Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.288

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.288.1

वृत्रस्य तु महाराज ज्वराविष्टस्य सर्वशः ।
अभवन्यानि लिङ्गानि शरीरे तानि मे शृणु ॥ १२.२८८.१ ॥

大王啊,请听我讲,被热病所缠的弗栗多全身出现的种种征兆。

12.288.2

ज्वलितास्योऽभवद्धोरो वैवर्ण्यं चागमत्परम् ।
गात्रकम्पश्च सुमहाञ्श्वासश्चाप्यभवन्महान् ॥ १२.२८८.२ ॥

他的口变得炽热可怖,脸色极其苍白,肢体颤抖,呼吸也变得十分粗重。

12.288.3

रोमहर्षश्च तीव्रोऽभून्निःश्वासश्च महान्नृप ।
शिवा चाशिवसंकाशा तस्य वक्रात्सुदारुणा ॥ १२.२८८.३ ॥

大王啊,他的汗毛剧烈竖起,发出一声长长的叹息,从他口中传出豺狼的嚎叫,凄厉如不祥之声。

12.288.4

निष्पपात महाघोरा स्मृतिर्नष्टास्य भारत ।
उत्काश्च ज्वलितास्तस्य दीप्ताः पार्श्वे प्रपेदिरे ॥ १२.२८८.४ ॥

婆罗多啊,他的记忆消失了,极其可怖的征兆显现;燃烧闪耀的流星落在他的两侧。

12.288.5

गृध्राः कङ्का बलाकाश्च वाचोऽमुञ्चन्सुदारुणाः ।
वृत्रस्योपरि संहृष्टाश्चक्रवत्परिबभ्रमुः ॥ १२.२८८.५ ॥

秃鹫、鹭鸶与鹤发出极其凄厉的叫声;它们欢喜地在弗栗多上空像车轮般盘旋。

12.288.6

ततस्तं रथमास्थाय देवाप्यायित आहवे ।
वज्रोद्यतकरः शक्रस्तं दैत्यं प्रत्यवैक्षत ॥ १२.२८८.६ ॥

于是,得到诸神增益的因陀罗登上那辆战车,手中高举金刚杵,在战场上望着那个魔众。

12.288.7

अमानुषमथो नादं स मुमोच महासुरः ।
व्यजृम्भच्चैव राजेन्द्र तीव्रज्वरसमन्वितः ॥ १२.२८८.७ ॥

于是大阿修罗发出非人的吼声,哦,诸王之主,他被猛烈的高烧所困,张口打起哈欠。

12.288.8

अथास्य जृम्भतः शक्रस्ततो वज्रमवासृजत् ।
स वज्रः सुमहातेजा कालान्तकयमोपमः ॥ १२.२८८.८ ॥

当他打哈欠时,帝释天掷出了金刚杵。那极具光辉的金刚杵如同时间之终结者迦罗、死神阎摩。

12.288.9

क्षिप्रमेव महाकायं वृत्रं दैत्यमपातयत् ।
ततो नादः समभवत्पुनरेव समन्ततः ॥ १२.२८८.९ ॥

他立即击倒了身躯巨大的达伊提亚弗栗多,于是四面八方再次响起吼声。

12.288.10

वृत्रं विनिहितं दृष्ट्वा देवानां भरतर्षभ ।
वृत्रं तु हत्वा मघवा दानवारिर्महायशाः ॥ १२.२८८.१० ॥

婆罗多族的雄牛啊,诸神见弗栗多倒地,于是摩ghavan,即达那婆的大名之敌,杀死弗栗多之后……

12.288.11

वज्रेण विष्णुयुक्तेन दिवमेव समाविशत् ।
अथ वृत्रस्य कौरव्य शरीरादभिनिःसृता ॥ १२.२८८.११ ॥

他手持与毗湿奴相结合的金刚杵,直入天界。然后,俱卢之后裔啊,从弗栗多的身体中显现出了……

12.288.12

ब्रह्महत्या महाघोरा रौद्रा लोकभयावहा ।
करालदशना भीमा विकृता कृष्णपिङ्गला ॥ १२.२८८.१२ ॥

杀害婆罗门之罪——梵罪,显现出来,极其可怖、凶猛,给世界带来恐惧。她的牙齿骇人,她可怕、丑陋、黑中带黄褐色。

12.288.13

प्रकीर्णमूर्धजा चैव घोरनेत्रा च भारत ।
कपालमालिनी चैव कृत्येव भरतर्षभ ॥ १२.२८८.१३ ॥

婆罗多啊,她披散着头发,目光凶狠,戴着骷髅串成的花环,宛如魔女克利提亚,婆罗多族的雄牛啊。

12.288.14

रुधिरार्द्रा च धर्मज्ञ चीरवल्कलवासिनी ।
साऽभिनिष्क्रम्य राजेन्द्र तादृग्रृपा भयावहा ॥ १२.२८८.१४ ॥

法之智者啊,她浑身浴血,身穿树皮衣,王中之王啊,她以如此形象现身,令人恐惧。

12.288.15

वज्रिणं मृगयामास तदा भरतसत्तम ।
कस्यचित्त्वथ कालस्य वृत्रहा कुरुनन्दन ॥ १२.२८८.१५ ॥

婆罗多中最优秀的人啊,过了一段时间,俱卢族的欢喜啊,她寻找那持金刚杵、杀死弗栗多的因陀罗。

12.288.16

स्वर्गायाभिमुखः प्रायाल्लोकानां हितकाम्यया ।
सा विनिःसरमाणं तु दृष्ट्वा शक्रं महौजसम् ॥ १२.२८८.१६ ॥

为了世界的福祉,他面向天界而去;她看到光辉强大的帝释走出来,便……

12.288.17

कण्ठे जग्राह देवेन्द्रं सुलग्ना चाभवत्तदा ।
स हि तस्मिन्समुत्पन्ने ब्रह्मवध्याकृते भये ॥ १२.२८८.१७ ॥

她抓住了众神之主因陀罗的脖颈,随即紧紧缠住;当那由杀害婆罗门而生的恐惧在他心中升起时……

12.288.18

नलिन्या विसमध्यस्थ उवासाब्दगणान्बहून् ।
अनुसृत्य तु यत्नात्स तया वै ब्रह्महत्यया ॥ १२.२८८.१८ ॥

他坐在莲茎之中,居留了许多年;被那婆罗门谋杀之罪紧紧追逐,他……

12.288.19

तदा गृहीतः कौरव्य निस्तेजाः समपद्यत ।
तस्या व्यपोहने शक्रः परं यत्नं चकार ह ॥ १२.२८८.१९ ॥

那时,俱卢后裔啊,他被她抓住,失去了光辉。为了驱散她,因陀罗付出了巨大努力。

12.288.20

न चाशकत्तां देवेन्द्रो ब्रह्मवध्यां व्यपोहितुम् ।
गृहीत एव तु तया देवेन्द्रो भरतर्षभ ॥ १२.२८८.२० ॥

天神之王无法驱逐那位杀害婆罗门的女子;确实,婆罗多的雄牛啊,天神之王自己也被她抓住了。

12.288.21

पितामहमुपागम्य शिरसा प्रत्यपूजयत् ।
ज्ञात्वा गृहीतं शक्रं स द्विजप्रवरवध्यया ॥ १२.२८८.२१ ॥

他走近祖父,低头致敬;得知帝释因杀害最优秀的婆罗门而被抓住,便这样做了。

12.288.22

ब्रह्मा स चिन्तयामास तदा भरतसत्तम ।
तामुवाच महाबाहो ब्रह्मवध्यां पितामहः ॥ १२.२८८.२२ ॥

那时梵天沉思,婆罗多中最优秀者啊。大臂者啊,祖父对那位杀害婆罗门的女子说话。

12.288.23

स्वरेण मधुरेणाथ सान्त्वयन्निव भारत ।
मुच्यतां त्रिदशेन्द्रोयं मत्प्रियं कुरु भामिनी ॥ १२.२८८.२३ ॥

随后,仿佛以甜美的声音安慰她,婆罗多啊,他说:'让这位三十神之主获得释放吧。光辉的女子啊,做我所喜爱的事。'

12.288.24

ब्रूहि किं ते करोम्यद्य कामं किं त्वमिहेच्छसि ॥ १२.२८८.२४ ॥

说吧:今天我为你做什么?你在这里想要什么?

12.288.25

ब्रह्महत्योवाच ।
त्रिलोकपूजिते देवे प्रीते त्रैलोक्यकर्तरि।
कृतमेव हि मन्यामि निवासं तु विधत्स्व मे ॥ १२.२८८.२५ ॥

梵杀说:三界所供奉的天神,三界的创造者,您既已欢喜,我便认为事情已经完成;现请为我安排一处居所。

12.288.26

त्वया कृतेयं मर्यादा लोकसंरक्षणार्थिना ।
स्थापना वै सुमहती त्वया देव प्रवर्तिता ॥ १२.२८८.२६ ॥

你为守护世界而立下此界限;天神啊,这一极为重大的制度正是由你推行的。

12.288.27

प्रीते तु त्वयि धर्मज्ञ सर्वलोकेश्वर प्रभो ।
शक्रादपगमिष्यामि निवासं संविधत्स्व मे ॥ १२.२८८.२७ ॥

精通法的尊者,一切世界的主宰,主啊,您若欢喜,我便离开帝释;请为我安排一处居所。

12.288.28

तथेति तां प्राह तदा ब्रह्मवध्यां पितामहः ।
उपायतः स शक्रस्य ब्रह्मवध्यां व्यपोहितुम् ॥ १२.२८८.२८ ॥

于是祖父(梵天)对她说:「就这样吧」;并以计谋设法为因陀罗去除杀婆罗门之罪。

12.288.29

ततः स्वयंभुवा ध्यातस्तत्र वह्निर्महात्मना ।
ब्रह्माणमुपसंगम्य ततो वचनमब्रवीत् ॥ १२.२८८.२९ ॥

于是,被自生的梵天思念的大德火神前来到梵天身边,说了这些话。

12.288.30

प्राप्तोऽस्मि भगवन्देव त्वत्सकाशमनिन्दित् ।
यत्कर्तव्यं मया देव तद्भवान्वक्तुमर्हति ॥ १२.२८८.३० ॥

尊贵的主啊,天神啊,无过失者啊,我已来到您的面前;我应当做什么,天神啊,请您来告诉我。

12.288.31

ब्रह्मोवाच ।
बहुधा विभजिष्यामि ब्रह्मवध्यामिमामहम्।
शक्रस्याद्य विमोक्षार्थं चतुर्भागं प्रतीच्छ वै ॥ १२.२८८.३१ ॥

梵天说:我将以多种方式分担这桩杀害婆罗门的罪业。今日为了解脱帝释天,你接受其中的四分之一吧。

12.288.32

अग्निरुवाच ।
मम मोक्षस्य कोऽन्तो वै ब्रह्मन्ध्यायस्व वै प्रभो।
एतदिच्छामि विज्ञातुं तत्वतो लोकपूजित ॥ १२.२८८.३२ ॥

阿耆尼说:梵天啊,主啊,我的解脱之终点是什么?请你静心观照。受世界尊崇者啊,我想如实地知道此事。

12.288.33

ब्रह्मोवाच ।
यस्त्वां ज्वलन्तमासाद्य स्वयं वै मानवः क्वचित्।
बीजौषधिरसैर्वह्ने न यक्ष्यति तमोवृतः ॥ १२.२८८.३३ ॥

梵天说:阿耆尼啊,若有人被黑暗所笼罩,亲自走近你的烈焰,却不以种子、草药和汁液供养你。

12.288.34

तमेषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति ।
ब्रह्मवध्या हव्यवाह व्येतु ते मानसो ज्वरः ॥ १२.२८८.३४ ॥

此梵罪将迅速转至他身,并在那里安住。持供奉者啊,愿你心中的热病消散。

12.288.35

इत्युक्तः प्रतिजग्राह तद्वचो हव्यकव्यभुक् ।
पितामहस्य भगवांस्तथा च तदभूत्प्रभो ॥ १२.२८८.३५ ॥

如此说毕,享用供物与祖先祭品的世尊阿耆尼便接受了祖父的这番话;主啊,事情就这样成就了。

12.288.36

ततो वृक्षौषधितृणं समाहूय पितामहः ।
इममर्थं महाराज वक्तुं समुपचक्रमे ॥ १२.२८८.३६ ॥

于是祖父召来树木、草药与草丛,大王啊,开始讲述此事。

12.288.37

इयं पुत्रादनुप्राप्ता ब्रह्महत्या महाभया ।
पुरुहूतं चतुर्थांशमस्या यूयं प्रतीच्छत ॥ १२.२८८.३७ ॥

此婆罗门之杀,因子而降临,极为可怖。你们当为因陀罗接受其四分之一。

12.288.38

ततो वृक्षौषधितृणं तथैवोक्तं यथातथम् ।
व्यथितं वह्निवद्राजन्ब्रह्माणमिदमब्रवीत् ॥ १२.२८८.३८ ॥

于是树木、药草与草丛,依所说的那样,如火般痛苦,大王啊,对梵天说了这番话。

12.288.39

अस्माकं ब्रह्मवध्यायाः कोऽन्तो लोकपितामह ।
स्वभावनिहतानस्मान्न पुनर्हन्तुमर्हसि ॥ १२.२८८.३९ ॥

世界之祖啊,杀婆罗门之罪对我们而言,何时才有终结?你不应再次击杀我们这些已因自性而被击倒的。

12.288.40

वयमग्निं तथा शीतं वर्षं च पवनेरितम् ।
सहामः सततं देव तथा च्छेदनभेदने ॥ १२.२८८.४० ॥

天神啊,我们常忍受火、寒冷,以及风所驱动的雨;同样也忍受被砍伐与被穿刺。

12.288.41

ब्रह्मवध्यामिमामद्य भवतः शासनाद्वयम् ।
ग्रहीष्यामस्त्रिलोकेश मोक्षं चिन्तयतां भवान्। ॥ १२.२८८.४१ ॥

三界之主啊,奉你之命,我们今日便承受这杀婆罗门之罪;你且思量我们的解脱。

12.288.42

ब्रह्मोवाच ।
पर्वकाले तु संप्राप्ते यो वै छेदनभेदनम्।
करिष्यति नरो मोहात्तमेषाऽनुगमिष्यति ॥ १२.२८८.४२ ॥

梵天说:当节日之时来临,谁因迷惑而行砍伐与穿刺之事,此罪便会紧随那人。

12.288.43

ततो वृक्षौषधितृणमेवमुक्तं महात्मना ।
ब्रह्माणमभिसंपूज्य जगामाशु यथागतम् ॥ १२.२८८.४३ ॥

于是这位大智者谈论了树木、草药与青草之后,恭敬地礼拜梵天,便循原路迅速离去。

12.288.44

आहूयाप्सरसो देवस्ततो लोकपितामहः ।
वाचा मधुरया प्राह सान्त्वयन्निव भारत ॥ १२.२८८.४४ ॥

于是这位世界祖父天神召来众天女,以温和的话语安慰她们,婆罗多啊,说道。

12.288.45

इयमिन्द्रादनुप्राप्ता ब्रह्मवध्या वराङ्गनाः ।
चतुर्थमस्या भागांशं मयोक्ताः संप्रतीच्छत ॥ १२.२८८.४५ ॥

这梵罪跟随因陀罗而来。诸位优秀的女子啊,依我所言,接受它的四分之一吧。

12.288.46

ग्रहणे कृतबुद्धीनां देवेश तव शासनात् ।
मोक्षं समयतोऽस्माकं चिन्तयस्व पितामह ॥ १२.२८८.४६ ॥

天神之主啊,遵从您的命令,我们已决意承受它。祖父啊,请依约定的期限考虑我们的解脱吧。

12.288.47

ब्रह्मोवाच ।
रजस्वलासु नारीषु यो वै मैथुनमाचरेत्।
तमेषा यास्यति क्षिप्रं व्येतु वो मानसो ज्वरः ॥ १२.२८८.४७ ॥

梵天说:凡与月经期的女子行房者,她会迅速前往那人身边。愿你们心中的热病消散。

12.288.48

तथेति हृष्टमनस इत्युक्त्वाऽऽप्सरसां गणाः ।
स्वानि स्थानानि संप्राप्य रेमिरे भरतर्षभ ॥ १२.२८८.४८ ॥

众天女心怀欢喜,说道“就这样吧”,各自回到自己的居所并尽情欢乐,婆罗多族的雄牛啊。

12.288.49

ततस्त्रिलोककृद्देवः पुनरेव महातपाः ।
अथः संचिन्तयामास ध्यातास्ताश्चाप्यथागमन् ॥ १२.२८८.४९ ॥

于是创造三界的大苦行之神再次思虑;他所念想的那些也来了。

12.288.50

तास्तु सर्वाः समागम्य ब्रह्माणममितौजसम् ।
इदमूचुर्वचो राजन्प्रणिपत्य पितामहम् ॥ १२.२८८.५० ॥

大王啊,她们全体聚集,向力量无量的祖父梵天礼拜后,说了这些话。

12.288.51

इमाः स्म देव संप्राप्तास्त्वत्सकाशमरिंदम् ।
शासनात्तव लोकेश समाज्ञापय नः प्रभो ॥ १२.२८८.५१ ॥

天神啊,我们已来到您的面前,降伏敌人者啊。世界之主、主宰啊,请依您的命令指示我们。

12.288.52

ब्रह्मोवाच ।
इयं वृत्रादनुप्राप्ता पुरुहूतं महाभया।
ब्रह्मवध्या चतुर्थांशमस्या यूयं प्रतीच्छत ॥ १२.२८८.५२ ॥

梵天说:因为弗栗多,这大恐怖——杀害婆罗门之罪——降临到了补卢呼多(因陀罗)身上。你们应当接受其中的四分之一。

12.288.53

एवं भवतु लोकेश यथा वदसि नः प्रभो ।
मोक्षं समयतोऽस्माकं संचिन्तयितुमर्हसि ॥ १२.२८८.५३ ॥

世界之主、主宰啊,就照您对我们所说的吧。关于我们从约定中解脱的事,您应当考虑。

12.288.54

त्वं हि देवेश सर्वस्य जगतः परमा गतिः ।
कोऽन्यः प्रसाद्यो हि भवेद्यः कृच्छ्रान्नः समुद्धरेत् ॥ १२.२८८.५४ ॥

天神之主啊,您就是整个世界的至高归宿。除您之外,还有谁值得我们去取悦,又有谁能将我们从这困境中救出?

12.288.55

ब्रह्मोवाच ।
अल्पा इति मतिं कृत्वा यो नरो बुद्धिमोहितः।
श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्ष्यति ॥ १२.२८८.५५ ॥

梵天说:凡人因心智迷惑,以为你们微不足道,便将痰、尿和粪便倾注于你们之上。

12.288.56

तमियं यास्यति क्षिप्रं तत्रैव च निवत्स्यति ।
तथा वो भविता मोक्ष इति सत्यं ब्रवीमि वः ॥ १२.२८८.५६ ॥

此梵罪将迅速前往他那里,并就居于彼处。如此,你们便得解脱;我如实告诉你们。

12.288.57

ततो विमुच्य देवेन्द्रं ब्रह्मवध्या युधिष्ठिर ।
यथा निसृष्टं तं वासमगमद्देवशासनात् ॥ १२.२८८.५७ ॥

然后,优提罗,梵罪离开了天神之主,依诸神之命,回到了它当初被放置的那个住所。

12.288.58

एवं शक्रेण संप्राप्ता ब्रह्मवध्या जनाधिप ।
पितामहमनुज्ञाप्य सोऽश्वमेधमकल्पयत् ॥ १२.२८८.५८ ॥

如此,人主啊,帝释便染上了梵罪。他征得祖父梵天的同意后,便举行了马祭。

12.288.59

श्रूयते च महाराज संप्राप्ता वासवेन वै ।
ब्रह्मवध्या ततः शुद्धिं हयमेधेन लब्धवान् ॥ १२.२८८.५९ ॥

大王,听说因陀罗确实染上了梵罪,然后他借马祭获得了清净。

12.288.60

समवाप्य श्रियं देवो हत्वाऽरींश्च सहस्रशः ।
प्रहर्षमतुलं लेभे वासवः पृथिवीपते ॥ १२.२८८.६० ॥

天神因陀罗重获荣光,并杀死了成千上万的敌人,大地之主啊,他获得了无与伦比的喜悦。

12.288.61

वृत्रस्य रुधिराच्चैव बुद्बुदाः पार्थ जज्ञिरे ।
द्विजातिभिरभक्ष्यास्ते दीक्षितैश्च तपोधनैः ॥ १२.२८८.६१ ॥

从弗栗多的血中,阿周那啊,生出了泡沫;再生者和受戒的苦行者不可食用。

12.288.62

सर्वावस्थं त्वमप्येषां द्विजातीनां प्रियं कुरु ।
इमे हि भूतले देवाः प्रथिताः कुरुनन्दन ॥ १२.२८८.६२ ॥

无论何种境况,你也应当使这些再生者喜悦,因为,库鲁之喜,他们正是大地上闻名的神明。

12.288.63

एवं शक्रेण कौरव्य बुद्धिसौक्ष्म्यान्महासुरः ।
उपायपूर्वं निहतो वृत्रो ह्यमिततेजसा ॥ १२.२८८.६३ ॥

如此,库鲁的后裔啊,凭借心智的精妙,无量光明的因陀罗以计谋杀死了大阿修罗弗栗多。

12.288.64

एवं त्वमपि कौन्तेय पृथिव्यामपराजितः ।
भविष्यसि यथा देवः शतक्रतुरमित्रहा ॥ १२.२८८.६४ ॥

如此,贡蒂之子啊,你也将在大地上不可战胜,如杀敌之神百祭。

12.288.65

ये तु शक्रकथां दिव्यामिमां पर्वसुपर्वसु ।
विप्रमध्ये वदिष्यन्ति न ते प्राप्स्यन्ति किल्विषं ॥ १२.२८८.६५ ॥

凡在每个节日于婆罗门众中诵说此神圣的帝释故事者,将不会获得罪过。

12.288.66

इत्येतद्वृत्रमाश्रित्य शक्रस्यात्यद्भुतं महत् ।
कथितं कर्म ते तात किं भूयः श्रोतुमिच्छसि ॥ १२.२८८.६६ ॥

如此,关于弗栗多,帝释最为奇妙伟大的功业已经讲述给你了。亲爱的孩子,你还想再听什么?