Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.373

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.373.1

नैष देवोऽनिलसखो नासुरो न च यन्नगः ।
उञ्छवृत्तिव्रते सिद्धो मुनिरेष दिवं गतः ॥ १२.३७३.१ ॥

此人既非天神,非风之友,也非阿修罗,非龙蛇。这位在拾穗苦行誓中成就的仙人,已升往天界。

12.373.2

एष मूलफलाहारः शीर्णपर्णाशनस्तथा ।
अब्भक्षो वायुभक्षश्च आसीद्विप्रः समाहितः ॥ १२.३७३.२ ॥

这位婆罗门以根和果为食,也吃干叶,只以水和风为生,心志专一而自持。

12.373.3

भवश्चानेन विप्रेण संहिताभिरभिष्टुतः ।
स्वर्गद्वारे कृतोद्योगो येनासौ त्रिविदं गतः ॥ १२.३७३.३ ॥

这位婆罗门以《本集》的颂歌赞美婆婆(湿婆),在天门前努力修行,因此得以证得三明之智。

12.373.4

असंगतिरनाकाङ्क्षी नित्यमुञ्छशिलाशनः ।
सर्वभूतहिते युक्त एष विप्रो भुजंगमाः ॥ १२.३७३.४ ॥

此人无所执著,无所贪求,常以拾取的谷粒和石子为食,专心于一切众生的利益,诸位蛇神啊。

12.373.5

न हि देवा न गन्धर्वा नासुरा न च पन्नगाः ।
प्रभवन्तीह भूतानां प्राप्तानामुत्तमां गतिम् ॥ १२.३७३.५ ॥

实在说,诸神、干闼婆、阿修罗与龙蛇,在此都无法支配已证得至高归宿的众生。

12.373.6

एतदेवंविधं दृष्टमाश्चर्यं तत्र मे द्विज ।
संसिद्धो मानुषः कामं योसौ सिद्धगतिं गतः।
सूर्येण सहितो ब्रह्मन्पृथिवीं परिवर्तते ॥ १२.३७३.६ ॥

啊,再生者,我在那里见到了这样的奇迹:此人完全成就,达到了悉地之境;婆罗门啊,他与太阳一同绕行大地。