摩诃婆罗多 · 章 12.41
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.41.1
ततो युधिष्ठिरो राजा ज्ञातीनां ये हता युधि ।
श्राद्धानि कारयामास तेषां पृथगुदारधीः ॥ १२.४१.१ ॥
于是心胸宽厚的国王坚战为在战中阵亡的亲族分别举行了祭祀亡灵的仪式。
12.41.2
धृतराष्ट्रो ददौ राजा पुत्राणामौर्ध्वदेहिकम् ।
सर्वकामगुणोपेतमन्नं गाश्च धनानि च।
रत्नानि च विचित्राणि महार्हाणि महायशाः ॥ १२.४१.२ ॥
声名显赫的国王持国为诸子的葬礼供奉,施与具备一切所欲之美的食物、牛群、财富,以及奇妙而极其珍贵的宝石。
12.41.3
युधिष्ठिरस्तु द्रोणस्य कर्णस्य च महात्मनः ।
धृष्टद्युम्नाभिमन्युभ्यां हेडिम्बस्य च रक्षसः ॥ १२.४१.३ ॥
坚战又为伟大的德罗纳与迦尔纳,为持双光与阿毗曼由,也为罗刹希丁巴,举行了祭祀亡灵的仪式。
12.41.4
विराटप्रभृतीनां च सुहृदामुपकारिणाम् ।
द्रुपदद्रौपदेयानां द्रौपद्या सहितो ददौ ॥ १२.४१.४ ॥
他与德罗波蒂一同,为毗罗吒等有恩的朋友,以及德鲁帕达与德罗波蒂的诸子,施舍布施。
12.41.5
ब्राह्मणानां सहस्राणि पृथगेकैकमुद्दिशन् ।
धनै रत्नैश्च गोभिश्च वस्त्रैश्च समतर्पयत् ॥ १२.४१.५ ॥
他逐一指定各自的名号,以财富、宝石、牛群和衣服,使数千婆罗门全都心满意足。
12.41.6
ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः ।
उद्दिश्योद्दिश्य तेषां च चक्रे राजौर्ध्वदेहिकम् ॥ १२.४१.६ ॥
对于其他没有朋友亲人的地上之王,国王也逐一指名,为他们举行了祭祀亡灵的仪式。
12.41.7
सभाः प्रपाश्च विविधास्तटाकानि च पाण्डवः ।
सुहृदां कारयामास सर्वेषामौर्ध्वदेहिकम् ॥ १२.४१.७ ॥
般度之子为亲友建造了议事厅、水站和各种池塘,并为他们所有人举行了丧葬仪式。
12.41.8
स तेषामनृणो भूत्वा गत्वा लोकेष्ववाच्यताम् ।
कृतकृत्योऽभवद्राजा प्रजा धर्मेण पालयन् ॥ १२.४१.८ ॥
他既还清了对亡友的债,在诸世界中不受非议,国王功成圆满,依法护佑臣民。
12.41.9
धृतराष्ट्रं यथापूर्वं गान्धारीं विदुरं तथा ।
सर्वांश्च कौरवान्मान्यान्भृत्यांश्च समपूजयत् ॥ १२.४१.९ ॥
他照旧隆重礼遇持国、甘陀利与毗杜罗,以及所有受尊敬的俱卢族人和仆从。
12.41.10
याश्च तत्र स्त्रियः काश्चिद्धतवीरा हतात्मजाः ।
सर्वास्ताः कौरवो राजा संपूज्यापालायद्धृणी ॥ १२.४१.१० ॥
凡在那里失去英勇丈夫或儿子的妇人,俱卢王都予以尊敬,并怀着慈悲加以庇护。
12.41.11
दीनान्धकृपणानां च गृहाच्छादनभोजनैः ।
आनृशंस्यपरो राजा चकारानुग्रहं प्रभुः ॥ १२.४१.११ ॥
他给予困苦者、盲人和贫者以住所、衣物和食物;这位以仁慈为本的君主施以恩惠。
12.41.12
स विजित्य महीं कृत्स्नामानृण्यं प्राप्य वैरिषु ।
निःसपत्नः सुखी राजा विजहार युधिष्ठिरः ॥ १२.४१.१२ ॥
他征服了整个大地,在仇敌之中还清了债务,无人可与匹敌,快乐安逸,国王坚战便如此逍遥度日。