摩诃婆罗多 · 章 12.340
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.340.1
गिरिशृङ्गं समारुह्य सुतो व्यासस्य भारत ।
समे देशे विविक्ते स निःशलाक उपाविशत् ॥ १२.३४०.१ ॥
婆罗多啊,毗耶娑之子登上山峰,在平坦僻静之处,无所羁绊地坐下。
12.340.2
धारयामास चात्मानं यथाशास्त्रं यथाविधि ।
पादप्रभृतिगात्रेषु क्रमेण क्रमयोगवित् ॥ १२.३४०.२ ॥
他依照经典与仪轨持守自身,从双足开始,按次序安住于各肢体,因为他通晓瑜伽的次第。
12.340.3
ततः स प्राङ्भुखो विद्वानादित्ये नाचिरोदिते ।
पाणिपादं समाधाय विनीतवदुपाविशत् ॥ १२.३४०.३ ॥
于是这位智者面向东方,太阳刚刚升起,他收敛手足,谦恭地坐下。
12.340.4
न तत्र पक्षिसंपातो न शब्दो नापि दर्शनम् ।
यत्र वैयासकिर्धीमान्योक्तुं समुपचक्रमे ॥ १२.३४०.४ ॥
那里没有鸟的飞翔,没有声音,也没有人影;就在那里,智慧的毗耶娑之子开始宣说。
12.340.5
स ददर्श तदाऽऽत्मानं सर्वसङ्गविनिःसृतम् ।
प्रजहास ततो हासं शुकः संप्रेक्ष्य तत्परम् ॥ १२.३४०.५ ॥
那时他看见自己已摆脱一切执着;看见那至上之境,suka 便笑了起来。
12.340.6
स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये ।
महायोगेश्वरो भूत्वा सोऽत्यक्रामद्विहायसम् ॥ १२.३४०.६ ॥
他再次依托瑜伽,为证得解脱之道,成为大瑜伽自在者,便升起,飞向虚空。
12.340.7
ततः प्रदक्षिणं कृत्वा देवर्षि नारदं ततः ।
निवेदयामास च तं स्वं योगं परमर्षये ॥ १२.३४०.७ ॥
随后,他绕行神圣仙人那罗陀,并向这位至上仙人禀告了自己的瑜伽。
12.340.8
दृष्टो मार्गः प्रवृत्तोस्मि स्वस्ति तेऽस्तु तपोधन ।
त्वत्प्रसादाद्गमिष्यामि गतिमिष्टां महाद्युते ॥ १२.३४०.८ ॥
我已看见道路,正要启程。愿你安康,苦行的宝藏。凭你的恩典,我将达到所愿的归宿,大光辉者啊。
12.340.9
नारदेनाभ्यनुज्ञातः शुको द्वैपायनात्मजः ।
अभिवाद्य पुनर्योगमास्थायाकाशमाविशत् ॥ १२.३४०.९ ॥
得到那罗陀的允许后,德瓦帕耶那之子苏迦向他致礼,重新入定于瑜伽,进入了天空。
12.340.10
कैलासपृष्ठादुत्पत्य स पपात दिवं तदा ।
अन्तरिक्षचरः श्रीमान्व्यासपुत्रः सुनिश्चितः ॥ १२.३४०.१० ॥
他从冈仁波齐峰顶腾身而起,随即向天界坠去——这位荣耀的毗耶娑之子,在空中游行,意志坚定。
12.340.11
तमुद्यन्तं द्विजश्रेष्ठं वैनतेयसमद्युतिम् ।
ददृशुः सर्वभूतानि मनोऽमारुतरंहसम् ॥ १२.३४०.११ ॥
一切众生都看见那位再生者中的最上者升腾而起,光辉如迦卢达,迅捷如意念与风。
12.340.12
व्यवसायेन लोकांस्त्रीन्सर्वान्सोऽथ विचिन्तयन् ।
आस्थितो दिव्यमध्वानं पावकार्कसमप्रभः ॥ १२.३४०.१२ ॥
他以坚定的意志默想三界,随即登上神圣之道,光辉如火与日。
12.340.13
तमेकमनसं यान्तमव्यग्रमकुतोभयम् ।
ददृशुः सर्वभूतानि जङ्गमानीतराणि च ॥ १२.३४०.१३ ॥
他心志专一、不动摇、无所畏惧地前行,一切动与不动的众生都看见了他。
12.340.14
यथाशक्ति यथान्यायं पूजयांचक्रिरे तदा ।
पुष्पवर्षेश्च दिव्यैस्तमलंचक्रुर्दिवौकसः ॥ १२.३४०.१४ ॥
于是他们依各自的能力与礼法礼敬他,天界的居民以神圣的花雨装饰了他。
12.340.15
तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः ।
ऋषयश्चैव संसिद्धाः परं विस्मयमागताः ॥ १२.३४०.१५ ॥
众乾闼婆与阿普萨拉斯见到他都惊讶不已,已成就的仙人也大为惊奇。
12.340.16
अन्तरिक्षगतः कोऽयं तपसा सिद्धिमागतः ।
अधः कायोर्ध्ववक्रश्च नेत्रैः समतिवाह्यते ॥ १२.३४०.१६ ॥
此人是谁,在空中行走,以苦行达到了成就?他身体朝下,面孔朝上,似乎只凭双眼被带向前方。
12.340.17
ततः परमधर्मात्मा त्रिषु लोकेषु विश्रुतः ।
भास्करं समुदीक्षन्स प्राङ्भुखो वाग्यतोऽगमत्।
शब्देनाकाशमखिलं पूरयन्निव सर्वशः ॥ १२.३४०.१७ ॥
于是这位在三界中闻名、心灵至为正直的人,凝视着太阳,收敛言语,面向东方前行,仿佛以声音充满了整个天空。
12.340.18
तमापतन्तं सहसा दृष्ट्वा सर्वाप्सरोगणाः ।
संभ्रान्तमनसो राजन्नासन्परमविस्मिताः।
पञ्चचूडाप्रभृतयो भृशमुत्फुल्ललोचनाः ॥ १२.३४०.१८ ॥
众阿普萨拉斯见他忽然逼近,以般卓朱达等为首,国王啊,她们心中慌乱,极为惊异,双眼睁得大大的。
12.340.19
दैवतं कतमं ह्येतदुत्तमां गतिमास्थितम् ।
सुनिश्चितमिहायाति विमुक्तमिव निःस्पृहम् ॥ १२.३४०.१९ ॥
此为何神?他已达至上境,如解脱、无欲一般,以坚定的决心来到此处。
12.340.20
ततः समभिचक्राम मलयं नाम पर्वतम् ।
उर्वशी पूर्वचित्तिश्च यं नित्यमुपसेवतः ॥ १२.३४०.२० ॥
随后他前往名为摩罗耶的山,乌尔瓦希与普尔瓦奇提常常在那里侍奉。
12.340.21
तस्य ब्रह्मर्षिपुत्रस्य विस्मयं ययतुः परम् ।
अहो बुद्धिसमाधानं वेदाभ्यासरते द्विजे ॥ १२.३४०.२१ ॥
二人对这位婆罗门圣仙之子深感惊叹。啊,这位沉浸于吠陀学习的再生者,心志何等专一!
12.340.22
अचिरेणैव कालेन नभश्चरति चन्द्रवत् ।
पितृशुश्रूषया बुद्धिं संप्राप्तोऽयमनुत्तमाम् ॥ १२.३४०.२२ ॥
不久之后,他将像月亮一样在天空中行走;因侍奉父亲,他已获得至高的智慧。
12.340.23
पितृभक्तो दृढतपाः पितुः सुदयितः सुतः ।
अनन्यमनसा तेन कथं पित्रा विसर्जितः ॥ १२.३४०.२३ ॥
他是父亲的忠实者,苦行坚定,是父亲最宠爱的儿子——心无旁骛的他,父亲怎会将他遣走?
12.340.24
उर्वश्या वचनं श्रुत्वा शुकः परमधर्मवित् ।
उदैक्षत दिशः सर्वा वचने गतमानसः ॥ १२.३४०.२४ ॥
闻乌尔瓦希之言,通晓至上法的舍迦四顾八方,心神专注于那些话语。
12.340.25
सोऽन्तरिक्षं महीं चैव सशैलवनकाननाम् ।
विलोकयामास तदा सरांसि सरितस्तथा ॥ १२.३४०.२५ ॥
此时他观看天空与大地,连同山岳、森林与园林,以及湖泊与河流。
12.340.26
ततो द्वैपायनसुतं बहुमानात्समन्ततः ।
कृताञ्जलिपुटाः सर्वा निरीक्षन्ते स्म देवताः ॥ १२.३४०.२६ ॥
此时诸神以极大的敬意、合掌致礼,从四面八方注视着毗耶娑之子。
12.340.27
अब्रवीत्तास्तदा वाक्यं शुकः परमधर्मवित् ।
पिता यद्यनुगच्छेन्मां क्रोशमान शुकेति वै ॥ १२.३४०.२७ ॥
于是通晓至高法的述迦对他们说:“若父亲跟随我,呼喊“述迦,述迦”——
12.340.28
तस्य प्रतिवचो देयं सर्वैरेव समाहितैः ।
एतन्मे स्नेहनः सर्वे वचनं कर्तुमर्हथ ॥ १२.३४०.२८ ॥
对他,众人都应全神贯注地回应。亲爱的诸位,你们应当满足我的这一请求。
12.340.29
शुकस्य वचन श्रुत्वा दिशः सजलकाननाः ।
समुद्राः सरितः शैलाः प्रत्यूचुस्तं समन्ततः ॥ १२.३४०.२९ ॥
闻述迦之言,诸方与其水流、林木,以及大海、河流与山岳,从四面八方回应了他。
12.340.30
यथा ज्ञापयसे विप्र बाढमेवं भविष्यति ।
ऋषेर्व्याहरतो वाक्यं प्रतिवक्ष्यामहे वयम् ॥ १२.३४०.३० ॥
贤者啊,正如你所宣告的,必定如此。我们将回应这位圣者所说的话。