Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.365

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.365.1

उपदेशं तु ते विप्र करिष्येऽहं यथाक्रमम् ।
गुरुणा मे यथाख्यातमर्थतत्त्वं तु मे शृणु ॥ १२.३६५.१ ॥

婆罗门啊,我将依次为你讲授。请听我讲那义理的真谛,正如我的师父所宣示的。

12.365.2

यत्र पूर्वाभिसर्गे वै धर्मचक्रं प्रवर्तितम् ।
नैमिषे गोमतीतीरे तत्र नागह्रदो महान् ॥ १२.३६५.२ ॥

在初次创造时法轮曾被转动之处,即在那摩西的哥摩提河岸,那里有大龙潭。

12.365.3

समग्रैस्रिदशैस्तत्र इष्टमासीद्द्विजर्षभ ।
यत्रेन्द्रातिक्रमं चक्रे माधाता राजसत्तमः ॥ १२.३६५.३ ॥

婆罗门中的雄牛啊,那里诸天一同举行了祭祀;也在那里,诸王中最优秀的摩陀多超越了因陀罗。

12.365.4

कृताधिवासो धर्मात्मा तत्र चक्षुःश्रवा महान् ।
पद्मनाभो महानागः पद्म इत्येव विश्रुतः ॥ १२.३६५.४ ॥

那里,心怀正法的伟大者眼听(Cakṣuḥśravā)曾居住;大龙帕德马那跋(Padmanābha)素以“莲”之名著称。

12.365.5

स वाचा कर्मणा चैव मनसा च द्विजर्षभः ।
प्रसादयति भूतानि त्रिविधे वर्त्मनि स्थितः ॥ १२.३६५.५ ॥

这位婆罗门中的雄牛,立足于言语、行为与心念这三种道路,令众生欢喜。

12.365.6

साम्ना भेदेन दानेन दणडेनेति चतुर्विधम् ।
पिपमस्थं समस्थं च चक्षुर्ध्यानेन रक्षति ॥ १२.३६५.६ ॥

和解、离间、布施与惩罚,这是四种方略。站立于地上与平坦之处的众生,他以禅定如守护眼睛一般护持。

12.365.7

तमतिक्रम्य विधिना प्रष्टुमर्हसि काङ्क्षित्तम् ।
स ते परमकं धर्मं न मिथ्या दर्शयिष्यरति ॥ १२.३६५.७ ॥

依照礼仪走近他,你应提出你所想问的问题;他会毫不虚妄地向你显示最高的法。

12.365.8

स हि सर्वातिथिर्नाणो बुद्धिशास्त्रविशारदः ।
गुणैरनुपमैर्युक्तः समस्तैराभिकामिकैः ॥ १२.३६५.८ ॥

他是众人的客人,是通晓智慧与经典的贤者,具备一切无与伦比、令人向往的美德。

12.365.9

प्रकृत्या नित्यसलिलो नित्यमध्ययने रतः ।
तपोदमाभ्यां संयुक्तो वृत्तेनानवरेण च ॥ १२.३६५.९ ॥

他天性常洁净,常专心于研习,具备苦行与克制,并有无上的品行。

12.365.10

यज्वा दानपतिः क्षान्तो वृत्ते च परमे स्थितः ।
सत्यवागनसूयुश्च शीलवान्नियतेन्द्रियः ॥ १२.३६५.१० ॥

他行祭祀,为施舍之主,能忍耐,安住于至上的品行;他言语诚实,无嫉妒,有德行,诸根受控。

12.365.11

शेषान्नभोक्ता वचनानुकूलो ।
हितार्जवोत्कृष्टकृताकृतज्ञः।
अवैरकृद्भूतहिते नियुक्तो ।
गङ्गाह्रदाम्भोभिजनोपपन्नः ॥ १२.३६५.११ ॥

食用剩余之食,顺从言语,在利益与正直上最为卓越,知恩且知所作与未作;不生仇怨,致力于众生之利,生于恒河池水之族。