你而言他也比儿子吉祥四倍、功德更多;所以不要为你的儿子悲伤。
12.28.111
गयं चाधूर्तरजसं मृतं शुश्रुम सृञ्जय ।
यः स वर्षशतं राजा हुतशिष्टाशनोऽभवत् ॥ १२.२८.१११ ॥
悉闪阇耶啊,我们听说净无尘垢的国王伽耶已经去世;他曾作为国王,食用祭祀的剩余供品长达百年。
12.28.112
यस्मै वह्निर्वरान्प्रादात्ततो वव्रे वरान्गयः ।
ददतो मे क्षयो मा भूद्धर्मे श्रद्धा च वर्धताम् ॥ १२.२८.११२ ॥
火神赐予他恩惠时,伽耶便选择了这些恩惠:'愿我的布施不致减损,愿我对法的信心增长。'
12.28.113
मनो मे रभतां सत्ये त्वत्प्रसादाद्धुताशन ।
लेभे च कामांस्तान्सर्वान्पावकादिति नः श्रुतम् ॥ १२.२८.११३ ॥
啊,火神,愿借你的恩典,我的心坚定于真理;我们听说,他从火神那里获得了他所有的愿望。
12.28.114
दर्शेन पूर्णमासेन चातुर्मास्यैः पुनः पुनः ।
अयजद्धयमेधेन सहस्रं परिवत्सरान् ॥ १२.२८.११४ ॥
他以新月、满月之祭,并一再以四月祭,以马祠祭祀了一千年。
12.28.115
शतं गवां सहस्राणि शतमश्वशतानि च ।
उत्थायोत्थाय वै प्रादात्सहस्रं परिवत्सरान् ॥ १२.२८.११५ ॥
十万头牛和数百匹马;他一次又一次地起身,连续千年布施。
12.28.116
तर्पयामास सोमेन देवान्वित्तैर्द्विजानपि ।
पितॄन्स्वधाभिः कामैश्च स्त्रियः स्वाः पुरुषर्षभ ॥ १२.२८.११६ ॥
他以苏摩使诸神满足,以财富使再生者满足,以娑陀供养使祖先满足,以所欲之物使自己的妻妾满足,人中之牛啊。
12.28.117
सौवर्णां पृथिवीं कृत्वा दशव्यामां द्विरायताम् ।
दक्षिणामददद्राजा वाजिमेधे महाक्रतौ ॥ १२.२८.११७ ॥
他用黄金造了一片大地,宽十瓦亚马,长为其两倍,国王在大马祭中将其作为布施金(达克希纳)献上。
12.28.118
यावत्यः सिकता राजन्गङ्गायां पुरुषर्षभ ।
तावतीरेव गाः प्रादादाधूर्तरजसो गयः ॥ १२.२८.११८ ॥
恒河中有多少沙粒,王啊,人中之牛啊,伽耶便布施了多少头牛。
12.28.119
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ १२.२८.११९ ॥
若他已死,王啊,桑遮耶,他比你幸运四倍,甚至比儿子更有福德。不要为你的儿子悲伤。
12.28.120
रन्तिदेवं च सांकृत्यं मृतं सृञ्जय शुश्रुम ।
सम्यगाराध्य यः शक्राद्वरं लेभे महातपाः ॥ १२.२८.१२० ॥
桑遮耶啊,我们听说桑克里蒂之子蓝提提婆已经死去;那位大苦行者,恰当地崇拜了因陀罗之后,从因陀罗那里获得了一个恩赐。
12.28.121
अन्नं च नो बहु भवेदतिथींश्च लभेमहि ।
श्रद्धा च नो मा व्यगमन्मा च याचिष्म कंचन ॥ १२.२८.१२१ ॥
愿我们有充足的食物,愿有客人来到我们这里,愿我们的信心永不离去,愿我们不向任何人乞求。
12.28.122
उपातिष्ठन्त पशवः स्वयं तं संशितव्रतम् ।
ग्राम्यारण्या महात्मानं रन्तिदेवं यशस्विनम् ॥ १२.२८.१२२ ॥
家畜与野兽自动来到坚守严格誓愿、伟大而著名的蓝提提婆身边。
12.28.123
महानदी चर्मराशेरुत्क्लेदात्ससृजे यतः ।
ततश्चर्मण्वतीत्येवं विख्याता सा महानदी ॥ १२.२८.१२३ ॥
从皮革堆的渗漏中涌出一条大河,因此这条大河便以“恰尔曼瓦蒂”之名而如此闻名。
12.28.124
ब्राह्मणेभ्यो ददौ निष्कान्सदसि प्रतते नृपः ।
तुभ्यंतुभ्यं निष्कमिति यदा क्रोशन्ति वै द्विजाः ॥ १२.२८.१२४ ॥
当大会上祭祀正在展开时,国王把金币施给婆罗门;而再生族们高呼:“给你,给你,一枚金币!”
12.28.125
सहस्रं तुभ्यमित्युक्त्वा ब्राह्मणान्संप्रपद्य ते ॥ १२.२८.१२५ ॥
他们说:“给你一千!”便走到婆罗门面前。
12.28.126
अन्वाहार्योपकरणं द्रव्योपकरणं च यत् ।
घटाः पात्र्यः कटाहानि स्थाल्यश्च पिठराणि च।
नासीत्किंचिदसौवर्णं रन्तिदेवस्य धीमतः ॥ १२.२८.१२६ ॥
有祭祀用具与财物器皿,如瓮、碗、大锅、罐与炊具,然而智慧的蓝提提婆手中已没有任何金制之物。
12.28.127
सांकृते रन्तिदेवस्य यां रात्रिमवसन्गृहे ।
आलभ्यन्त शतं गावः सहस्राणि च विंशतिः ॥ १२.२८.१२७ ॥
当萨孔克提之子兰提提婆在家中留宿的那一夜,百头牛与两万头牛被宰杀。
12.28.128
तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः ।
सूपं भूयिष्ठमश्नीध्वं नाद्य मांसं यथा पुरा ॥ १२.२८.१२८ ॥
那里的厨师戴着擦得发亮的宝石耳环,高声喊道:“多喝些汤吧,今天不像从前那样有肉了。”
12.28.129
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ १२.२८.१२९ ॥
萨陵阇耶啊,若他已死,对你而言这比四倍更吉祥,甚至比儿子更有功德。不要为你的儿子悲伤。
12.28.130
सगरं च महात्मानं मृतं शुश्रुम सृञ्जय ।
ऐक्ष्वाकं पुरुषव्याघ्रमतिमानुषविक्रमम् ॥ १२.२८.१३० ॥
萨陵阇耶啊,我们听说伟大的萨伽罗,伊克瓦库family的人中猛虎,拥有超人勇力,已经去世了。
12.28.131
षष्टिः पुत्रसहस्राणि यं यान्तमनुजग्मिरे ।
नक्षत्रराजं वर्षान्ते व्यभ्रे ज्योतिर्गणा इव ॥ १२.२८.१३१ ॥
他离去时,六万个儿子跟随在他身后,犹如雨季末、天空无云时,群星跟随星宿之王。
12.28.132
एकच्छत्रा मही यस्य प्रतापादभवत्पुरा ।
योऽश्वमेधसहस्रेण तर्पयामास देवताः ॥ १२.२८.१३२ ॥
昔日,凭借他的威力,大地曾在一把王权之伞之下;他以千次马祭令众神欢喜。
12.28.133
यः प्रादात्कनकस्तम्भं प्रासादं सर्वकाञ्चनम् ।
पूर्णं पझदलाक्षीणां स्त्रीणां शयनसंकुलम् ॥ १२.२८.१३३ ॥
他曾布施一座以金柱为梁、全以黄金建成、充满莲瓣眼女子卧榻的宫殿。
12.28.134
द्विजातिभ्योऽनुरूपेभ्यः कामांश्च विविधान्बहून् ।
यस्यादेशेन तद्वित्तं व्यभजन्त द्विजातयः ॥ १२.२८.१३४ ॥
他将种种繁多的所欲之物施予合适的再生者;依他的命令,那财富被分给了再生者们。
12.28.135
खानयामास यः कोपात्पृथिवीं सागराङ्किताम् ।
यस्य नाम्ना समुद्रश्च सागरत्वमुपागतः ॥ १२.२८.१३५ ॥
他在愤怒中令人挖掘那被大海标记的大地;因他的名字,大海得名为“海(Sāgara)”。
12.28.136
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ १२.२८.१३६ ॥
他死了,哦,斯律阳遮;对你而言这是四倍的吉祥。他比儿子还更有功德;因此不要为儿子悲伤。
12.28.137
राजानं च पृथुं वैन्यं मृतं शुश्रुम सृञ्जय ।
यमभ्यषिञ्चन्संभूयः महारण्ये महर्षयः ॥ १२.२८.१३७ ॥
哦,斯律阳遮,我们听说毗那之子国王普利图已死;伟大的仙人们曾在大森林中共同为他灌顶。
12.28.138
प्रथयिष्यति वै लोकान्पृथुरित्येव शब्दितः ।
क्षताद्यो वै त्रायतीति स तस्मात्क्षत्रियः स्मृतः ॥ १२.२८.१३८ ॥
他将弘扬诸世界,因此被称为“普利图”。能从伤害(kṣata)中保护者,名为刹帝利;因此他被称为刹帝利。
12.28.139
पृथुं वैन्यं प्रजा दृष्ट्वा रक्तास्मेति यदब्रुवन् ।
ततो राजेति नामास्य अनुरागादजायत ॥ १२.२८.१३९ ॥
臣民看见维那之子普利图,便说:“我们心满意足了。”于是因其受爱戴,他得名为“罗阇”(王)。
12.28.140
अकृष्टपच्या पृथिवी पुटकेपुटके मधु ।
सर्वा द्रोणदुघा गावो वैन्यस्यासन्प्रशासतः ॥ १२.२८.१४० ॥
维那之子执政时,大地不经耕作也能丰收;每一满捧之中都有蜂蜜,所有的母牛都产一“德罗那”的牛奶。
12.28.141
अरोगाः सर्वसिद्धार्था मनुष्या अकुतोभयाः ।
यथाऽभिकाममवसन्क्षेत्रेषु च गृहेषु च ॥ १२.२८.१४१ ॥
人民无病,诸愿皆成,四方无所畏惧;他们随意居住在田野和房屋之中。
12.28.142
आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः ।
शैलाश्चापाद्व्यदीर्यन्त ध्वजभङ्गश्च नाभवत् ॥ १२.२८.१४२ ॥
他向大海行进时,水为他停止;山岳让路而裂开,旗幡也从未折断。
12.28.143
हैरण्यांस्त्रिनरोत्सेधान्पर्वतानेकविंशतिम् ।
ब्राह्मणेभ्यो ददौ राजा योश्वमेधे महामखे ॥ १२.२८.१४३ ॥
在大马祭中,国王把二十一座金山(每座高三人)布施给婆罗门。
12.28.144
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥ १२.२८.१४४ ॥
信使者啊,若他已死,他在四种吉祥之德上胜过你,并且比儿子更有福德;所以不要为你的儿子悲伤。
12.28.145
किं वा तूष्णीं ध्यायसे सृञ्जय त्वं ।
न मे राजन्वाचिममां शृणोपि।
न चेन्मोघं विप्रलप्तं ममेदं ।
पथ्यं मुमूर्षोरिव सुप्रयुक्तम् ॥ १२.२८.१४५ ॥
Sṛñjaya,你为何沉默冥想?啊,国王,你不听我这番话吗?若我此言并非徒然,它便如同对将死之人恰当施用的良药。
12.28.146
शृणोमि ते नारद वाचमेनां ।
विचित्रार्थां स्रजमिव पुण्यगन्धाम्।
राजर्षीणां पुण्यकृतां महात्मनां ।
कीर्त्या युक्तानां शोकनिर्नाशनार्थाम् ॥ १२.२८.१४६ ॥
那罗陀啊,我聆听你这番话,它意义丰富多彩,如同散发功德芬芳的花环,具备行功德的伟大王仙的荣名,旨在消除忧愁。
12.28.147
न ते मोघं विप्रलप्तं महर्षे ।
दृष्ट्वैवाहं नारद त्वां विशोकः।
शुश्रूषे ते वचनं ब्रह्मवादि ।
न्न ते तृप्याम्यमृतस्येव पानात् ॥ १२.२८.१४७ ॥
伟大的仙人啊,你的话并非徒然。那罗陀,见到你我便已离开忧愁。梵的宣说者啊,我愿聆听你的言辞;我尚未满足,仿佛饮下甘露。
12.28.148
अमोघदर्शिन्मम चेत्प्रसादं ।
संतापदग्धस्य विभो प्रकुर्याः।
सुतस्य संजीवनमद्य मे स्या ।
त्तव प्रसादात्सुतसङ्गमाप्नुयाम् ॥ १२.२८.१४८ ॥
啊,你的目光从不徒然。若你向我这被忧愁焚烧之人施以恩惠,今日我儿或许可以重获生命。啊,全能者,愿借你的恩惠,我得与儿子重逢。
12.28.149
यस्ते पुत्रः शयितोयं विजातः ।
स्वर्णष्ठीवी यमदात्पर्वतस्ते।
पुनस्तं ते पुत्रमहं ददामि ।
हिरण्यनाभं वर्षसबस्रिणं च ॥ १२.२८.१४९ ॥
你的儿子死在此地,他曾吐出黄金,是山所赐予你的。我将那个儿子再次还给你,他有金色的肚脐,将活一千年。