Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.362

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.362.1

धर्माः पितामहेनोक्ता मोक्षधर्माश्रिताः शुभाः ।
धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हति मे भवान् ॥ १२.३६२.१ ॥

祖父已宣说了依据解脱法门的吉祥法。请您为我讲说住于各个修行期者的最高法。

12.362.2

सर्वत्र विहितो धर्मः सत्यः सत्यफलोदयः ।
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया ॥ १२.३६२.२ ॥

法普遍被规定;它是真实的,其果报也从真实中生起。在具有多门的法中,此处没有无果的行为。

12.362.3

यस्मिन्यस्मिंश्च विषये यो यो याति विनिश्चयम् ।
स तमेवाभिजानाति नान्यं भरतसत्तम ॥ १२.३६२.३ ॥

凡人在任何事情上得出结论,他便只知道那一事,而不知其他,婆罗多中最优秀的人啊。

12.362.4

इमां च त्वं नरव्याघ्र श्रोतुमर्हसि मे कथाम् ।
पुरा शक्रस्य कथितां नारदेन महर्षिणा ॥ १२.३६२.४ ॥

人中之虎啊,你应当听我这个故事,它往昔曾由大仙那罗陀讲给帝释天听。

12.362.5

महर्षिर्नारदो राजन्सिद्धस्त्रैलोक्यसंमतः ।
पर्येति क्रमशो लोकान्वायुरव्याहतो यथा ॥ १२.३६२.५ ॥

大王啊,大仙那罗陀是成就者,为三界所敬重。他如无阻碍的风一般,依次遍行于诸世界。

12.362.6

स कदाचिन्महेष्वास देवराजालयं गतः ।
सत्कृतश्च महेन्द्रेण प्रत्यासन्नगतोऽभवत् ॥ १२.३६२.६ ॥

大弓箭手啊,他某次来到天王的住处。受到摩醯因陀罗的敬重后,他走近了他。

12.362.7

तं कृतक्षणमासीनं पर्यपृच्छच्छत्तीपतिः ।
महर्षे किंचिदाश्चर्यमस्ति दृष्टं त्वयाऽनघ ॥ १२.३६२.७ ॥

他休息后坐下,沙提之主问他:"大仙,无垢者,您是否见过什么奇异之事?"

12.362.8

दृष्टमेव हि विप्रर्षे त्रैलोक्यं सचराचरम् ।
जातकौतूहलो नित्यं सिद्धश्चरसि साक्षिवत् ॥ १२.३६२.८ ॥

婆罗门中的大仙啊,三界及其动与不动之物,我早已见过。您成就圆满,永远怀着好奇,如见证者般游历。

12.362.9

न ह्यस्त्यविदितं लोके देवर्षे तव किंचन ।
श्रुतं वाऽप्यनुभूतं वा दृष्टं वा कथयस्व मे ॥ १२.३६२.९ ॥

神圣的大仙啊,世间没有什么是您不知道的。请把您所听闻、经历或所见之事告诉我。

12.362.10

तस्मै राजन्सुरेन्द्राय नारदो वदतांवरः ।
आसीनायोपपन्नाय प्रोक्तवान्विपुलां कथाम् ॥ १२.३६२.१० ॥

国王啊,那位诸神之主坐着、前来时,言辞最善的那罗陀为他讲述了一个长篇故事。

12.362.11

यथा येन च कल्पेन स तस्मै द्विजसत्तमः ।
कथां कथितवान्पृष्टस्तथा त्वमपि मे शृणु ॥ १२.३६२.११ ॥

正如那位再生者中的最优者被问及时所讲述的方式,您也请从我这里听闻。