摩诃婆罗多 · 章 12.295
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.295.1
तिष्ठते मे सदा तात कौतूहलमिदं हृदि ।
तदहं श्रोतुमिच्छामि त्वत्तः कुरुपितामह ॥ १२.२९५.१ ॥
亲爱的库卢祖父啊,我心中始终存着这份好奇,因此我希望从您口中听到此事。
12.295.2
कथं देवर्षिरुशना सदा काव्यो महामतिः ।
असुराणां प्रियकारः सुराणामप्रिये रतः ॥ १२.२९५.२ ॥
天神仙人乌沙纳斯、大智慧的迦维耶,为何总是为阿修罗做善事,却乐于做天神所不喜之事?
12.295.3
वर्धयामास तेजश्च किमर्थममितौजसाम् ।
नित्यं वैरनिबद्धाश्च दानवाः सुरसत्तमैः ॥ १२.२९५.३ ॥
他为何增益无量威力的阿修罗之光辉?而与天神中的最优者始终结怨的檀那婆们——
12.295.4
कथं चाप्युशना प्राप शुक्रत्वममरद्युतिः ।
ऋद्धिं च स कथं प्राप्तः सर्वमेतद्ब्रवीहि मे ॥ १२.२९५.४ ॥
那光辉如同不死者的乌沙纳斯,如何获得了“室俱罗”之位?他又如何获得那份兴盛?请将这一切都告诉我。
12.295.5
न याति च स तेजस्वी मध्येन नभसः कथम् ।
एतदिच्छामि विज्ञातुं निखिलेन पितामह ॥ १२.२९५.५ ॥
那位光辉的存在为何不从天空的中央经过?祖父啊,我想完整地了解此事。
12.295.6
शृणु राजन्नवहितः सर्वमेतद्यथातथम् ।
यथामति यथा चैतच्छ्रुतपूर्वं मयाऽनघ ॥ १२.२९५.६ ॥
国王啊,请专心听着。我将依我所知,依我先前所闻,如实地为你讲述这一切,无罪之人啊。
12.295.7
एष भार्गवदायादो मुनिर्मान्यो दृढव्रतः ।
सुराणां विप्रियकरो निमित्ते कारणात्मके ॥ १२.२९५.७ ॥
这位婆利古的后裔、受人尊敬且誓愿坚定的仙人,成为了使诸神不悦之事的因由。
12.295.8
इन्द्रोऽथ धनदो राजा यक्षरक्षोधिपः सदा ।
प्रभविष्णुश्च कोशस्य जगतश्च तथा प्रभुः ॥ १२.२९५.८ ॥
因陀罗,然后是财神王,他始终是夜叉与罗刹的主宰,是宝库的强大主人,也是世界的主宰。
12.295.9
तस्यात्मानमथाविश्य योगसिद्धो महामुनिः ।
रुद्ध्वा धनपतिं देवं योगेन हृतवान्वसु ॥ १२.२९५.९ ॥
于是精通瑜伽的大仙进入他的自我之中,以瑜伽制住财神,夺走了他的财富。
12.295.10
हृते धने ततः शर्म न लेभे धनदस्तथा ।
आपन्नमन्युः संविग्नः सोभ्यगात्सुरसत्तमम् ॥ १२.२९५.१० ॥
财富被夺走后,财神也得不到安宁。他愤怒而不安,便前往诸神中最优秀者那里。
12.295.11
निवेदयामास तदा शिवायामिततेजसे ।
देवश्रेष्ठाय रुद्राय सौम्याय बहुरूपिणे ॥ १२.२९५.११ ॥
于是他向无限光辉的湿婆、诸神中最优秀者、慈善而形象多样的楼陀罗陈述此事。
12.295.12
योगात्मकेनोशनसा रुद्ध्वा मम हृतं वसु ।
योगेनात्मगतं कृत्वा निःसृतश्च महातपाः ॥ १२.२९५.१२ ॥
以瑜伽为本性的乌尚那斯,以瑜伽制住我的财富,将其纳入自身后,这位大苦行者便离去了。
12.295.13
एतच्छ्रुत्वा ततः क्रुद्धो महायोगी महेश्वरः ।
संरक्तनयनो राजञ्शूलमादाय तस्थिवान् ॥ १२.२९५.१३ ॥
闻此,大瑜伽行者摩哂婆罗怒起;王啊,他双目赤红,执起三叉戟而立。
12.295.14
क्वासौ क्वासाविति प्राह गृहीत्वा परमायुधम् ।
उशना दूरतस्तस्य ह्यभूज्ज्ञात्वा चिकीर्षितम् ॥ १२.२९५.१४ ॥
他喊道:“他在哪里?他在哪里?”遂执起至高武器;乌尚那斯知其意图,已远远避开。
12.295.15
स महायोगिनो बुद्ध्वा तं रोषं वै महात्मनः ।
गतिमागमनं वेत्ति स्थानं चैव ततः प्रभुः ॥ १२.२९५.१५ ॥
大瑜伽行者、大心者之怒既被察觉,主便知其行迹、来路与所在。
12.295.16
संचिन्त्येग्रेण तपसा महात्मानं महेश्वरम् ।
उशना योगसिद्धात्मा शूलाग्रे प्रत्यदृश्यत ॥ १२.२९५.१६ ॥
以至上苦行思念大心的摩哂婆罗,瑜伽成就的乌尚那斯便现于三叉戟之尖。
12.295.17
विज्ञातरूपः स तदा तपः सिद्धोऽथ धन्विना ।
ज्ञात्वा शूलं च देवेशः पाणिना समनामयत् ॥ १२.२९५.१७ ॥
彼时,持弓者识其形;以苦行成就者,知三叉戟,天神之主以手将其压弯。
12.295.18
आनतेनाथ शूलेन पाणिनामिततेजसा ।
पिनाकमिति चोवाच शूलमुग्रायुधः प्रभुः ॥ १२.२९५.१८ ॥
于是,以无量光明之手持弯曲的三叉戟,持猛烈武器的主称此三叉戟为“毗那迦”。
12.295.19
पाणिमध्यगतं दृष्ट्वा भार्गवं तमुमापतिः ।
आस्यं विवृत्य भ्रकुटिं पाणिं संप्राक्षिपच्छनैः ॥ १२.२९५.१९ ॥
乌摩之主看见手掌中的婆利古后裔,张开口,皱起眉头,缓缓将手甩开。
12.295.20
स तु प्रविष्ट उशना कोष्ठं माहेश्वरं प्रभुः ।
व्यचरच्चापि तत्रासौ महात्मा भृगुनन्दनः ॥ १२.२९५.२० ॥
那位主宰乌舍那斯进入大自在天的腹中,那位大德的婆利古之子在那里漫游。
12.295.21
किमर्थं व्यचरद्राजन्नुशना तस्य धीमतः ।
जठरे देवदेवस्य किंचाकार्षीन्महाद्युतिः ॥ १२.२९५.२१ ॥
大王啊,那位智慧的乌舍那斯为何在神中之神的腹中漫游?那位大光明者在那里做了什么?
12.295.22
पुरा सोऽन्तर्जलगतः स्थाणुभूतो महाव्रतः ।
वर्षाणामभवद्राजन्प्रयुतान्यर्बुदानि च ॥ १२.२९५.२२ ॥
往昔,那位大誓者入于水中,像柱子一样静止不动;大王啊,他就这样持续了数十万乃至数千万年。
12.295.23
उदतिष्ठत्तपस्तप्त्वा दुश्चरं च महाह्रदात् ।
ततो देवातिदेवस्तं ब्रह्मा वै समसर्पत ॥ १२.२९५.२३ ॥
他修行了艰难的苦行,从那大湖中站起;这时,超越诸神的梵天来到他的面前。
12.295.24
तपोवृद्धिमपृच्छच्च कुशलं चैवमव्ययः ।
तपः सुचीर्णमिति च प्रोवाच वृषभध्वजः ॥ १२.२९५.२४ ॥
那位不朽者询问他苦行的增长与安好;而以牛为旗的神说:“苦行做得很好。”
12.295.25
तत्संयोगेन वृद्धिं चाप्यपश्यत्स तु शंकरः ।
महामतिरचिन्त्यात्मा सत्यधर्मरतः सदा ॥ १२.२९५.२५ ॥
通过这一结合,商羯罗也看到了增长。他大智慧,不可思议之自性,常乐于真理与法。
12.295.26
स तेनाढ्यो महायोगी तपसा च धनेन च ।
व्यराजत महाराज त्रिषु लोकेषु वीर्यवान् ॥ १२.२९५.२६ ॥
他因此而富足,以苦行与财富,大瑜伽士,大王啊,在三界中以威力光耀。
12.295.27
ततः पिनाकी योगात्मा ध्यानयोगं समाविशत् ।
उशना तु समुद्विग्नो निलिल्ये जठरे ततः ॥ १२.२९५.२७ ॥
于是以瑜伽为自性的毗那基进入禅定瑜伽。而乌莎那极为不安,遂藏于他的腹中。
12.295.28
तुष्टाव च महायोगी देवं तत्रस्थ एव च ।
निःसारं काङ्क्षमाणः स तेन स्म प्रतिहन्यते ॥ १२.२९५.२८ ॥
大瑜伽士就站在那里赞颂神;然而渴求无实之物者,却被他所击倒。
12.295.29
उशना तु तथोवाच जठरस्थो महामुनिः ।
प्रसादं मे कुरुष्वेति पुनः पुनररिंदम् ॥ १२.२९५.२९ ॥
然而在腹中的大仙乌莎那也一再如此说道:「请施恩于我」,降伏敌人者啊。
12.295.30
तमुवाच महादेवो गच्छ शिश्नेन मोक्षणम् ।
इति सर्वाणि स्रोतांसि रुद्ध्वा त्रिदशपुङ्गवः ॥ १२.२९५.३० ॥
于是大天对他说:「由阴茎而出,即得解脱」;三十神中的最优者,堵住了一切孔道,
12.295.31
अपश्यमानस्तद्द्वारं सर्वतः पिहितो मुनिः ।
पर्यक्रामद्दह्यमान इतश्चेतश्च तेजसा ॥ १२.२९५.३१ ॥
这位圣者看不到出口,四面被封,因自身的光焰而燃烧,便在四处来回走动。
12.295.32
स वै निष्क्रम्य शिश्नेन शुक्रत्वमभिपेदिवान् ।
कार्येण तेन नभसो नाध्यगच्छत मध्यतः ॥ १२.२९५.३२ ॥
他从那器官中出来,得到了精液的形态;但为那一目的,他却未能到达天空的中央。
12.295.33
तत एव च देवेषु अप्रविष्टो महामुनिः ।
पौरोहित्यं च दैत्यानां शक्रतेजोविवृद्धये ॥ १२.२९५.३३ ॥
此后,那位大仙没有进入诸神之中,为了增长因陀罗的威力,他担任了达提亚们的祭司。
12.295.34
विनिष्क्रान्तं तु तं दृष्ट्वा ज्वलन्तमिव तेजसा ।
भवो रोषसमाविष्टः शूलोद्यतकरः स्थितः ॥ १२.२९५.३४ ॥
看见他像燃烧的火一样出来,婆婆(湿婆)怒气充盈,手持三叉戟站立。
12.295.35
अवारयत तं देवी क्रुद्धं पशुपतिं पतिम् ।
पुत्रत्वमगमद्देव्या वारिते शंकरे च सः ॥ १२.२९५.३५ ॥
女神制止了愤怒的帕苏帕蒂,她的丈夫;他被女神制止后,便获得了儿子的身份。
12.295.36
देव्युवाच ।
हिंसनीयस्त्वया नैव मम पुत्रत्वमागतः।
न हि देवोदरात्कश्चिन्निःसृतो नाशमर्हति ॥ १२.२९५.३६ ॥
女神说:“你不可伤害他,因为他已成为我的儿子。凡从女神腹中出来的人,实在不该遭受毁灭。”
12.295.37
ततः प्रीतो भवो देव्याः प्रहसंश्चेदमब्रवीत् ।
गच्छत्वेष यथाकाममिति राजन्पुनः पुनः ॥ १२.२९५.३७ ॥
于是婆婆(湿婆)心中欢喜,看着天女笑着说:“王啊,让他随意离去吧”,如此反复说了多次。
12.295.38
ततः प्रणम्य वरदं देवं देवीमुमां तथा ।
उशना प्राप तद्धीमान्गतिमिष्टां महामुनिः ॥ १२.२९५.३८ ॥
于是,乌尚那仙人向赐福之神和天女乌玛致敬,这位智慧的大仙人得到了他所求的归宿。
12.295.39
एतत्ते कथितं तात भार्गवस्य महात्मनः ।
चरितं भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि ॥ १२.२९५.३९ ॥
孩子啊,你所问的这位仁慈的婆利固后裔的事迹,已经讲给你听了,婆罗多族中最优秀的人啊。