Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.369

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.369.1

अथ काले बहुतिथे पूर्णे प्राप्तो भुजङ्गमः ।
दत्ताभ्यनुज्ञः स्वं वेश्म कृतकर्मा विवस्वता ॥ १२.३६९.१ ॥

此后许多日子过去,蛇得到毗婆娑之许可,完成了使命,回到了自己的住所。

12.369.2

तं भार्याऽप्युपचक्राम पादशौचादिभिर्गुणैः ।
उपपन्नां च तां साध्वीं पन्नगः पर्यपृच्छत ॥ १२.३६९.२ ॥

他的妻子也以洗足等事和种种美德侍奉他。蛇便向那位贤德的妇人详细询问。

12.369.3

अथ त्वमसि कल्याणि देवतातिथिपूजने ।
पूर्वमुक्तेन विधिना युक्ता कर्मसु वर्तसे ॥ १२.३६९.३ ॥

吉祥的女子啊,你按照前面所说的规则,专心于供奉诸神与宾客的职责。

12.369.4

न खल्वस्यकृतार्थेन स्त्रीबुद्ध्या मार्दवीकृता ।
मद्वियोगेन सुश्रोणि विमुक्ता धर्मसेतुना ॥ १२.३६९.४ ॥

美腰的女子啊,由于与我分离,你已脱离法之桥梁;因此,目的未达成的人,并未因女子之心而变得柔和。

12.369.5

शिष्याणां गुरुशुश्रूषा विप्राणां वेदधारणम् ।
भृत्यानां स्वामिवचनं राज्ञो लोकानुपालनम् ॥ १२.३६९.५ ॥

弟子之职在于侍奉师长;婆罗门之职在于持诵吠陀;仆役之职在于遵从主人之命;国王之职在于护佑世界。

12.369.6

सर्वभूतपरित्राणं क्षत्रधर्म इहोच्यते ।
वैश्यानां यज्ञसंवृत्तिरातिथेयसमन्विता ॥ १२.३६९.६ ॥

在此说保护一切众生即是刹帝利之法;吠舍之法在于行祭祀并兼具待客之道。

12.369.7

विप्रक्षत्रियवैश्यानां शुश्रूषा शूद्रकर्म तत् ।
गृहस्थधर्मो नागेन्द्र सर्वभूतहितैषिता ॥ १२.३६९.७ ॥

侍奉婆罗门、刹帝利和吠舍是首陀罗的职业。蛇王啊,家主的法是希望一切众生的福祉。

12.369.8

नियताहारता नित्यं व्रतचर्या यथाक्रमम् ।
धर्मो हि धर्मसंबन्धादिन्द्रियाणां विशेषतः ॥ १२.३६९.८ ॥

饮食有节、按序恒常地履行誓戒,就是法;尤其因为诸根与法相连。

12.369.9

अहं कस्य कुतो वाऽपि कः को मे ह भवेदिति ।
प्रयोजनमतिर्नित्यमेवं मोक्षाश्रमे वसेत् ॥ १२.३६९.९ ॥

常思“我属于谁,从何而来,谁是我的,谁可能成为我的”,心常专注于目的,如此应当住在解脱的修行林中。

12.369.10

पतिव्रतात्वं भार्यायाः परमो धर्म उच्यते ।
तवोपदेशान्नागेन्द्र तच्च तत्त्वेन वेद्मि वै ॥ १२.३६९.१० ॥

对丈夫忠贞被称为妻子的最高之法。蛇王啊,凭你的教导,我确实知晓此理。

12.369.11

साऽहं धर्मं विजानन्ती धर्ननित्ये त्वयि स्थिते ।
सत्पथं कथमृत्सृज्य यास्यामि विपथं पथः ॥ १२.३६९.११ ॥

我既知晓法,而你安住于永恒的法中,我怎能舍弃善道,走上邪途?

12.369.12

देवतानां महाभाग धर्मचर्या न हीयते ।
अतिथीनां च सत्कारे नित्ययुक्ताऽस्म्यतन्द्रिता ॥ १२.३६९.१२ ॥

大福之人啊,对诸神的法行并未衰减;而我总是不倦地投身于款待宾客。

12.369.13

सप्ताष्टदिवसास्त्वद्य विप्रस्येहागतस्य वै ।
तच्च कार्यं न मे ख्याति दर्शनं तव काङ्क्षति ॥ १२.३६९.१३ ॥

这位来到此处的婆罗门已有七八天了。那件事我并不知道,但他希望见你一面。

12.369.14

गोमत्यास्त्वेष पुलिने त्वद्दर्शनसमुत्सुकः ।
आसीनो वर्तयन्ब्रह्म ब्राह्मणः संशितव्रतः ॥ १२.३६९.१४ ॥

这位婆罗门坐在戈玛蒂河岸上,渴望见你一面,诵读吠陀,坚守誓言。

12.369.15

अहं त्वनेन नागेन्द्र सत्यपूर्वं समाहिता ।
प्रस्थाप्यो मत्सकाशं स संप्राप्तो भुजगोत्तमः ॥ १२.३६९.१५ ॥

蛇王啊,我受真诚之誓约束。应当把他送到我这里来,而那位最优秀的蛇已经来到我面前。

12.369.16

एतच्छ्रुत्वा महाप्राज्ञ तत्र गन्तुं त्वमर्हसि ।
दातुमर्हसि वा तस्य दर्शनं दर्शनश्रवः ॥ १२.३६९.१६ ॥

听到这些,大智者啊,你应当前往那里,或者让他见到你,你这以容颜闻名的人。