摩诃婆罗多 · 章 12.326
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.326.1
अव्यक्तव्यक्ततत्वानां निश्चयं भरतर्षभ ।
वक्तुमर्हसि कौरव्य देवस्याजस्य या कृतिः ॥ १२.३२६.१ ॥
婆罗多之雄啊,俱卢后裔啊,你应当说明未显与已显诸原理的确定之见——那不生之神所作的是什么。
12.326.2
अत्राप्युदाहरन्तीमं संवादं गुरुशिष्ययोः ।
कपिलस्यासुरेश्चैव सर्वदुःखविमोक्षणम् ॥ १२.३२६.२ ॥
这里人们也讲述这段师徒之间的对话——迦毗罗与阿修厘之间的,它能使人解脱一切苦难。
12.326.3
अव्यक्तव्यक्ततत्वानां निश्चयं बुद्धिनिश्चयम् ।
भगवन्नमितप्रज्ञ वक्तुमर्हसि मेऽर्थितः ॥ १२.३२६.३ ॥
尊者啊,谦逊智慧者啊,应我所请,你应当告诉我关于未显与已显诸原理的智识上的决定性确信。
12.326.4
किं व्यक्तं किमव्यक्तं किं व्यक्ता ।
व्यक्तं किमिति तत्वानि।
किमाद्यं मध्यमं च तत्वानां ।
किमध्यात्माधिभूतदैवतं च ॥ १२.३२६.४ ॥
什么是显现,什么是未显现,什么是显现者,显现是什么?这些原理是什么?在诸原理中,何者为始,何者为中,内我、外元素与神性的主宰又是什么?
12.326.5
किंनु सर्गाप्ययं कति सर्गाः किं भूतं ।
किं भविष्यं किं भव्यं च किं ज्ञानम्।
को ज्ञाता किं बुद्धं किमप्रबुद्धं ।
किं बुध्यमानं कति पर्वाणि ॥ १२.३२६.५ ॥
那么创造与毁灭是什么,创造有几种?过去是什么,未来是什么,应当有的是什么?知识是什么,知者是谁,所觉者是什么,未觉者是什么,正在觉知者是什么,诸部分有几个?
12.326.6
कति स्रोतांसि कति कर्मयोनयः ।
किमेकत्वं नानात्वम्।
किं सहवासं निवासं ।
किं विद्याविद्यमिति ॥ १२.३२६.६ ॥
有多少流,有多少业之源?一是什么,多是什么?共住是什么,居住是什么?明与无明是什么?