摩诃婆罗多 · 章 12.364
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.364.1
समुत्पन्ने विधानेऽस्मिन्वाङ्भाधुर्येण तेऽनघ ।
मित्रत्वमभिसंपन्नः किंचिद्वक्ष्यामि तच्छृणु ॥ १२.३६४.१ ॥
无罪者啊,当此规则出现时,我因你言语的甘美而与你结为朋友。现在我将说些什么,你听着。
12.364.2
गृहस्थधर्मं विप्रेन्द्र श्रुत्वा धर्मगतं त्वहम् ।
धर्मं परमकं कुर्यां को हि मार्गो भवेद्द्विज ॥ १२.३६४.२ ॥
婆罗门之主啊,听闻家主之责与法相关,我是否能行最高的法?再生者啊,那将是什么道路?
12.364.3
अहमात्मानमास्थाय एक एवात्मनि स्थितम् ।
द्रष्टुमिच्छन्न पश्यामि बद्धः साधारणैर्गुणैः ॥ १२.३६४.३ ॥
我依止于自我,想要独自看见那安住于自我之中者,却看不见,因为被普通的性质所束缚。
12.364.4
यावदेतदतीतं मे वयः पुत्रफलाश्रितम् ।
तावदिच्छामि पाथेयमादातुं पारलौकिकम् ॥ १२.३६४.४ ॥
在我这依赖子嗣之果的寿命尚未过去之前,我想为往生之路取得资粮。
12.364.5
अस्मिन्हि लोकसंभारे परं पारमभीप्सतः ।
उत्पन्ना मे मतिरियं कुतो धर्ममयः प्लवः ॥ १२.३६४.५ ॥
在这世间的重担之中,我渴望彼岸,于是生起此念:法之舟筏将从何处得来?
12.364.6
संयुज्यमानानि निशाम्य लोके ।
निर्यात्यमानानि च सात्विकानि।
दृष्ट्वा तु धर्मध्वजकेतुमालां ।
प्रकीर्यमाणामुपरि प्रजानाम् ॥ १२.३६४.६ ॥
我看见世间相合又被舍弃的善性之行,看见法幢之花环散落于众生之上……
12.364.7
न मे मनो रज्यति भोगरागै ।
र्दृष्ट्वा गतिं प्रार्थयतः परत्र।
तेनातिथे बुद्धिबलाश्रयेण ।
धर्मेण धर्मे विनियुङ्क्ष्व मां त्वम् ॥ १२.३६४.७ ॥
我的心不被享乐的贪欲所染。见到渴望来世之路的人,因此,客人啊,凭借智慧与力量,以法使我投入于法。
12.364.8
सोऽतिथिर्वचनं तस्य श्रुत्वा धर्माभिभाषिणः ।
प्रोवाच वचनं श्लक्षणं प्राज्ञो मधुरया गिरा ॥ १२.३६४.८ ॥
那位客人听了他论说法的话,以智者之身,用甜美的声音说出温和的话。
12.364.9
अहमप्यत्र मुह्यामि ममाप्येष मनोरथः ।
न च संनिश्चयं चामि बहुद्वारे त्रिविष्टये ॥ १२.३६४.९ ॥
我在此也感到迷惑,这也是我的愿望。对于有多门的天界,我却得不到确定的认识。
12.364.10
केचिन्मोक्षं प्रशंसन्ति केचिद्यज्ञफलं द्विजाः ।
वानप्रस्थाश्रयाः केचिद्गार्हस्थ्यं केचिदाश्रिताः ॥ १२.३६४.१० ॥
有人赞美解脱,有人赞美祭祀的果报,诸位再生者啊。有人归依林居的阶段,有人归依居家的生活。
12.364.11
राजधर्माश्रयाः केचित्केचिदात्मफलाश्रयाः ।
गुरुधर्माश्रयाः केचित्केचिद्वाक्संयमाश्रयाः ॥ १२.३६४.११ ॥
有人归依王法,有人归依自我之果。有人归依师长之法,有人归依言语的克制。
12.364.12
मातरं पितरं केचिच्छुश्रूषन्तो दिवं गताः ।
अहिंसया परे स्वर्गं सत्येन च तथाऽपरे ॥ १२.३६४.१२ ॥
有人侍奉父母而升天。有人以不杀生而升天,还有人以真实而升天。
12.364.13
आहवेऽभिमुखः केचिन्निहतास्त्रिदिवं गताः ।
केचिदुञ्छव्रतैः सिद्धाः स्वर्गमार्गं समाश्रिताः ॥ १२.३६४.१३ ॥
有人面对敌人在战斗中被杀而升天;有人以拾穗之誓成就,走上了天界之路。
12.364.14
केचिदध्ययने युक्ता वेदव्रतपराः शुभाः ।
बुद्धिमन्तो गताः स्वर्गं तुष्टात्मानो जितेन्द्रियाः ॥ १२.३६४.१४ ॥
有人专心学习,持守吠陀之誓,善良有智,心意满足,诸根调伏,而升往天界。
12.364.15
आर्जवेनापरे युक्ता निहतानार्जवैर्जनैः ।
ऋजवो नाकपृष्ठे वै शुद्धात्मानः प्रतिष्ठिताः ॥ १२.३६४.१५ ॥
另有人持守正直,却被邪曲之人所杀;正直而心地清净者,安住于天界之背。
12.364.16
एवं बहुविधैर्लोकैर्धर्मद्वारैरनावृतैः ।
ममापि मतिराविद्धा मेघलेखेव वायुना ॥ १२.३६४.१६ ॥
如此,因种种世界与敞开的法门,我的心意也被扰动,如同被风吹动的云丝。