摩诃婆罗多 · 章 12.338
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.338.1
अशोकं शोकनाशार्थं शास्त्रं शान्तिकरं शिवम् ।
निशम्य लभते बुद्धिं तां लब्ध्वा सुखमेधते ॥ १२.३३८.१ ॥
闻此无忧、带来寂静与吉祥的论典,为断除忧愁,人便获得智慧;获得智慧后,便在安乐中增长。
12.338.2
शोकस्थानसहस्राणि भयस्थानशतानि च ।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम् ॥ १२.३३८.२ ॥
无数的忧愁之处与数百的恐惧之处,日复一日地侵入愚者,而不侵入智者。
12.338.3
तस्मादनिष्टनाशार्थमितिहासं निबोध मे ।
तिष्ठते चेद्वशे बुद्धिर्लभते शोकनाशनम् ॥ १२.३३८.३ ॥
因此,为断除不如意之事,请听我讲此历史。若智慧常在掌控之中,便能获得断除忧愁。
12.338.4
अनिष्टसंप्रयोगाच्च विप्रयोगात्प्रियस्य च ।
मनुष्या मानसैर्दुःखैर्युज्यन्ते स्वल्पबुद्ध्यः ॥ १२.३३८.४ ॥
因与不如意者相合,又因与所爱者分离,智慧浅薄之人便为心中的痛苦所缠绕。
12.338.5
द्रव्येषु समतीतेषु ये गुणास्तान्न चिन्तयेत् ।
न तानाद्रियमाणस्य स्नेहबन्धः प्रमुच्यते ॥ १२.३३८.५ ॥
对于已逝之物,不应思念其种种功德;对它们不再眷恋的人,爱的纽带便会解脱。
12.338.6
दोषदर्शी भवेत्तत्र यत्र रागः प्रवर्तते ।
अनिष्ट्वद्धितं पश्येत्तथा क्षिप्रं विरज्यते ॥ १२.३३८.६ ॥
凡贪爱生起之处,应当看见其过失;若将有益之物视如不如意,便很快离欲而去。
12.338.7
नार्थो न धर्मो न यशो योऽतीतमनुशोचति ।
अप्यभावेन युज्येत तच्चास्य न निवर्तते ॥ १२.३३८.७ ॥
为过去而悲伤的人,既得不到财富,也得不到法,也得不到名声;他只与匮乏相连,而匮乏也不会离开他。
12.338.8
गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च ।
सर्वाणि नैतदेकस्य शोकस्थानं हि युज्यते ॥ १२.३३८.८ ॥
众生因其属性而结合,也同样分离;一切皆如此——不应只有一人以此作为悲伤的根由。
12.338.9
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति ।
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ॥ १२.३३८.९ ॥
无论是死去的还是失去的——为过去而悲伤的人,以苦得苦;他落入两种祸患。
12.338.10
नाश्रु कुर्वन्ति ये बुद्ध्या दृष्ट्वा लोकेषु संततिम् ।
सम्यक्प्रपश्यतः सर्वं नाश्रुकर्मोपपद्यते ॥ १२.३३८.१० ॥
那些以智慧看见世界中相续不断之理而不流泪的人——对于正确看清一切的人,落泪是不相称的。
12.338.11
दुःखोपघाते शारीरे मानसे चाप्युपस्थिते ।
यस्मिन्न शक्यते कर्तुं यत्नस्तन्नानुचिन्तयेत् ॥ १२.३३८.११ ॥
当身体或心灵的苦痛打击降临,而又无法对其加以努力时,就不应思念它。
12.338.12
भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत् ।
चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते ॥ १२.३३८.१२ ॥
这就是苦的良药:不去思念它。因为被思念的苦痛不会消散,反而会再度增长。
12.338.13
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः ।
एतद्विज्ञानमसामर्थ्यं न बालैः समतामियात् ॥ १२.३३८.१३ ॥
以智慧消除心中之苦,以药物消除身体之苦。这是智慧的能力,孩童不能与之相比。
12.338.14
अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः ।
आरोग्यं प्रियसंसर्गो गृध्येत्तत्र न पण्डितः ॥ १२.३३८.१४ ॥
青春、容貌、生命、财富的积累、健康与亲人的相伴都是无常的;智者不贪恋它们。
12.338.15
न जानपदिकं दुःखमेकः शोचितुमर्हति ।
अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम् ॥ १२.३३८.१५ ॥
一人不应为国家的苦难独自悲伤。若见到方法,便应不悲伤地去应对。
12.338.16
सुखाद्बहुतरं दुःखं जीविते नात्र संशयः ।
स्निग्धत्वं चेन्द्रियार्थेषु मोहान्मरणमप्रियम् ॥ १२.३३८.१६ ॥
人生中苦远多于乐,这毫无疑问。若执著于感官之境,便因迷惑而迎来不愿见到的死亡。
12.338.17
परित्यजति यो दुःखं सुखं वाऽप्युभयं नरः ।
अभ्येति ब्रह्म सोत्यन्तं न तं शोचन्ति पण्डिताः ॥ १२.३३८.१७ ॥
舍弃苦与乐二者的人,能完全达到梵;智者不为他悲伤。
12.338.18
त्यजन्ते दुःखमर्था हि पालनेन च ते सुखाः ।
दुःखेन चाधिगम्यन्ते नाशमेषां न चिन्तयेत् ॥ १२.३३८.१८ ॥
财富先带来苦,守护之后才变得快乐,且要经历辛苦才能获得。不应思虑它们的失去。
12.338.19
अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः ।
अतृप्ता यान्ति विध्वंसं संतोषं यान्ति पण्डिताः ॥ १२.३३८.१९ ॥
人们得到一种又一种的财富境况,却因不知足而走向毁灭;智者则获得知足。
12.338.20
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥ १२.३३८.२० ॥
一切积聚终归衰败,一切高升终归跌落,一切聚合终归分离,生命终归以死亡结束。
12.338.21
अन्तो नास्ति पिपासायास्तुष्टिस्तु परमं सुखम् ।
तस्मात्संतोषमेवेह धनं पश्यन्ति पण्डिताः ॥ १२.३३८.२१ ॥
贪欲没有止境;而知足才是至高的快乐。因此智者在此视知足为真正的财富。
12.338.22
निमेषमात्रमपि हि वयो गच्छन्न तिष्ठति ।
स्वशरीरेष्वनित्येषु नित्यं किमनुचिन्तयेत् ॥ १२.३३८.२२ ॥
生命连一瞬间也不停留,只是不断流逝。在这无常的自身之中,何必去时时思量那恒常的东西?
12.338.23
भूतेषु भावं संचिन्त्य ये बुद्ध्वा मनसः परम् ।
न शोचन्ति गताध्वानः पश्यन्तः परमां गतिं ॥ १२.३३८.२३ ॥
那些思量众生之性、了知超越心意之境而不悲伤的人,走完道路,便能看见至高的归宿。
12.338.24
संचिन्वानकमेवैनं कामानामवितृप्तकम् ।
व्याघ्रः पशुमिवासाद्य मृत्युरादाय गच्छति ॥ १२.३३८.२४ ॥
这个不断积聚欲望、从不满足的人,死亡将他抓住带走,就像老虎扑住牲畜而叼走一样。
12.338.25
तथाऽप्युपायं संपश्येद्दुःखस्य परिमोक्षणे ।
अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत् ॥ १२.३३८.२५ ॥
然而应当寻求从苦难中解脱的方法;不悲伤,便应开始行动,保持克制,不陷入灾难。
12.338.26
शब्दे स्पर्शे च रूपे च गन्धेषु च रसेषु च ।
नोपभोगात्परं किंचिद्धनिनो वाऽधनस्य च ॥ १२.३३८.२६ ॥
除了对声、触、色、香、味的享受之外,无论富人还是穷人,都没有更高的东西。
12.338.27
प्राक्संप्रयोगाद्भूतानां नास्ति दुःखं परायणम् ।
विप्रयोगात्तु सर्वस्य न शोचेत्प्रकृतिस्थितः ॥ १२.३३८.२७ ॥
众生相合之前,苦并非其最终归宿;而在一切离散之时,安住于本性者不应悲伤。
12.338.28
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ।
चक्षुःश्रोत्रे च मनसा मनो वाचं च विद्यया ॥ १२.३३८.२८ ॥
以坚定守护生殖器与腹部,以视线守护手足,以心守护眼与耳,以智慧守护心与言语。
12.338.29
प्रणयं प्रतिसंहृत्य सस्निग्धेष्वितरेषु च ।
विचरेदसमुन्नद्धः स सुखी स च पण्डितः ॥ १२.३३८.२९ ॥
收敛情爱,在亲近者与他人之间行走而不傲慢,这样的人才快乐,也才是智者。
12.338.30
अध्यात्मरतिरासीनो निरपेक्षो निरामिषः ।
आत्मनैव सहायेन यश्चरेत्स सुखी भवेत् ॥ १२.३३८.३० ॥
若能喜乐于自我而安住,无所期待,远离世俗诱饵,唯以自我为伴而行,此人必得快乐。