摩诃婆罗多 · 章 12.370
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.370.1
अथ ब्राह्मणरूपेण कं तं समनुपश्यसि ।
मानुषं केवलं विप्रं देवं वाऽथ शुचिस्मिते ॥ १२.३७०.१ ॥
那么,你看到的这位婆罗门形象的人是谁?他只是凡人婆罗门,还是神明?纯洁微笑的女子啊?
12.370.2
को हि मां मानुषः शक्तो द्रष्टुकामो यशस्विनि ।
संदर्शनरुचिर्वाक्यमाज्ञापूर्वं वदिष्यति ॥ १२.३७०.२ ॥
光荣的女子啊,什么人想见我,渴望一睹真容,能够以命令的口吻说出这样的话?
12.370.3
सुरासुरगणानां च देवर्षीनां च भामिनि ।
ननु नागा महावीर्याः सौरभेयास्तरस्विनः ॥ १२.३७०.३ ॥
美丽的女子啊,在诸神与阿修罗的众群之中,乃至在天仙之中,那龙蛇确实有大神力,是苏罗毗的后裔,且迅捷。
12.370.4
वन्दनीयाश्च वरदा वयमप्यनुयायिनः ।
मनुष्याणां विशेषेण नावेक्ष्या इति मे मतिः ॥ १२.३७०.४ ॥
我们也值得敬拜,能赐予恩惠,也是追随者;尤其是在人类之中,我们不应被忽视。这是我的看法。
12.370.5
आर्जवेन विजानामि नासौ देवोऽनिलाशन ।
एकं तस्मिन्विजानामि भक्तिमानतिरोपण ॥ १२.३७०.५ ॥
凭着质朴,我知道他不是神,吞风者啊。关于他,我只知道一件事:他是虔诚的,离怒者啊。
12.370.6
स हि कार्यान्तराकाङ्क्षी जलेप्सुः स्तोकको यथा ।
वर्षं वर्षप्रियः पक्षी दर्शनं तव काङ्क्षते ॥ १२.३७०.६ ॥
他必定另有所求,如同寻水的小鸟;又如爱雨的鸟儿,他渴望见到你。
12.370.7
हित्वा त्वद्दर्शनं किंचिद्विघ्नं न प्रतिपालयेत् ।
तुल्योप्यभिजने जातो न कश्चित्पर्युपासते ॥ १२.३७०.७ ॥
舍弃与你相见,不应等待任何障碍;即使出身于同等家族者,也无人侍奉。
12.370.8
तद्रोषं सहजं त्यक्त्वा त्वमेनं द्रष्टुमर्हसि ।
आशाच्छेदेन तस्याद्य नात्मानं दरधुमर्हसि ॥ १२.३७०.८ ॥
因此,舍弃你天生的愤怒,你应当见他;今日若断绝他的希望,你不应自我压抑。
12.370.9
आशया ह्यभिपन्नानामकृत्वाऽश्रुप्रमार्जनम् ।
राजा वा राजपुत्रो वा भ्रूणहत्यैव युज्यते ॥ १२.३७०.९ ॥
对被希望所困扰的人,若不擦去他们的眼泪,无论国王或王子,都等同于杀害胎儿。
12.370.10
मौने ज्ञानफलावाप्तिर्दानेन च यशो महत् ।
वाग्मित्वं सत्यवाक्येन परत्र च महीयते ॥ १२.३७०.१० ॥
以沉默获得智慧之果,以布施获得大名,以真实之言获得辩才;来世也受人尊敬。
12.370.11
भूप्रदानेन च गतिं लभत्याश्रमसंमिताम् ।
न्याय्यस्यार्धस्य संप्राप्तिं कृत्वा फलमुपाश्रुते ॥ १२.३७०.११ ॥
布施土地可得与修行居所相称的归宿;获得应得的一半,便享受其果报。
12.370.12
अभिप्रेतामसंश्लिष्टां कृत्वा चात्महितां क्रियाम् ।
न याति निरयं कश्चिदिति धर्मविदो विदुः ॥ १२.३७०.१२ ॥
做了合乎心愿、不杂不乱、利于自身的行为,无人会堕入地狱——知法者如是说。
12.370.13
अभिमानैर्न मानो मे जातिदोषेण वै महान् ।
रोषः संकल्पजः साध्वि दग्धो वागग्निना त्वया ॥ १२.३७०.१३ ॥
贤淑的女子啊,我的荣誉并非因傲慢而大;因出身的过失,由意念所生的大怒已被你言语之火焚毁。
12.370.14
न च रोषादहं साध्वि पश्येयमधिकं तमः ।
तस्य वक्तव्यतां याति विशेषेण भुजङ्गमाः ॥ १२.३७०.१४ ॥
贤淑的女子啊,我也不会因愤怒而看到更大的黑暗;众蛇啊,它尤其被人谈论。
12.370.15
रोषस्य हि वशं गत्वा दशग्नीवः प्रतापवान् ।
तथा शक्रप्रतिस्पर्धी हतो रामेण संयुगे ॥ १२.३७०.१५ ॥
陷入愤怒的掌控之中,强大的十颈王,因陀罗的对手,同样被罗摩在战斗中杀死。
12.370.16
अन्तःपुरगतं वत्सं श्रुत्वा रामेण निर्हृतम् ।
धर्मणारोषसंविग्नाः कार्तवीर्यसुता हताः ॥ १२.३७०.१६ ॥
听说进入内宫的小牛(儿子)被罗摩带走,卡尔塔维利亚的诸子因愤怒而激动,都被杀死了。
12.370.17
जामदग्न्येन रामेण सहस्रनयनोपमः ।
संयुगे निहतो रोषात्कार्तवीर्यो महाबलः ॥ १२.३७०.१७ ॥
卡尔塔维利亚,力量强大,如同千眼者(因陀罗),被雅玛达格尼之子罗摩因愤怒在战斗中杀死。
12.370.18
तदेष तपसां शत्रुः श्रेयसां विनिपातकः ।
निगृहीतो मया रोषः श्रुत्वैवं वचनं तव ॥ १२.३७०.१८ ॥
因此,这愤怒是苦行的敌人,是善业的毁灭者;听了你这番话,我已经克制住了这份愤怒。
12.370.19
आत्मानं च विशेषेण प्रशंसाम्यनपायिनि ।
यस्य मे त्वं विशालाक्षि भार्या गुणसमन्विता ॥ १२.३७०.१९ ॥
鹅呀,无衰之人,广目之人,我特别称赞自己,因为你具足德行,是我的妻子。
12.370.20
एष तत्रैव गच्छामि यत्र तिष्ठत्यसौ द्विजः ।
सर्वथा चोक्तवान्वाक्यं स कृतार्थः प्रयास्यति ॥ १२.३७०.२० ॥
我就去那位再生者所住之处。他以各种方式所说的话,将使他心愿达成而离去。