Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.317

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.317.1

तत्त्वानां सर्गसङ्ख्या च कालसङ्ख्या तथैव च ।
मया प्रोक्ताऽनुपूर्वेण संहारमपि मे शृणु ॥ १२.३१७.१ ॥

我已依次说明诸原理的创造次数与时代的数目。现在也请听我讲毁灭(saṃhāra)。

12.317.2

यता संहरते जन्तून्ससर्ज च पुनः पुनः ।
अनादिनिधनो ब्रह्मा नित्यश्चाक्षर एव च। ॥ १२.३१७.२ ॥

他自制地收回众生,又一次次地创造它们。无始无终的梵天是常住不灭的。

12.317.3

अहःक्षयमथो बुद्ध्वा निशि स्वप्नमनास्तथा ।
चोदयामास भगवानव्यक्तोऽहंकृतं नरम् ॥ १२.३१७.३ ॥

知晓白昼的终结,夜晚无梦,同样,有福的未显者激发了具有我执的人。

12.317.4

ततः शतसहस्रांशुरव्यक्तेनाभिचोदितः ।
कृत्वा द्वादशधाऽऽत्मानमादित्यो ज्वलदग्निवत् ॥ १२.३१७.४ ॥

于是,被未显者激发的千光太阳将自身分作十二,成为如熊熊烈火的样子。

12.317.5

चतुर्विधं प्रजाजातं निर्दहत्याशु तेजसा ।
जराय्वण्डस्वेदजातमुद्भिज्जं स नराधिप ॥ १२.३१७.५ ॥

他以光芒迅速焚烧四类众生:胎生、卵生、湿生和化生。哦,人主!

12.317.6

एतदुन्मेषमात्रेण विनष्टं स्थाणुजङ्गमम् ।
कूर्मपृष्ठसमा भूमिर्भवत्यथ समन्ततः ॥ १२.३१७.६ ॥

瞬息之间,一切静止与运动之物皆毁灭;然后四面的大地变得如龟背一般。

12.317.7

जगद्दग्ध्वाऽमितबलः केवलां जगर्ती ततः ।
अम्भसा बलिना क्षिप्रमापूरयति सर्वशः ॥ १२.३१७.७ ॥

无量威力者焚尽世界之后,迅速以强大的水从四面八方注满整个大地。

12.317.8

ततः कालाग्निमासाद्य तदम्भो याति संक्षयम् ।
विनष्टेऽम्भसि राजेन्द्र जाज्वलत्यनलो महान् ॥ १२.३१७.८ ॥

随后,此水抵达时间之火便走向毁灭;水既灭尽,大王啊,一场大火便熊熊燃起。

12.317.9

तमप्रमेयातिबलं ज्वलमानं विभावसुम् ।
ऊष्माणं सर्वभूतानां सप्ताचिंपमथाञ्जसा ॥ १२.३१७.९ ॥

那无量而极其强大、熊熊燃烧的毗婆娑(火),众生的热力,七焰之火——那时便轻易地。

12.317.10

भक्षयामास भगवान्वायुरष्टात्मको बली ।
विचरन्नमितप्राणस्तिर्यगूर्ध्वमधस्तथा ॥ १२.३१७.१० ॥

八相的强大世尊风将其吞噬,以无量的气息,横向、向上与向下地运行。

12.317.11

तमप्रतिबलं भीममाकाशं ग्रसते पुनः ।
आकाशमप्यभिनदन्मनो ग्रसति चारिकम् ॥ १२.३१७.११ ॥

那无与伦比、可怖的存在又被虚空吞没;而咆哮的虚空,又被游走的心所吞没。

12.317.12

मनो ग्रसति सर्वात्मा सोहंकारः प्रजापतिः ।
अहंकारो महानात्मा भूतभव्यभविष्यवित् ॥ १२.३१७.१२ ॥

一切之我的主宰(生主)连同我执吞噬心;而大我即我执,是知过去、现在与未来者。

12.317.13

तमप्यनुपमात्मानं विश्वं शंभुः प्रजापतिः ।
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥ १२.३१७.१३ ॥

那无比的自我,宇宙的吉祥主宰、众生之主,被称为阿尼玛、拉吉玛、普拉普提、伊until,不灭之光。

12.317.14

सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १२.३१७.१४ ॥

他无处不有手足,无处不有眼、头和面,无处不有耳;在世间笼罩一切而安住。

12.317.15

हृदयं सर्वभूतानां पर्वणाऽङ्गुष्ठमात्रकः ।
अणुग्रसत्यनन्तो हि महात्मा विश्वमीश्वरः ॥ १२.३१७.१५ ॥

众生的心,细小如拇指一节;无尽的大我、主宰吞噬宇宙。

12.317.16

ततः समभवत्सर्वमक्षयाव्ययमव्रणम् ।
भूतभव्यभविष्याणां स्रष्टारमनघं तथा ॥ १२.३१७.१६ ॥

于是一切生起——不灭、不坏、无伤;过去、现在、未来众生的创造者,同样无垢。

12.317.17

एषोप्ययस्ते राजेन्द्र यथावत्समुदाहृतः ।
अध्यात्ममधिभूतं च श्रूयतां चाधिदैवतम् ॥ १२.३१७.१७ ॥

王中之王啊,这也已如实为你宣说;现在请听内在的自我、元素的与神圣的。