Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.375

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.375.1

स चामन्त्र्योरगश्रेष्ठं ब्राह्मणः कृतनिश्चयः ।
दीक्षाकाङ्क्षी तदा राजंश्च्यवनं भार्गवं श्रितः ॥ १२.३७५.१ ॥

国王啊,那位婆罗门向最优秀的蛇辞别,意志坚定,渴望受戒,便投奔了婆利古之裔车耶那。

12.375.2

स तेन कृतसत्कारो धर्ममेवाधितस्थिवान् ।
तथैव च कथामेतां राजन्कथितवांस्तदा ॥ १२.३७५.२ ॥

他受到款待后,便专注于法;国王啊,他当时也讲述了这个故事。

12.375.3

भार्गवेणापि राजेन्द्र जनकस्य निवेशने ।
कथैषा कथिता पुण्या नारदाय महात्मने ॥ १२.३७५.३ ॥

国王之主啊,婆利古之裔在遮那迦的住所里,也将这神圣的故事讲给了大德那罗陀听。

12.375.4

नारदेनापि राजेन्द्र देवेन्द्रस्य निवेशने ।
कथिता भरतश्रेष्ठ पृष्टेनाक्लिष्टकर्मणा ॥ १२.३७५.४ ॥

国王之主啊,那罗陀也在因陀罗的住所里,应无忧行者之问,讲述了此事,婆罗多之最啊。

12.375.5

देवराजेन च पुरा कथितैषा कथा शुभा ।
समस्तेभ्यः प्रशस्तेभ्यो विप्रेभ्यो वसुधाधिप ॥ १२.३७५.५ ॥

天神之王也曾把这吉祥的故事讲给所有值得称赞的婆罗门听,大地之主啊。

12.375.6

यदा च मम रामेण युद्धमासीत्सुदारुणम् ।
वसुभिश्च तदा राजन्कथेयं कथिता मम ॥ १२.३७५.६ ॥

当我与罗摩发生那场极为惨烈的战斗时,国王啊,诸婆苏便向我讲述了这个故事。

12.375.7

पृच्छमानाय तत्त्वेन मया चैवोत्तमा तव ।
कथेयं कथिता पुण्या धर्म्या धर्मभृतांवर ॥ १२.३७५.७ ॥

我向你这位真诚发问之人讲述了这段至上、神圣且合于法(达摩)的故事,你是持守法者中最优秀的。

12.375.8

तदेव परमो धर्मो यन्मां पृच्छसि भारत ।
आसीद्धीरो ह्यनाकाङ्क्षी धर्मार्थकरणे नृप ॥ १२.३७५.८ ॥

你所问的正是至上的达摩,婆罗多之子啊。国王啊,曾有一位坚定无欲之人,专心于履行法与利益之事。

12.375.9

स च किल कृतनिश्चयो द्विजो ।
भुजगपतिप्रतिदशितात्मकृत्यः।
यमनियमसहो वनान्तरं ।
परिगणितोञ्छशिलाशनः प्रविष्टः ॥ १२.३७५.९ ॥

那位意志坚定的婆罗门,向蛇王展示了自己的本分,忍受禁戒与律仪,走入森林深处,以数过的拾穗和石头为食。