Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.43

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.43.1

ततो विसर्जयामास सर्वास्ताः प्रकृतीर्नृपः ।
विविशुश्चाभ्यनुज्ञाता यथास्वानि गृहाणि ते ॥ १२.४३.१ ॥

于是国王遣散了所有臣民(大臣与官员),他们获准后各自返回自己的家中。

12.43.2

ततो युधिष्ठिरो राजा भीमं भीमपराक्रमम् ।
सान्त्वयन्नब्रवीच्छ्रीमानर्जुनं यमजौ तथा ॥ १२.४३.२ ॥

于是尊贵的国王坚战一边安慰勇猛无比的怖军,一边说话;对阿周那和孪生兄弟也同样说了。

12.43.3

शत्रुभिर्विविधैः शस्त्रैः क्षतदेहा महारणे ।
श्रान्ता भवन्तः सुभृशं तापिताः शोकमन्युभिः ॥ १२.४३.३ ॥

在大战中,你们的身体被敌人的各种武器所伤;你们极其疲惫,被悲伤和愤怒深深折磨。

12.43.4

अरण्ये दुःखवसतिर्मत्कृते भरतर्षभाः ।
भवद्भिरनुभूता हि यथा कापुरुषैस्तथा ॥ १२.४३.४ ॥

婆罗多的雄牛啊!因为我,你们在森林中忍受了痛苦的居所,就像怯懦之人所忍受的那样。

12.43.5

यथासुखं यथाजोषं जयोऽयमनुभूयताम् ।
विश्रान्ताँल्लब्धविश्वासाञ्श्वः समेताऽस्मि वः पुनः ॥ १२.४३.५ ॥

请你们安心,依你们所愿,享受这胜利吧;待你们休息好、重获信心,明天我会再与你们相见。

12.43.6

ततो दुर्योधनगृहं प्रासादैरुपशोभितम् ।
बहुरत्नसमाकीर्णं दासीदाससमाकुलम् ॥ १२.४३.६ ॥

随后是难敌的宅邸,装饰着高楼宫殿,堆满了许多珍宝,婢女与仆役络绎不绝。

12.43.7

धृतराष्ट्राभ्यनुज्ञातं भ्रात्रा दत्तं वृकोदरः ।
प्रतिपेदे महाबाहुर्मन्दिरं मघवानिव ॥ १२.४३.७ ॥

在持国王允许下,这座由兄长赠予的宫殿,大臂者狼腹(毗摩)如因陀罗般进入其中。

12.43.8

यथा दुर्योधनगृहं तथा दुःशासनस्य तु ।
प्रासादभालासंयुक्तं हेमतोरणभूषितम् ॥ १२.४३.८ ॥

杜里奥达那的宫殿如何,难降的宫殿也如此——有楼阁高塔,以金色门楣装饰。

12.43.9

दासीदाससुसंपूर्णं प्रभूतधनधान्यवत् ।
प्रतिपेदे महाबाहुरर्जुनो राजशासनात् ॥ १२.४३.९ ॥

这座宫殿充满婢女与仆从,财富与谷物丰饶。大臂的阿周那奉国王之命进入其中。

12.43.10

दुर्मर्षणस्य भवनं दुःशासनगृहाद्वरम् ।
कुबेरभवनप्रख्यं मणिहेमविभूषितम् ॥ १२.४३.१० ॥

杜尔摩沙那的宫殿胜过难降的宫殿:如同俱毗罗的住所,以宝石与黄金装饰。

12.43.11

नकुलाय वरार्हाय कर्शिताय महावने ।
ददौ प्रीतो महाराज धर्मपुत्रो युधिष्ठिरः ॥ १२.४३.११ ॥

大王啊!法之子坚战欢喜地将此宫殿赠予那曾在大森林中消瘦、配得上上好赏赐的无种。

12.43.12

दुर्मुखस्य च वेश्माग्र्यं श्रीमत्कनकभूषणम् ।
पूर्णपझदलाक्षीणां स्त्रीणां शयनसंकुलम् ॥ १२.४३.१२ ॥

最好的宫殿是杜尔穆可的,华丽而饰以黄金,满是眼如盛开莲瓣的女子的床榻。

12.43.13

प्रददौ सहदेवाय संततं प्रियकारिणे ।
मुमुदे तच्च लब्ध्वाऽसौ कैलासं धनदो यथा ॥ १२.४३.१३ ॥

他不断地把财富赠给善待他的偏爱者萨诃提婆。得到它的他欢喜不已,如同财神(俱毗罗)得到凯拉萨山一般。

12.43.14

युयुत्सुर्विदुरश्चैव सञ्जयश्च विशांपते ।
सुधर्मा चैव धौम्यश्च यथा स्वाञ्जग्मुरालयान् ॥ १२.४३.१४ ॥

人主啊,尤悠苏、毗杜罗、桑贾耶、苏达尔摩和达乌摩也各自回到了自己的住所。

12.43.15

सह सात्यकिना शौरिरर्जुनस्य निवेशनम् ।
विवेश पुरुषव्याघ्रो व्याघ्रो गिरिगुहामिव ॥ १२.४३.१५ ॥

与萨提亚基同行,人中虎毗湿奴后裔(黑天)进入阿周那的住所,如同猛虎进入山洞。

12.43.16

तत्र भक्ष्यान्नपानैस्ते मुदिताः सुसुखोषिताः ।
सुखप्रबद्धा राजानमुपतस्थुर्युधिष्ठिरम् ॥ १२.४३.१६ ॥

他们在那里以食物和饮料为乐,居住得十分安逸,沉浸于安乐之中,前来侍奉国王坚战。