摩诃婆罗多 · 章 12.29
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.29.1
स कथं काञ्चनष्ठीवी सृञ्जयस्य सुतोऽभवत् ।
पर्वतेन किमथे वा दत्तस्तेन ममार च ॥ १२.२९.१ ॥
那吐金之人如何成为斯林阇耶之子?帕尔瓦塔为何将他给予,他又是如何死去的?
12.29.2
यदा वर्षसहस्रायुस्तदा भवति मानवः ।
कथमप्राप्तकौमारः सृञ्जयस्य सुतो मृतः ॥ १२.२९.२ ॥
当人的寿命有千年时,他才存在;那么斯林阇耶之子未到少年便如何死去了?
12.29.3
उताहो नाममात्रं वै सुवर्णष्ठीविनोऽभवत् ।
कथं वा काञ्चनष्ठीवीत्येतदिच्छामि वेदितुम् ॥ १२.२९.३ ॥
还是他只是名义上的吐金者?我想知道他是如何被称为“吐金者”的。
12.29.4
अत्र ते वर्णयिष्यामि यथावृत्तं जनेश्वर ।
नारदः पर्वतश्चैव द्वावृवी लोकसत्तमौ ॥ १२.२९.४ ॥
哦,人主,我将如实为你叙述此事。那罗陀与帕尔瓦塔,这两位是世间最优秀的人——
12.29.5
मातुलो भागिनेयश्च देवलोकादिहागतौ ।
विहर्तुकामौ संप्रीत्या मानुषेषु पुरा विभो ॥ १२.२९.५ ॥
舅父与外甥,二人自天界来到此处,昔日心怀欢喜,想要在世人之间游历,哦,大能者。
12.29.6
हविःपवित्रभोज्येन देवभोज्येन चैव हि ।
नारदो मातुलस्तत्र भागिनेयश्च पर्वतः ॥ १२.२९.६ ॥
以如供物般纯净、配于诸神的食物为养,在那里,那罗陀是舅父,帕尔瓦塔是外甥。
12.29.7
तावुभौ तपसोपेताववनीतलचारिणौ ।
भुञ्जानौ मानुषान्भोगान्यथावत्पर्यधावताम् ॥ १२.२९.७ ॥
二人具足苦行,游行于大地之上,如法地享受人间的欢乐。
12.29.8
प्रीतिमन्तौ मुदा युक्तौ समयं चैव चक्रतुः ।
यो भवेद्धृदि संकल्पः शुभो वा यदि वाऽशुभः ॥ १२.२९.८ ॥
二人满怀爱意,欢喜相聚,立下誓约:凡心中生起的任何念头,无论吉祥与否,都要相告。
12.29.9
अन्योन्यस्य च आख्येयो मृषा शापोऽन्यथा भवेत् ।
तौ तथेति प्रतिज्ञाय महर्षी लोकपूजितौ ॥ १२.२९.९ ॥
彼此须相告,否则以虚言招致诅咒。二位为世界所敬仰的大仙说“就这样吧”,便立下了誓约。
12.29.10
सृञ्जयं श्वैत्यमभ्येत्य राजानमिदमूचतुः ।
आवां भवति वत्स्यावः कंचित्कालं हिताय ते ॥ १२.२९.१० ॥
二人来到室毗(Śaibya)族的王者 Sṛñjaya 面前,说道:“我们二人将为你的利益在此住上一段时间。”
12.29.11
यथावत्पृथिवीपाल आवयोः प्रगुणीभव ।
तथेति कृत्वा राजा तौ सत्कृत्योपचचार ह ॥ १२.२९.११ ॥
“大地的守护者啊,请为我们二人妥善准备。”王说“就这样吧”,便敬重二人,侍奉他们。
12.29.12
ततः कदाचित्तौ राजा महात्मानौ तपोधनौ ।
अब्रवीत्परमप्रीतः सुतेयं देवरूपिणी ॥ १२.२९.१२ ॥
此后有一次,王极为欢喜,对那二位大德苦行者说:“这是我的女儿,形如天神。”
12.29.13
एकैव मम कन्यैषा युवां परिचरिष्यति ।
दर्शनीयानवद्याङ्गी शीलवृत्तसमाहिता।
सुकुमारी कुमारी च पझकिञ्जल्कसुप्रभा ॥ १२.२९.१३ ॥
这是我唯一的女儿;她将侍奉你们二人。她容貌可观,肢体无瑕,品行端正,言行有节。她柔美而为少女,光彩如莲花的花蕊。
12.29.14
परमं सौम्यमित्युक्तं ताभ्यां राजा शशास ताम् ।
कन्ये विप्रावुपचर देववत्पितृवच्च ह ॥ १२.२९.१४ ॥
两人说:“甚好。”于是国王叮嘱她:“女儿啊,你要像侍奉天神、像侍奉父亲一样侍奉这两位婆罗门。”
12.29.15
सा तु कन्या तथेत्युक्त्वा पितरं धर्मचारिणी ।
यथानिदेशं राज्ञस्तौ सत्कृत्योपचचार ह ॥ १२.२९.१५ ॥
那位行法的少女说:“就这样吧。”她依照国王的命令,恭敬地侍奉那二人。
12.29.16
तस्यास्तेनोपचारेण रूपेणाप्रतिमेन च ।
नारदं हृच्छयस्तूर्णं सहसैवाभ्यपद्यत ॥ १२.२९.१६ ॥
因她的侍奉和无比的美貌,那潜藏在那罗陀心中的欲望骤然迅速被唤起。
12.29.17
ववृधे हि ततस्तस्य हृदि कामो महात्मनः ।
यथा शुक्लस्य पक्षस्य प्रवृत्तौ चन्द्रमाः शनैः ॥ १२.२९.१७ ॥
于是那位大德者心中的欲望增长,犹如月亮在白半月中渐渐增盈。
12.29.18
न च तं भागिनेयाय पर्वताय महात्मने ।
शशंस मन्मथं तीव्रं व्रीडमानः स धर्मवित् ॥ १२.२९.१८ ॥
那位通晓法者因羞愧,没有把他强烈的欲望告诉外甥、大德的波尔瓦塔。
12.29.19
तपसा चेङ्गितैश्चैव पर्वतोऽथ बुबोध तम् ।
कामार्तं नारदं क्रुद्धः शशापैनं ततो भृशम् ॥ १२.२९.१९ ॥
帕尔瓦塔凭苦行与迹象认出了他;他愤怒地严厉诅咒了为欲望所苦的那罗陀。
12.29.20
कृत्वा समयमव्यग्रो भवान्वै सहितो मया ।
यो भवेद्धृदि संकल्पः शुभो वा यदि वाऽशुभः ॥ १२.२९.२० ॥
与我立下誓约后,请安心:无论你心中生起何种念头,吉或不吉,
12.29.21
अन्योन्यस्य स आख्येय इति तद्वै मृषा कृतम् ।
भवता वचनं ब्रह्मंस्तस्मादेष शपाम्यहम् ॥ १२.२९.२१ ॥
你使'彼此必须相告'这句话成了谎言。因此,婆罗门啊,我诅咒你。
12.29.22
न हि कामं प्रवर्तन्तं भवानाचष्ट मे पुरा ।
सुकुमार्यां कुमार्यां ते तस्मान्नैष क्षमाम्यहम् ॥ १२.२९.२२ ॥
你之前没有向我说明心中对那位柔弱少女生起的欲望。因此我不宽恕此事。
12.29.23
ब्रह्मचारी गुरुर्यस्मात्तपस्वी ब्राह्मणश्च सन् ।
अकार्षीः समयभ्रंशमावाभ्यां यः कृतो मिथः ॥ १२.२९.२३ ॥
你身为梵行者、导师、苦行者与婆罗门,却违背了我们二人之间所立的誓约。
12.29.24
शप्स्ये तस्मात्सुसंक्रुद्धो भवन्तं तं निबोध मे ॥ १२.२९.२४ ॥
因此,我极为愤怒,将诅咒你。请从我这里听取。
12.29.25
सुकुमारी च ते भार्या भविष्यति न संशयः ।
वानरत्वं च ते कन्या विवाहात्प्रभृति प्रभो।
संद्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विनाकृतम् ॥ १२.२९.२५ ॥
你的妻子无疑将柔弱娇美。主啊,自婚姻之时起,你的女儿将具有猴子的本性;其他人会看到她失去了本来的形貌。
12.29.26
स तद्वाक्यं तु विज्ञाय नारदः पर्वतं तथा ।
अशपत्तमपि क्रोधाद्भागिनेयं स मातुलः ॥ १२.२९.२६ ॥
纳罗陀明白了这些话,因愤怒也诅咒了帕尔瓦塔——他的外甥,那位舅舅。
12.29.27
तपसा ब्रह्मचर्येण सत्येन च दमेन च ।
युक्तोऽपि नित्यधर्मश्च न वै स्वर्गमवाप्स्यसि ॥ १२.२९.२७ ॥
即使你具备苦行、梵行、真实与自制,并且恒常持守法,你也确实不会获得天界。
12.29.28
तौ तु शावा भृशं क्रुद्धौ परस्परममर्षणौ ।
प्रतिजग्मतुहृन्योन्यं क्रुद्धाविव गजोत्तमौ ॥ १२.२९.२८ ॥
那两只幼兽极为愤怒,彼此不能容忍,如同两头发怒的上等大象,互相扑向对方。
12.29.29
पर्वतः पृथिवीं कृत्स्नां विचचार महामतिः ।
पूज्यमानो यथान्यांयं तेजसा स्वेन भारत ॥ १२.२९.२९ ॥
大智的帕尔瓦塔游遍整个大地,以其自身的光辉受到应有的尊敬,啊,婆罗多。
12.29.30
अथ तामलभत्कन्यां नारदः सृञ्जयात्मजाम् ।
धर्मेण विप्रप्रवरः सुकुमारीमनिन्दिताम् ॥ १२.२९.३० ॥
于是,婆罗门中的最优者纳罗陀依法得到了那位少女,即斯林遮耶之女,柔弱而无瑕。
12.29.31
सा तु कन्या यथाशापं नारदं तं ददर्श ह ।
पाणिग्रहणमन्त्राणां नियोगादेव नारदम् ॥ १२.२९.३१ ॥
那少女依照诅咒,仅仰望那位那罗陀,依照婚礼咒语的规定。
12.29.32
सुकुमारी च देवर्षि वानरप्रतिमाननम् ।
नैवावमन्यत तदा प्रीतिमत्येव चाभवत् ॥ १२.२९.३२ ॥
那柔弱少女对这位面如猿猴的天仙圣人并未轻视,反而满怀爱意。
12.29.33
उपतस्थे च भर्तारं न चान्यं मनसाऽप्यगात् ।
देवं मुनीं वा यक्षं वा पतित्वे पतिवत्सला ॥ १२.२९.३३ ॥
她侍奉丈夫,即使在心中也不曾转向他人,无论是神、仙人还是夜叉;她爱着丈夫,忠于夫君。
12.29.34
ततः कदाचिद्भगवान्पर्वतोऽनुचचार ह ।
वनं विरहितं किंचित्तत्रापश्यत्स नारदम् ॥ १२.२९.३४ ॥
后来有一次,尊贵的波尔瓦塔在一片荒僻的林中游行,在那里他看见了那罗陀。
12.29.35
ततोऽभिवाद्य प्रोवाच नारदं पर्वतस्तदा ।
भवान्प्रसादं कुरुतात्स्वर्गादेशाय ये प्रभो ॥ १२.२९.३५ ॥
于是波尔瓦塔向那罗陀致敬,说道:“尊主啊,请为天界的命令向我施恩。”
12.29.36
तमुवाच ततो दृष्ट्वा पर्वतं नारदस्तथा ।
कृताञ्जलिमुपासीनं दीनं दीनतरः स्वयम् ॥ १२.२९.३६ ॥
那罗陀见波尔瓦塔合掌而坐,自己也比他更加谦卑,于是对他说道。
12.29.37
त्वयाऽहं प्रथमं शप्तो वानरस्त्वं भविष्यसि ।
इत्युक्तेन मया पश्चाच्छप्तस्तवमपि मत्सरात् ॥ १२.२९.३७ ॥
你先诅咒了我,说你将变成猴子;既已如此说,我也出于嫉妒诅咒了你。
12.29.38
अद्यप्रभृति वै वासं स्वर्गे नावाप्स्यसीति ह ।
तव नैतद्विसदृशं पुत्रस्थाने हि मे भवान् ॥ १२.२९.३८ ॥
从今日起,你将无法在天界获得居所。你的这种行为不合适,因为你在我这里处于儿子的位置。
12.29.39
निवर्तयेतां तौ शापावन्योन्येन तदा मुनी ॥ १२.२९.३९ ॥
那时,这两位仙人应当互相收回各自的诅咒。
12.29.40
श्रीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम् ।
सुकुमारी प्रदुद्राव परपुंसविशङ्कया ॥ १२.२९.४० ॥
那时,她见到光彩耀目、具神圣形貌的那罗陀,这位娇柔女子因疑心他人男子而逃走了。
12.29.41
तां पर्वतस्ततो दृष्ट्वा प्रद्रवन्तीमनिन्दिताम् ।
अब्रवीत्तव भर्तैष नात्र कार्या विचारणा ॥ १२.२९.४१ ॥
那时,帕尔瓦塔见这位无可指摘的女子逃走,便说:“这就是你的丈夫,此事不必多虑。”
12.29.42
ऋषिः परमधर्मात्मा नारदो भगवान्प्रभुः ।
तवैवाभेद्यहृदयो मा ते भूदत्र संशयः ॥ १२.२९.४२ ॥
仙人那罗陀,心性至为正法,乃薄伽梵与主宰,他对你的心意毫不分离。此事你不必有所疑惑。
12.29.43
सानुनीता बहुविधं पर्वतेन महात्मना ।
शापदोषं च तं भर्तुः श्रुत्वा प्रकृतिमागता।
पर्वतोऽथ ययौ स्वर्गं नारदोऽभ्यगमद्गृहान् ॥ १२.२९.४३ ॥
伟大的波尔瓦塔多方安慰她,她听闻丈夫诅咒的过失后,恢复了本来的状态。随后波尔瓦塔升往天界,那罗陀回到了自己的家。
12.29.44
प्रत्यक्षकर्ता सर्वस्य नारदो भगवानृषिः ।
एष वक्ष्यति ते पृष्टो यथावृत्तं नरोत्तम ॥ १२.२९.४४ ॥
尊贵的仙人那罗陀是一切的亲历者。人中之最啊,你若询问,他便会把所发生的一切如实告诉你。