摩诃婆罗多 · 章 12.42
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.42.1
अभिषिक्तो महाप्राज्ञो राज्यं प्राप्य युधिष्ठिरः ।
दाशार्हं पुण्डरीकाक्षमुवाच प्राञ्जलिः शुचिः ॥ १२.४२.१ ॥
被灌顶并获得王国的大智慧者坚战,清净地合掌,对莲花眼的达莎尔哈后裔说道。
12.42.2
तव कृष्ण प्रसादेन नयेन न बलेन च ।
बुद्ध्या च यदुशार्दूल तथा विक्रमणेन च ॥ १२.४२.२ ॥
克里希那啊,由于你的恩典,不是靠策略,也不是靠力量,而是靠智慧,啊,યadu虎,也靠勇猛。
12.42.3
पुनः प्राप्तमिदं राज्यं पितृपैतामहं मया ।
नमस्ते पुण्डरीकाक्ष पुनः पुनररिंदम ॥ १२.४२.३ ॥
父祖之传的这一王国已由我重新获得。莲花眼者啊,向你致敬,一再致敬,啊,降伏敌人者。
12.42.4
त्वामेकमाहुः पुरुषं त्वामाहुः सात्वतां पतिम् ।
नामभिस्त्वां बहुविधैः स्तुवन्ति प्रयता द्विजाः ॥ १२.४२.४ ॥
人们称你为唯一的补鲁沙,称你为萨特瓦塔的主宰。自制的再生者以多种名号赞颂你。
12.42.5
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव ।
विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम ॥ १२.४२.५ ॥
向你致敬,宇宙的创造者。宇宙的灵魂啊,宇宙的源头啊,毗湿奴啊,胜者啊,哈里啊,克里希那啊,吠昆陀啊,人中至上者啊。
12.42.6
अदित्याः सप्तधा त्वं तु पुराणो गर्भतां गतः ।
पृश्निगर्भस्त्वमेवैकस्त्रियुगं त्वां वदन्त्यपि ॥ १२.४२.६ ॥
你这位古老者,以七重形态化为阿底提之子,进入了胎藏之境。你独自即是普里希尼胎藏,人们也称你为三时。
12.42.7
शुचिश्रवा हृषीकेशो घृतार्चिर्हंस उच्यते ।
त्रिचक्षुः शंभुरेकस्त्वं विभुर्दामोदरोऽपि च ॥ १२.४२.७ ॥
你被称为纯耳、感官之主、酥焰与天鹅。三目、湿婆,唯你一人是遍在者,你也是达摩陀罗。
12.42.8
वराहोऽग्निर्बृहद्भानुर्वृषभस्तार्क्ष्यलक्षणः ।
अनीकसाहः पुरुषः शिपिविष्ट उरुक्रमः ॥ १२.४२.८ ॥
你是野猪、火、大光明、公牛,具有迦樓羅之相。征服軍隊者、原人、入於光芒者、大步者。
12.42.9
वरिष्ठ उग्रसेनानीः सत्यो वाजसनिर्गुहः ।
अच्युतश्च्यावनोऽरीणां संस्कृतो विकृतिर्वृषः ॥ १२.४२.९ ॥
你是至上者、猛军之帥、真實者、賜食者、隱藏者。不滅者、動搖敵人者、精煉者、變化者,你也是公牛。
12.42.10
कृष्णधर्मस्त्वमेवादिर्वृषदर्भो वृषाकपिः ।
सिन्धुर्विधूर्मिस्त्रिककुप् त्रिधामा त्रिवृदच्युतः ॥ १२.४२.१० ॥
你,黑法,確實是始源;你是牛吉祥草與牛猴。海、無波、三方、三住、三轉、不滅,皆是你。
12.42.11
सम्राड् विराट् स्वराट् चैव स्वराड्भूतमयो भवः ।
विभूर्भूरतिभूः कृष्णः कृष्णवर्त्मा त्वमेव च ॥ १२.४२.११ ॥
你是君主、光耀之王、自主者,確實是自主者;你由眾生所成,你是本源。遍在者、有、超有、黑天、黑道,確實都是你。
12.42.12
स्विष्टकृद्भिषजावर्तः कपिलस्त्वं च वामनः ।
यज्ञो ध्रुवः पतङ्गश्च जयत्सेनस्त्वमुच्यसे ॥ १२.४२.१२ ॥
你是正確獻祭者、醫者、漩渦、迦毗羅,也是侏儒。你是祭祀、恆定者、飛鳥,你也被稱為勝軍。
12.42.13
शिखण्डी नहुषो बभ्रुर्दिविस्पृक् त्वं पुनर्वसुः ।
सुबभ्रू रुक्मयज्ञश्च सुषेणो दुन्दुभिस्तथा ॥ १२.४२.१३ ॥
你是希坎迪、那呼沙、跋卜茹、迭维斯普克,以及补那伐苏;苏跋茹、金祭、苏舍那,还有敦度毗。
12.42.14
गभस्तिनेमिः श्रीपझः पुष्करः शुष्मधारणः ।
ऋभुर्विभुः सर्वसूक्ष्मस्त्व धरित्री च पठ्यसे ॥ १२.४२.१४ ॥
你是迦婆斯提尼弥、室利翅、布什迦罗、舒什摩陀罗那;乌布、毗布,遍及一切微妙者;你也被诵为大地持者(地母)。
12.42.15
अम्भोनिधिस्त्वं ब्रह्मा त्वं पवित्रं धाम धामवित् ।
हिरण्यगर्भः पुरुषः स्वधा स्वाहा च केशवः ॥ १२.४२.१५ ॥
你是海洋之藏,你是梵天;你是清净之处,也是知晓此处者;你是金胎、补卢沙、自陀、娑婆诃,也是迦沙婆。
12.42.16
योनिस्त्वमस्य प्रलयश्च कृष्ण ।
त्वमेवेदं सृजसि विश्वमग्रे।
विश्वं चेदं त्वद्वशे विश्वयोने ।
नमोस्तु ते शार्ङ्गचक्रासिपाणे ॥ १२.४२.१६ ॥
黑天啊,你是此世的根源,也是它的毁灭;起初唯你创造这宇宙。宇宙与此皆在你掌控之中,宇宙之胎啊。敬礼你,手持沙阇弓、轮与剑者。
12.42.17
एवं स्तुतो धर्मराजेन कृष्णः ।
सभामध्ये प्रीतिमान्पुष्कराक्षः।
तमभ्यनन्दद्भारतं पुष्कलाभि ।
र्वाग्भिर्ज्येष्ठं पाण्डवं यादवाग्र्यः ॥ १२.४२.१७ ॥
黑天以莲花眼,受法王如此赞颂,于众人之中心生欢喜。此为诸耶达婆中之首者,以许多善言,欢迎长子般度子、婆罗多族的坚战。
12.42.18
एतन्नामशतं विष्णोर्धर्मराजेन कीर्तितम् ।
यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ॥ १२.४२.१८ ॥
此毗湿奴百名,由法王诵扬。凡诵读或聆听者,皆脱离一切罪业。