摩诃婆罗多 · 章 12.330
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.330.1
यद्यस्ति दत्तमिष्टं वा तपस्तप्तं तथैव च ।
गुरूणां वाऽपि शुश्रूषा तन्मे ब्रूहि पितामह ॥ १२.३३०.१ ॥
若曾行布施、祭祀或苦行,并同样侍奉了师长,请告诉我,祖父。
12.330.2
आत्मनाऽनर्थयुक्तेन पापे निविशते मनः ।
स कर्म कलुषं कृत्वा क्लेशे महति धीयते ॥ १२.३३०.२ ॥
人若自陷于不幸,心便沉溺于罪恶,作下污秽之业,便被置于巨大的苦难之中。
12.330.3
दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम् ।
मृतेभ्यः प्रमृता यान्ति दरिद्राः पापकर्मिणः ॥ १२.३३०.३ ॥
从饥荒到饥荒,从苦难到苦难,从恐惧到恐惧;作恶的贫穷者由死者走向死者。
12.330.4
उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम् ।
श्रद्दधानाश्च दान्ताश्च धनस्याः शुभकारिणः ॥ १२.३३०.४ ॥
从节庆到节庆,从天界到天界,从幸福到幸福;有信心、自我克制、以财富行善的人也如此而往。
12.330.5
व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च ।
हस्तावापेन गच्छन्ति नास्तिकाः किमतः परम् ॥ १२.३३०.५ ॥
在蛇与象的险地,在蛇与盗贼的危难中,无信之人如被手投掷而去;此外还有何可言?
12.330.6
प्रियदेवातिथेयाश्च वदान्याः प्रियसाधवः ।
क्षेम्यमात्मवता मार्गमास्थिता हस्तदक्षिणाः ॥ १२.३३०.६ ॥
敬重神明与宾客、慷慨、爱戴善人、以手布施的人,安住于自制者所行的安全之道。
12.330.7
पुलाका इव धान्येषु पूत्यण्डा इव पक्षिषु ।
तद्विधास्ते मनुष्येषु येषां धर्मो न कारणम् ॥ १२.३३०.७ ॥
如同谷物中的糠秕、禽鸟中的腐卵,人中那些不以法为根本者便是如此。
12.330.8
सुशीघ्रमपि धावन्तं विधानमनुधावति ।
शेते सह शयानेन येनयेन यथाकृतम् ॥ १२.३३०.८ ॥
即使奔跑得极快之人,命运也紧随其后;谁如何行事,那结果便与他同寝。
12.330.9
पापं तिष्ठति तिष्ठन्तं धावन्तमनुधावति ।
करोति कुर्वतः कर्म च्छायेवानुविधीयते ॥ १२.३३०.९ ॥
恶随着停留者而停留,追随奔跑者而奔跑;行为者所作的业,如影随形地跟随着他。
12.330.10
येनयेन यथा यद्यत्पुरा कर्म सुनिश्चितम् ।
तत्तदेव नरो भुङ्क्ते नित्यं विहितमात्मना ॥ १२.३३०.१० ॥
往昔所确定的任何业,以任何方式,人便正是享受那所由自己恒常安排的结果。
12.330.11
समानकर्मनिक्षेपं विधानपरिरक्षणम् ।
भूतग्राममिमं कालः समन्तादपकर्षति ॥ १२.३३०.११ ॥
这群众生携带着同等业的寄托与对定则的守护,时间从四面八方把他们拖走。
12.330.12
अचोद्यमानानि यथा पुष्पाणि च फलानि च ।
स्वं कालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥ १२.३३०.१२ ॥
如同花与果实,不待催促也不越过自己的时节,前世所作之业也是如此。
12.330.13
समानश्चावमानश्च लाभालाभौ जयाजयौ ।
प्रवृत्ता न निवर्तन्ते निधनान्ताः पदेपदे ॥ १२.३३०.१३ ॥
荣与辱、得与失、胜与败——已然发动者,步步走向死亡,不会回头。
12.330.14
आत्मना विहितं दुःखमात्मना विहितं सुखम् ।
गर्भशय्यामुपादाय भजते पूर्वदेहिकम् ॥ १२.३३०.१४ ॥
苦由自己所定,乐亦由自己所定;自胎藏之床起,众生便承受前身的(业果)。
12.330.15
बालो युवा वा वृद्धश्च यत्करोति शुभाशुभम् ।
तस्यांतस्यामवस्थायां भुङ्क्ते जन्मनिजन्मनि ॥ १२.३३०.१५ ॥
无论是孩童、青年还是老人,凡所行善或恶,在每一阶段,生生世世都承受其果报。
12.330.16
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ १२.३३०.१६ ॥
犹如千头母牛之中,小牛能找到自己的母亲,前世所作之业也会追随作者。
12.330.17
मलिनं हि यथा वस्त्रं पश्चाच्छुध्यति वारिणा ।
उपवासैः प्रतप्तानां दीर्घं सुखमनन्तकम् ॥ १२.३३०.१७ ॥
犹如污垢的衣服之后以水洗净,经斋戒炼净者,便有长久无尽的快乐。
12.330.18
दीर्घकालेन तपसा सेवितेन तपोवने ।
धर्मनिर्धूतपापानां संसिध्यन्ते मनोरथाः ॥ १२.३३०.१८ ॥
在苦行林中长久修习苦行,那些以法抖落罪过的人,其心愿便得以成就。
12.330.19
शकुनानामिवाकाशे मत्स्यानामिव चोदके ।
पदं यथा न दृश्येत तथा पुण्यकृतां गतिः ॥ १२.३३०.१९ ॥
如同鸟在天空中、鱼在水中的足迹不可见,行善者的去路也不可见。
12.330.20
अलमन्यैरुपालब्धैः कीर्तितैश्च व्यतिक्रमैः ।
पेशलं चानुरूपं च कर्तव्यं हितमात्मनः ॥ १२.३३०.२० ॥
指责他人、历数他人的过失已经足够。应当去做令人愉悦、合宜且对自己有益的事。